विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
by महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह)
Source: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (origin)
Public domain in India · Report a copyright issue
About this granth
The Vishnudharmottara Purana (विष्णुधर्मोत्तरपुराण) is a large Upapurana that presents itself as a supplement to the Vishnu Purana. It has three books: the first on creation, the cosmic ages, geography and genealogies; the second on kingship, law, astronomy, medicine and related subjects; and the third on the arts, covering painting (the Chitrasutra), music, dance, poetry, image-making and temple architecture. The Chitrasutra is among the oldest systematic accounts of Indian painting.
The scanned copy is the complete Sanskrit edition of about a thousand pages printed by the Shri Venkateshwar Press, Bombay, catalogued by the Digital Library of India under 1929. It opens with a Sanskrit preface on the authority of the Puranas, citing the Bhagavata and the Yajnavalkya Smriti. There is no Hindi translation in this edition, and the copy bears the stamp of Sarvodaya Sahitya Mandir, Hyderabad.
Art historians and students of iconography and Indian aesthetics can read the whole Purana here in Sanskrit.
च कथिता देवी गान्धर्वी च मनोऽनुगा ॥ इलावृते तथा सैव प्रोक्ता जाम्बवती शुभा ॥ ९ ॥ तस्यास्तीरभवं मूर्ध्नि कनकं धार्यते सुरैः ॥
केतुमाले च कथिता निर्मला नहुला तथा ॥ १० ॥ मनस्विनी ज्योतिष्मती हरिवर्षे निगद्यते ॥ तथा किम्पुरुषाख्ये तु रम्या चन्द्रवती शुभा ॥ ११ ॥
इन्द्रद्युम्नपयोदा सा काशिका मतिपावनी ॥ मनोजवा ताम्रपर्णी गभस्तिमतिमालिनी ॥ १२ ॥ नागद्वीपे नागवती सौम्ये सोमप्रभा तथा ॥ रुद्र-
लोकं ततः प्राप्ता ब्रह्मलोकं ततो गता ॥ १३ ॥ गान्धर्वी चैव गन्धर्वे वारुणे वरुणह्रदा ॥ ह्लादिनी ह्लादिनी चैव पुण्यतोया च वार्षिणी ॥ १४ ॥
सीता चक्षुश्च सिन्धुश्च गंगा चास्मिन्प्रकीर्तिता ॥ अपरान्विषयान्सर्वाञ्छीवरांलोपिकांस्तथा ॥ १५ ॥ ओष्ठप्रावरणांस्तांश्चकर्णप्रावरणान्स्तथा ॥
कालोदपान्विकर्णांश्च ह्लादिनी तु निषेवते ॥ १६ ॥ इन्द्रद्युम्नसुरः पुण्यसुपार्श्वान्गङ्गाज्जायत ॥ तथा ^१खर्पन्दान्शेनान्यवस्त्रांश्चेङ्कुपदानपि ॥ १७ ॥ तज्ञा-
नकामतं चैव ह्लादिनी तु निषेवते ॥ दरदाञ्छुहोडांश्चैव काश्मीरान्शबरान्सुकुरुन् ॥ १८ ॥ गान्धारान्बुरदांश्चामीरान्कृप्वन्भिमरोरवान् ॥ शिवपर्वां-
निन्द्रपूर्वात्सिन्धुतीरगतान्नृपेवते ॥ १९ ॥ देवांन्दैत्यांन्कलिकांश्चान्यान्वार्णिक्किन्नरांस्तथा ॥ विद्याधरांस्तथा नागान्सुपर्णान्वसुमनोहरान् ॥ २० ॥
कलपाग्रामकांश्चैव तन्नारायणाश्रमम् ॥ किरातांश्च पुलिन्दांश्च मयस्य नगरीं तथा ॥ २१ ॥ कुरुन्सभारतांश्चैव पुलिन्दांश्चैव भागशः ॥
पाञ्चालान्काश्यरान्वत्सान्मत्स्यान्मागधांस्तांस्ताम्रलिप्तकान् ॥ २२ ॥ सह्योत्तरांश्च वङ्गांश्च तथा श्वावस्तिवासिनः ॥ अङ्गाम्वङ्गांन्सुपुण्ड्रांश्च गङ्गा भावयते
शुभा ॥ २३ ॥ ह्लादिनी ह्लादिनी चैव पावनी जाह्नवी तथा ॥ प्रविष्टा सागरं पूर्वं द्वीपेष्वस्मिन्नृपसत्तम ॥ २४ ॥ सीतात्वचुक्षु सिन्धुश्च पश्चिमं नृप-
सागरम् ॥ गङ्गाख्यामितस्त्व प्रोक्ता जम्बूद्वीपे भयानघ ॥ २५ ॥ लोकेषु च तथा राजन्द्वीपेष्वन्येषु मे शृणु ॥ सुकुमारी कुमारी च सुकृता सेविन्ती
तथा ॥ २६ ॥ इक्षुश्च वेणुका नन्दा शाकद्वीपे च सप्तधा ॥ शाल्मले त्वथ गोमेदे^२ द्वीपे पुष्करसंज्ञके ॥ २७ ॥ नदीत्वं सा समुत्सृज्य चोदधित्वमु-
पागता ॥ तस्मिन्नदीप्रत्रेये नद्यो न सन्ति यदुनन्दन ॥ २८ ॥ उदकान्युद्धिदाय्येव तेषु सन्ति सहस्रशः ॥ एवं भ्रमितलं प्राप्य पाताल कृष्णमृत्ति-
कम् ॥ २९ ॥ एकीभूता प्रविष्टा सा भोगवत्यां समीपतः ॥ श्वेतभोंमं गता तस्माद्रक्तभोमं ततो गता ॥ ३० ॥ शिलभोंमं गता तस्माद्धेमकुमभोंमं
ततो गता ॥ रुक्मभोमादपि गता रौद्रं तेजस्सुदारुणम् ॥ ३१ ॥ ततोऽपि विलयं गत्वा वाराहं लोकमागता ॥ वाराहलोकाद्ब्रह्माण्डं तदर्थं भिन्न-
वाहिनी ॥ ३२ ॥ च्छिद्रेण तेन सा देवी स्वं योनिं पुनरागता ॥ ३३ ॥ एवं नरेन्द्रेश जगत्समभ्याक्रम्य गंगा सततं स्थिता या ॥ तस्याः प्रभाव
१ 'खरण्डां' इति क० । २ 'गोमेवे' इति ख० ।
| वि० ध० | प्र० सं० | |
|---|---|---|
| ॥ १३ ॥ | अ० २२ |
श्रवणदशेषं पापं नराणां सद्युपैति शन्तिम् ॥ ३४ ॥ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे गङ्गाव्यक्तिर्नाम द्वाविंशतितमो ऽध्यायः ॥ २२ ॥ वज्र उवाच ॥ भगीरथस्य राजर्षेर्वंशमुत्तमपूरुष ॥ त्वत्तोऽहं श्रोतुमिच्छामि गङ्गा येनावतारिता ॥ १ ॥ मार्कण्डेय उवाच ॥ भगीरथसुतः श्रीमान्विश्रुतो नाम धार्मिकः ॥ विश्रुतस्यात्मजः श्रीमान्नाभाग इति विश्रुतः ॥ २ ॥ अम्बरीषस्तु नाभागियुतारिस्तदात्मजः ॥ तत्सुतो ऋतपर्णश्च राजा नलसखो बली ॥ ३ ॥ शर्वकामः सुतस्तस्य सुदासस्तस्य चात्मजः ॥ तस्य मित्रसहः पुत्रः तस्य पुत्रोऽभवत्को नृप ॥ ४ ॥ मूलकस्तत्सुतो राजा महाबुद्धिर्धनेश्वरः ॥ क्षत्रियाणां वधे घोरे रामेण विनिपातिते ॥ ५ ॥ पुरा पितृवधामर्षान्माहामो भार्गवनन्दनः ॥ निःसत्कृत्यः पृथिवीं चक्रे निःक्षत्रियामिमाम् ॥६॥ भगीरथकुलोत्पन्नं मूलकं नाम जघ्निवान् ॥ वज्र उवाच ॥ कथं रामेण वसुधा पुरा निःक्षत्रिया कृता ॥ किमर्थं च महाभाग तन्ममाचक्ष्व पृच्छतः ॥ ७॥ मार्कण्डेय उवाच ॥ सोमवंशसमुत्पन्नो ययातिर्नाम पार्थिवः ॥ तस्यापि संहतः पुत्रो बभूव पृथिवीपतिः ॥ ८ ॥ सहस्रजित्सुतस्तस्य नमजित्तस्य चात्मजः ॥ तस्यापि हैहयः पुत्रः कुन्तिस्तस्यापि चात्मजः ॥ ९ ॥ तस्यापि संहतः पुत्रो महिष्मान्स्तस्य चात्मजः ॥ माहिष्मती कृता येन नगरी सुमनोहरा ॥ १० ॥ भद्रश्रेण्यः सुतस्तस्य दुर्मदस्तस्य चात्मजः ॥ कनकंस्तत्सुतो राजा कृतवीर्यस्तदात्मजः ॥ ११ ॥ अर्जुनस्तनयस्तस्य सप्तद्वीपेश्वरोऽभवत् ॥ दत्तोत्रेयोऽथ भगवाग्विष्णुरूपानुकंप्यपृच्छा ॥ १२॥ आराधय तपसा येन प्राप्तं राज्यं सुदुर्लभम् ॥ तथा बाहुसहस्रं च मतिं धर्मे तथोत्तमाम् ॥ १३ ॥ अधर्मे वर्तमानस्य मरणं च जनार्दनात ॥ युद्धेन पृथिवीं जित्वा धर्मेणावरुधंऽजयन् ॥ १४ ॥ तेनेयं पृथिवी सर्वा सप्तद्वीपा सपत्तना ॥ सतोदधिपरीक्षिता शास्त्रेण विधिना जिता ॥ १५ ॥ पातालनगरे शैले वसुधायां रसातले ॥ तस्य पार्थिवसिंहस्य चक्रं न प्रतिहन्यते ॥ १६॥ द्वीपेषु म दि संवेषु खातं खातमथाऽकरोत् ॥ यूपचिह्नानि च तथा बर्ह्री शतशनी रथी ॥ १७ ॥ देशान्तु चान्योणालतदा पश्यन्ति तस्करान्व ॥ १८ ॥ स एव पशुपालोऽभूत्क्षेत्रपालः म् एव च ॥ १८ ॥ स एव वृष्ट्या पर्जन्यो यगित्वार्जुनोऽभवत ॥ स तु बाहुसहस्रेण ज्याघातकठिनत्वचा ॥ १९ ॥ भाति गुष्ममहनश्वन् शार्ङ्गेन्व भास्करः ॥ गक्षसा निर्जितास्तेन तेन बद्धश्च गवणः ॥ २० ॥ जित्वा भोगवती तेन कर्कोटकसुता हता ॥ तम्य बाहुमहस्रेण क्षोभ्यमाणे महोदधौ ॥ भवन्ति लीना निश्चेष्टाः पातालस्था महासुगाः ॥ २१ ॥ मन्दक्षोभचकित्ता अमृतोत्पादशङ्किताः ॥ नतंनिश्चलसर्वाङ्गा भवन्ति च महोरगाः ॥ २२ ॥ दृश्यन्महस्रबाणि तनद्योनि महीक्षिता ॥ द्वीप द्वीपे महाराज धर्मेण महात्मना ॥ २३ ॥ संर्व यज्ञा महाराज तन्मयान्मूरिदक्षिणाः ॥ सर्व काञ्चनवँडूर्याः सर्वं ग्रूपश्च काञ्चनः ॥२४॥ द्विजानां
॥ १३ ॥
परिवेष्टारस्तस्य यज्ञेषु देवताः ॥ स्वयमासन्महाराज स्वयं भगवांस्तथा ॥ २५ ॥ तस्य यज्ञे जगौ गाथा नारदस्तसुमहत्तपाः ॥ न नूनं
कार्तवीर्यस्य गतिं यास्यन्ति पार्थिवाः ॥ २६ ॥ यज्ञैर्दानैस्तपोभिर्वा विक्रमेण श्रुतेन वा ॥ २७ ॥ पञ्चाशीतिसहस्राणि वर्षाणां स महीपतिः ॥
सप्तद्वीपेश्वरः सम्राट् चक्रवर्ती बभूव ह ॥२८॥तस्य राज्ञस्तु वसुधा बहुपार्थिवसङ्कुला ॥ भाराक्रान्ता विह्वलिता बभूव पृथिवीपते ॥२९॥तस्य राज्ञो
गतान्तैर्बहुभिर्नृपैरितस्ततः ॥ तेजोयुक्तैः समाकीर्णा वसुधा वसुधाधिप ॥ ३० ॥ बहुनागाश्वसङ्कीर्णा बहुगोकुलसङ्कुला ॥ न शक्ता नृपते सोढुं
तेजस्तदतिमात्रमुम् ॥ ३१ ॥ ज्वालाविह्वलिता भूः श्रान्ता खिन्ना नाकमुपागता ॥ ३२ ॥ एवं प्रभावे नरदेवनाथे पृथ्वीं समग्रां परिपालयमाने ॥
भारेण सन्ना पृथिवी जगाम महेन्द्रलोकं मुनिदेन्दुजुष्टम् ॥ ३३ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादेऽर्जुनोपाख्यानं नाम
त्रयोविंशोऽध्यायः ॥ २३ ॥ वज्र उवाच ॥ देवकार्यं विना विष्णोरुत्पत्तिर्यति महीतले ॥ १॥ कस्मिन्काले^१ बभूवासौ दत्तात्रेय इति
श्रुतः ॥ १ ॥ मार्कण्डेय उवाच ॥ शुक्रेण च यदा वृत्रो हतो वीर्योपबृंहितः ॥ २ ॥ तस्मिन्हतेऽसुरे त्वद्य विष्णुरूपमवासृजत् ॥
तपस्यन्तं च तं गत्वा जघान च शचीपतिः ॥ ३॥ तस्मिन्हते ब्रह्महत्या जगाम वलसूदनम् ॥ ब्रह्महत्याभिभूतस्तु राज्यं त्यक्त्वा त्रिविष्टपे ॥ ४ ॥
मानसे बिसतन्तुस्थो बभूव स पुरन्दरः ॥ राजा कृतः शक्रहीनंर्दैवैस्तु नहुषस्तदा ॥ ५ ॥ सोऽकामयत पौलोमीं शक्रस्य महिषीं प्रियाम् ॥
कालालामपरा प्राह शक्रं देवी तथा शची ॥ ६ ॥ अपूर्वेण तु यानेन समीपं मे सुरेश्वर ॥ ऋषिभिः शिविकां युक्ता स जगाम तदन्तिकम् ॥ ७ ॥
शिबिकां वहमानं तु मन्दमन्दं द्विजोत्तमम् ॥ पादेन ताडयामास सोऽगस्त्यं पापनिश्चयः ॥ ८ ॥ अगस्त्येन तथा शप्तो भव सर्पो महीपते ॥
युधिष्ठिरेण संगत्य शापमोक्षमवाप्स्यसि ॥ ९ ॥ एवमुक्ते तु मुनिना सर्पत्वं स जगाम वै ॥ नष्टे शके च पतिते नहुषे पापनिश्चये ॥ १० ॥
रजस्तमोभ्यामाक्रान्ता बभूवद्विदशालयाः ॥ ततः प्रवृत्ता लोकेऽस्मिन्ननावृष्टिः सुदारुणा ॥ ११ ॥ दुर्भिक्षमरकौ चोभौ विपण्णास्त्रिदशालयाः ॥
नद्योत्सन्नमहापूर्णा निर्वषट्कारमङ्गलम् ॥ १२ ॥ अनावृष्टिहतं सर्वं बभूव वसुधातलम ॥ क्षुत्क्षाममातृप्रायं विनष्टपशुसञ्चयम् ॥ १३ ॥ कपाला-
स्थिसमाकीर्णं केशशैवालसंकुलम् ॥ क्षुध्रुभग्नद्विजगणैः क्रव्यादेरितसंकुलम् ॥ १४ ॥ निर्गन्धिपुष्पाकीर्णं शून्यप्रायं विभीषणम् ॥
क्षुत्क्षामभूतसङ्घाभ्यां विनिवृत्तविपाकपथम् ॥ १५ ॥ प्रनष्टकृषिवातं च दातृमिश्च विवर्जितम् ॥ नरकेऽपि महोघोरे निराकन्दैर्जनैर्युतैः^२ ॥ १६ ॥
^१ 'कस्मिन्काले' इति ख० ।
^२ 'जनैर्युतः' इति ख० ।
दुर्लभां निरानन्दं स्कन्धांसकटिकुब्जकैः ॥ इतश्चेतश्च यास्यन्ति दानवेन्द्रैर्विसंकुलम् ॥ १७ ॥ शुष्कतायाशयं भीमं नामशेषमहापगम् ॥
तस्मिन्काले महारोरे चोत्सृष्टनियमा द्विजाः ॥ १८ ॥ आर्य्यावर्त्तं परित्यज्य म्लेच्छदेशमुपाश्रिताः ॥ मध्यमदेशं परित्यज्य कुर्वाणाः
प्राणधारणम् ॥ १९ ॥ प्राणधारणसक्तानां क्षुधाव्याकुलचेतसाम् ॥ तेषां ब्रह्म तदा नष्टं धावतां च इतस्ततः ॥ २० ॥ तदा नष्टेषु देवेषु म्लेच्छी-
भूतमभूदिदं जगत् ॥ म्लेच्छीभूते जगत्त्यस्मिन्स्वाहास्वाधाविवर्जिताः ॥ २१ ॥ यथा मत्स्यांस्तथा जाताः सर्वे ते देवतागणाः ॥ क्षुत्क्षामकण्ठैस्त्रिदशैः
प्रार्थितश्च जनार्दनः ॥ २२ ॥ शक्रार्थं त्रिदशा गत्वा त्रैलोक्यहितकाम्यया ॥ २३ ॥ तानुवाच हरिर्देवः सर्वे गच्छन्तु मानसम् ॥ विस्रंततुगतं
शक्रं तस्माल्लप्स्यथ मा चिरम् ॥ २४ ॥ यजतां सोऽश्वमेधेन मामेव सुसमाहितः ॥ अहमेव करिष्यामि विपाप्मानं विडौजसम् ॥ २५ ॥ तत्कृता
ब्रह्महत्यां तु चतुर्धा स करिष्यति ॥ २६ ॥ अमेध्यप्रक्षेपके वह्नौ पादेनैकेन यास्यति ॥ तथा चैकेन पादेन ह्यशुचिक्षेपके जले ॥ २७ ॥ पादेनैकेन च
तथा सर्वकाले द्रुमोच्छिदम् ॥ रजस्वलासु पादेन तथा चैकेन यास्यति ॥ २८ ॥ अहमेतेन यास्यामि भूतलं सुरकारणात् ॥ नष्टे च भूतले धर्मं स्थाप-
यिष्याम्यहं पुनः ॥ २९ ॥ एतत्सर्वं यथोद्दिष्टं देवदेवेन शार्ङ्गिणा ॥ चक्रे सुरगणैः सर्वं राज्यं चावाप वृत्रहा ॥ ३० ॥ शक्रेण नित्यं विसतन्तु-
गेन ध्यातो महात्मा हरिरप्रमेयः ॥ हत्यापि कामेन स विप्रमुख्यं लेभे त्रिलोकीं पुनरेव तस्मात् ॥ ३१ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्क-
ण्डेयवज्रसंवादे वृत्रवधोपाख्यानं नाम चतुर्विंशतितमोऽध्यायः ॥ २४ ॥ मार्कण्डेय उवाच ॥ ब्रह्मणोऽङ्गिराः सुतः श्रीमान्प्रभावाद्ब्रह्मणा समः ॥
प्रभाकरस्तस्य सुतः पितामहसमो गुणैः ॥ १ ॥ स्वर्भानुना हते सूर्ये पतमाने दिवो महीम् ॥ तमोभिभूते तपसा प्रभा येन विवर्धिता ॥ २ ॥ स्वस्त्य-
स्त्विति स होवाच पतमानं दिवाकरम् ॥ वचनात्तस्य ब्रह्मर्षेर्न पपात दिवो महीम् ॥ ३ ॥ आत्रेयाणि गोत्राणि यश्चकार महायशाः ॥ यज्ञोपवित्रवनं
वाप्यनुसृष्टवान् ॥ वेदानध्यापयामास ब्राह्मणांश्च श्रुतान्वितान् ॥ ४ ॥ दत्तात्रेयोऽथ दुर्वासा लोके ख्यातिमुपागतौ ॥ ५ ॥ दत्तोऽत्रेयत्वमगमत्तन्मयोऽभवत्
॥ ६ ॥ अभिवर्द्धति चाधर्मे सत्ये नष्टे द्रुते¹ स्थिते ॥ प्रजासु शीर्यमाणासु धर्मे चाकुलतां गते ॥ ७ ॥ हयास्याः शक्तया वेदाः प्रत्यानीता हि तेन
वै ॥ चातुर्वर्ण्यमसंकीर्णं कृते तेन महात्मना ॥ ९ ॥ दुर्भिक्षमङ्गे नष्टे तस्मिन्त्राते महीतले ॥ प्रववर्ष च देवेन्द्रः सहस्रनयनः क्षितौ ॥ १० ॥ भूय एव
¹ 'विद्रुते' इति ख० ।
² 'प्रवर्त्तितम्' इति क० ।
जगद्वृत्तं यथापूर्वं जगत्पते ॥ ११ ॥ यजत्सु विप्रमुख्येषु तपस्याभिरतेषु च ॥ वार्तासक्तैषु वैश्येषु शुश्रू-
षून्वन्त्यजेषु च ॥ १२ ॥ मुदितेषु च लोकेषु त्रैलोक्ये देवसादृते ॥ विष्णोर्भागे क्षितिर्गते कार्त्तवीर्यार्जुनस्तदा ॥ १३ ॥ दशवर्षसहस्राणि कृत-
वान्दुश्चरं तपः ॥ प्रयागवनमासाद्य दत्तात्रेयाश्रमं प्रति ॥ १४॥ आराधयामास तदा दत्तं शुश्रूषया नृप ॥ तेन दत्तवरश्चक्रे स राज्यं हतकण्टकम् ॥ १५॥
आर्यावर्तंषु निर्मलेंच्छा कृता तेन वसुन्धरा ॥ तस्मिन्त्राजनि धर्मज्ञे दैत्यैर्देवनिपातितैः ॥ १६ ॥ संप्रानैर्भृमिपालत्वं वसुधा भारपीडिता ॥ नाकपृष्ठं
ययौ शीघ्रं शक्रदर्शनलालसा ॥ १७॥ वत्र उवाच ॥ आसाद्य लोकं त्रिदिवेश्वरस्य भारेण खिन्ना वसुधा नरेन्द्रः ॥ किं तत्र चक्रे वद तन्ममाद्य दृष्ट्वा
क्षितिं यच्च चकार शक्रः ॥ १८॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे दत्तात्रेयोपाख्यानं नाम पञ्चविंशतितमोऽध्यायः ॥२५॥ मार्कण्डेय
उवाच ॥ नाकपृष्ठगता भूर्मिददर्श मधुसूदनम् ॥ रत्नहासनगतं वीरं श्रिया परमया युतम् ॥ १ ॥ उपास्यमानं त्रिदशैर्भासयन्तं सभां शुभाम् ॥
आदित्यैर्वसुभिः साध्यैर्विश्वेदेवैर्मरुद्गणैः ॥ २ ॥ रुद्रैर्गन्धर्व्वरक्षोभिश्च नासत्यैश्च महात्मभिः ॥ ऋषिभिः सूर्य्यसंकाशैस्तपसा द्योतितप्रभैः ॥ ३ ॥
गन्धर्व्वैरप्सरोभिश्च स्तूयमानं सहस्रशः ॥ किरीटिनमतंसंञ्च्छन्नं हारकेयूरभूषितम् ॥ ४ ॥ रत्नाङ्गदकृतोद्द्योत रत्तगर्भासमप्रभम् ॥ हारिचन्दन-
दिग्धंगं नीलाम्बरधरं हरिम् ॥ ५ ॥ तिर्यग्गलत्तकटाक्षाद्द्ण्या तृतीयिन विराजितम् ॥ पश्यन्तं सर्वलोकस्य सततं धर्म्मकर्म्मणी ॥ ६ ॥ विष्णोर-
चिन्तयम्मङ्गं तत्रैलोक्यस्यैव कारणम् ॥ गोब्राह्मणहितासक्तं ददृर्श वसुधा तदा ॥ ७ ॥ सन्ध्यासह समासोनं श्रिया चैव जनार्द्दनम् ॥ तं ववन्दे
वसुमती दैत्यभारप्रपीडिता ॥ ८ ॥ पाद्यार्थ्याचमनीयैार्थैः शक्रोऽपि वसुधां तदा ॥ पूजयित्वाँ सुखासीनां पप्रच्छागमनक्रियाम् ॥ ९ ॥ पृष्टा
शके्रण सा देवी वक्तुं समुपचक्रमे ॥ १० ॥ पृथिव्युवाच ॥ अन्तरिक्षं दिवं यच्च तथैवाऽहं जगत्पते ॥ तवायत्ता महाभाग त्वं हि देवेश्वरो
विभुः ॥ ११ ॥ त्वयि भारं समासज्य वेदाभ्यासनतत्परः ॥ सुखमास्ते प्रशान्तात्मा ब्रह्मा शुभचतुर्मुखः ॥ १२ ॥ त्वयि भारं समासज्य देवदेवोऽपि
शङ्करः ॥ आस्ते तपस्याभिरतः कैलासे पर्वतोत्तमे ॥ १३ ॥ त्वयि भारं समासज्य सुखं स्वपिति केशवः ॥ क्षीरोदाशयने नित्यं शेषपर्य्यङ्कऽमा
स्थितः ॥ १४ ॥ पितामहस्य यत्तेजः केशवस्य शिवस्य च ॥ स्थितं तत्सकलं तुम्यं त्वं हि सर्वमयोऽरिहा ॥ १५ ॥ त्वया विनिहतो वृत्रो बल-
श्चापि निषूदितः ॥ त्वया च नाशितः पाकस्त्वया दैत्या निषूदिताः ॥ १६ ॥ ब्रह्मण्यस्त्वं शरण्यस्त्वं प्रणतार्त्तिविनाशनः ॥ सहस्रनयनः
१ ‘जपत्सु’ इति ख० । २ ‘स्थितिगते’ इति क० । ३ ‘पूरयित्वा’ इति ख० । ४ ‘वक्षश्च त्रित्यूद्धितः’ इति क० । ५ ‘निपातिताः’ इति क० ।
वि० ध०
॥ १५॥
प्र० खं०
अ० २७
॥ १५॥
श्रीमान्वज्रपाणिर्जगत्प्रियः ॥ १७ ॥ तेजसा तपसा यज्ञैः श्रुतेन च दमेन च ॥ त्वत्तो विशिष्टं लोकेऽस्मिन्न पश्यामि शचीपते ॥ १८ ॥ वेदेषु सरहस्येषु गीयसे त्वं पुनःपुनः ॥ वेदाः प्रवृत्ता यज्ञार्थं तदर्थं क्रतवस्तथा ॥ १९ ॥ ये हता दानवा युद्धे त्वया शक्र पुनःपुनः ॥ त इमे दनु सम्भूताः कर्तुंवीर्यं समाश्रिताः ॥ २० ॥ तेऽद्य जाता मम विभो पीडयन्ति च मां भृशम् ॥ सोऽहं भ्रातृसमाक्रान्तो त्वामद्य शरणं गता ॥ २१ ॥
॥ शक्र उवाच ॥ जानामि भार्गवश्रेष्ठ ! त्वां दैत्येभ्यो वरवर्णिनि ॥ तेषां गत्वा वधोपायमहं प्रक्ष्यास्म्यि वेधसम् ॥ २२ ॥ मार्कण्डेय उवाच ॥ इत्येवमुक्त्वा त्रिदशप्रधानः पृथवीसमेतो गुरुणा च राजन् ॥ ययौ सभां देववरस्य तस्य पितामहस्याप्रतिमस्य वीरः ॥ २३ ॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे पृथ्वीशक्रलोकगमनं नाम षड्विंशतितमोऽध्यायः ॥ २६ ॥ ॥ छ ॥ ॥
॥ मार्कण्डेय उवाच ॥ ॥ ते समेताः समासाद्य पितामहसभां शुभाम् ॥ पद्मासनगतं तत्र ददृशुः पद्मसंभवम् ॥ १ ॥ पद्मपत्रसवर्णांगं पद्मबोधसमप्रभम् ॥ चतुर्वक्त्रं चतुर्वेदं चतुराश्रमपूजितम् ॥ २ ॥ चातुर्वर्ण्यधरं देवं चातुर्होत्रप्रवर्तकम् ॥ कृष्णाजिनधरं शान्तं प्रभुं प्रभवतामपि ॥ ३ ॥ स्वयंभुवमचिन्त्यं च सर्वसंहारकारकम् ॥ तं समासाद्य जगती शक्रश्च गुरुणा सह ॥ ४ ॥ ववन्दुस्ते महाभागं तुष्टुवुश्च जगत्प्रभुम् ॥
शक्रादय ऊचुः ॥ नमस्ते देवदेवेश सृष्टिसंहारकारण ! ॥ वदन्ते तदाधार यज्ञं यज्ञांग यक्षप ॥ ५ ॥ यज्ञयोने जगद्योने सर्वसत्त्वाभयप्रद ॥ प्रजापतिपते देव जगद्बीज नमोऽस्तु ते ॥ ६ ॥ स्वयम्भुवे स्वयं कर्त्रे सर्वभूतान्तरात्मने ॥ सर्वभूतेश्वरोत्पत्तौ सर्वभूतेश्वराय च ॥ ७ ॥ अचिन्त्यायऽप्रमेयाय प्रकाशाय महात्मने ॥ त्वमस्य जगतो नाथैस्त्वयि सर्वं प्रतिष्ठितम् ॥ ८ ॥ त्वया विना जगत्यस्मिन्नात्किंचित्त्वन विद्यते ॥ इन्द्रियाणीन्द्रियार्थाश्च तेभ्यः परतरञ्च यत् ॥ ९ ॥ व्यक्ताव्यक्तौ जगन्नाथ त्वमेवैकः प्रकीर्तितः ॥ त्वं तपांसि वरिष्ठानि कृच्छ्राणि नियमानि च ॥ १० ॥ कलांः काष्ठा मुहूर्ताश्च कालस्यावयवाश्च ये ॥ कालचक्रं जगच्चक्रं त्वमेकः पुरुषोत्तमः॥ ११ ॥ त्वमेव वरदो दाता देवः शुभवचोमुखः ॥ ततः प्रसूतो लोकेऽस्मिन्त्सर्वज्ञा जगत्पति ॥ १२ ॥ भृग्वंगिरा मरीचिस्तु पुलस्त्यः पुलहः क्रतुः ॥ अत्रिश्चैव वशिष्ठश्च त्वया सृष्टा जगत्पते ॥ १३ ॥ सनत्कुमारो भगवान्सन्कश्च सनन्दनः ॥ आङ्गीरतिक्ष रुचिः श्रद्धा तया देव विनिर्मिता ॥ १४ ॥
१ 'सर्वतस्त्वममय' इति ख० । २ 'सर्वभूतेश्वरासमे' इति ख० । ३ 'त्वमस्य जगतो नाथ' इति क० । ४ 'नान्यत्किंचिद्वि' इति क० । ५ 'अनेकैर्वा' इति क० । ६ 'ततस्तां चन्' इति क० । ७ 'कालां' इति क० । ८ 'जगत्पर्ता' इति ख० । ९ 'अत्रिश्चैवेतिश्च तया' इति ख० ।
पूर्वात्ते वदनाज्जातमृग्वेददमृतप्रभम् ॥ दक्षिणाद्वदनाज्जातं यजुर्वेदं तथैव च ॥ १६ ॥ पश्चिमाद्वदनाज्जातं सामवेदं तथा तव ॥ उत्तराद्वदनाज्जात-
मथर्वाङ्गिरसं शुभम् ॥ १७ ॥ ब्राह्मणास्ते मुखाज्जाता बाहुभ्यां क्षत्रियास्तथा ॥ ऊरूभ्यान्तथा वैश्याः पद्भ्यां शूद्रास्तथैव च ॥ १७ ॥ विद्युतोऽथ
शनिमेघाश्च रोहितेन्द्रधनूंषि च ॥ त्वत्तः प्रभो प्रसूतानि प्रविशन्ति तथा त्वयि ॥ १८ ॥ स्वयम्भूभगवान्विष्णुर्देवदेवः सनातनः ॥ नाममात्रविभे-
देन मोहयस्यखिलं जगत् ॥ १९ ॥ त्वत्तेजसा मया दैत्या ये युद्धे विनिपातिताः ॥ ते क्षितौ क्षत्रिया जाताः पीडयन्ति तथा क्ष्माम ॥ २० ॥ एवं
तेषां भारेण खिन्नेयं त्वत्सकाशमुपागता ॥ वसुधा वसुधापाल तां त्रायस्व नमोऽस्तु ते ॥ २१ ॥ मार्कण्डेय उवाच ॥ एवं
पितामहो देवः स्तुतः शक्रेण धीमता ॥ गुरुणा च समेतेन पूजयामास तावुभौ ॥ २२ ॥ पूजयित्वा च वसुधां शक्रं
वचनमब्रवीत् ॥ ब्रूध्वं देवदेवस्य शङ्करस्य महात्मनः ॥ २३ ॥ मुखकीर्त्तितं सर्वं निवेदयत मा चिरम् ॥ उपायं क्षत्रियवधे
युष्माकं कथयिष्यति ॥ २४ ॥ इत्येवमुक्त्वास्तु पितामहेन जग्मुस्तदा रुद्रसदः प्रतीताः ॥ शक्रेाऽथ देवी च वसुन्धरा च गुरुः सुराणाञ्च स
धर्मशीलः ॥ २५ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे ब्रह्मलोकगमनं नाम सप्तविंशतितमोऽध्यायः ॥ २७ ॥
मार्कण्डेय उवाच ॥ रुद्रलोकमथासाद्य ददृशुस्त्र्यम्बकं तदा ॥ वह्निपुञ्जप्रतीकाशं जटाभारेण राजितम् ॥ १ ॥ सूर्य्यभासा तृतीयेन नयनेन च
शोभितम् ॥ भालचन्द्रेण शुभ्रेण जटामण्डलशोभिना ॥२॥ व्यालयज्ञोपवीतञ्च नागेन्द्रकृतकङ्कणम् ॥ नीलकण्ठं विशालाक्षं दन्तित्वचमथोरुच्छदम् ॥
॥ ३ ॥ उमासहायं वरदं सर्वभूतभवोद्भवम् ॥ नन्दिनानुगतं वीरं प्रमथैश्च सहस्रशः ॥ ४ ॥ नानाचक्रशिरोग्रीवैर्नानायुधविभूषणैः ॥ तं दृष्ट्वा
प्रणतः प्राह शक्रस्तु गुरुणा सह ॥ ५ ॥ शक्र उवाच ॥ नमोऽस्तुदेवदेवेश प्रणतार्त्तिनिवारण ॥ नीलकण्ठ महाभाग ह्युमाभूषणतत्पर ॥ ६ ॥
गङ्गातरङ्गनिर्धौतजटामण्डलमण्डित ! ॥ शशाङ्कशतसङ्काश सूर्य्यकोटिसमप्रभ ॥ ७ ॥ वामनैर्जटिलैर्मुण्डैः प्रमथैरीक्ष्यसे सदा ॥ तैश्च सार्धं महादेव
रमसेऽमितविक्रम ॥ ८ ॥ घोरं हि ब्रह्मचर्यं ते यथा नान्यस्य कस्यचित् ॥ तव लिङ्गार्चनरताः पूयन्ते सर्वकिल्बिषैः ॥९॥ स्मरन्ति ये त्वां सततं
ते हि यान्ति परां गतिम् ॥ विष्णोरिचिन्त्यभागोऽसि प्रजासंहरणे कृते ॥ १० ॥ सर्वदेवमयो धाता सर्वदेवमयोऽपि च ॥ सर्वदेवरूपस्त्वं
१ 'क्षत्रियाः सूताः इति ख० । २ 'मोहयस्यखिलाम्' इति ख० । ३ 'गुरुणाऽनुसमेतेन 'इति खः । ४ 'निकेतिनं' इति ख० । ५ 'बालचन्द्रेण' इति ख० । ६ 'नानायुधविभूषयैः' इति ख० । ७ 'नमस्ते' इति ख० । १ 'सर्वभूतवरप्रदम्' इति ख० । 'सर्वभूतविभावितः' इति च ख० ।
सर्वभूतविभावनः ॥११॥ सर्वामरगुरुर्देवः सर्वभूतेश्वरेश्वरः ॥ सर्वदेवो महायोगी महाजयो महाबलः ॥ १२॥ महाबुद्धिर्महावीर्यो महातेजा महायशाः ॥
चतुष्पात्सकलो धर्मो वहनस्ते महद्वपुः ॥ १३ ॥ श्मशाने वसतिर्नित्यं चिताभस्मसमाकुले ॥ नृत्यद्भूतकुले भूमर्भूतैः श्वेतानुलेपनः ॥ १४ ॥
भूर्लोकश्चैवं सलिलयजमानोऽनिलानुवायवः ॥ मूर्तयस्ते स्मृता देव यस्मिन्निदं जगत् ॥ १५ ॥ त्वया विना जगत्यस्मिन्नान्यत्किञ्चन विद्यते ॥
दैत्यभाराभितप्ताङ्गां पालयस्व नमोऽस्तु ते ॥ १६॥ मार्कण्डेय उवाच ॥ एवमुक्तस्तु शक्रेण देवः शक्रमभाषत ॥ कार्त्तवीर्यमहं त्याजो कर्त्ता
निःक्षत्रियां महीम् ॥ १७ ॥ न शक्रास्त्रिदशश्रेष्ठ यतः स्तौतीस्म तद्ध्रुवं ॥ विष्णुदत्तवरो राजा सोढव्यो मम वासव ॥ १८ ॥ तमेव
प्रार्थयिष्यामि वरं तस्य महात्मनः ॥ सर्वं यात स्वकं स्थानं त्वंहस्याम्येश्वरेश्वरम् ॥ १९ ॥ चन्द्रमण्डलमध्यस्थं यास्ये वरदमीश्वरम् ॥
विष्ण्वंशेन भागेन दत्तात्रेयोऽभवत्क्षितौ ॥ २० ॥ तेन दत्तवरो राजा पालयत्यखिलां महीम् ॥ २१ ॥ इत्येवमुक्त्वा त्रिदशेश्वरस्तु देवेन
साक्षात्त्रिपुरान्तकेन ॥ जगाम शीघ्रं स्वपुरं प्रविष्टो महीं समासाद्य गुरुश्च राजन् ॥ २२ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेय
वज्रसंवादे दृष्टदर्शनं नामाष्टाविंशतितमोऽध्यायः ॥ २८ ॥ मार्कण्डेय उवाच ॥ गते सुरेश्वरे देवे शक्रे च सपुरोहिते ॥ जगायाश्च प्रया
तायां देवदेवो महेश्वरः ॥ १ ॥ अङ्गुष्ठमात्रको भूत्वा गङ्गातोये न्यमज्जत ॥ सोऽवगाह्य श्लोकगङ्गां गङ्गां सर्वगतां नदीम् ॥ २ ॥
तयोद्यमानः प्रययौ विस्तीर्णं चन्द्रमण्डलम् ॥ नवयोजनसाहस्रो विक्रममो यस्य कीर्तितः ॥ ३ ॥ विन्तामणिगुणश्चैव पणिगाहः
समन्ततः ॥ तोयसागर्म्यं पिण्डं पितॄणां धाममव्ययम् ॥ ४ ॥ प्रजानां भावनं सर्वं चाधारं जगतामपि ॥ शृङ्गिणां शृङ्गेषु गमं पक्षात्मकं
स्मृतम् ॥ ५ ॥ आलम्बकं कुरुंदकं च तथा चैवावबोधकम् ॥ संधातकं तर्पकञ्च दृष्टिनां देवगोचरम् ॥ ६ ॥ मनःमर्विन्दु
याणाञ्च संवेषां नायकं तथा ॥ ओषधींशं जगद्योनिममृतानामयञ्चयम् ॥ ७ ॥ यं पिबन्ति सदा देवाः पितॄन्श्वामृतान्यितः ॥ यश्चामृतः
१ 'महादेवो महायोगी महामायो महाबलः' इति ख० । २ 'तथा दृक्' इति पु० । ३ 'नृत्यद्भुतमितिस्वैभवैर्श्वेतानुलेपन' इति ख० । किञ्चत् तत्रेतीवनेत्याहुः इति केवलं दृश्यतः।
४ 'त्रिदिवश्रेष्ठ' इति ख० । ५ 'सर्वं यात स्वकं स्थानमहमागमनेश्वरं । चन्द्रमण्डलमध्यस्थं याथे वरदमीश्वरं' इति ख० । ६ 'द्विषांवेदन्तं महीं' इति ख० । ७ 'नेते मुक्को' शको तथा 'इन्दुलोहितं' इति
ख० । ८ 'तर्पयम्' इति ख० ।
वपुर्वस्य विष्णोर्वा स प्रकीर्तितः ॥ ८ ॥ हव्यकव्याशनो देवो भूतात्मा भूतभावनः ॥ प्रविश्य मण्डलं तस्य १ देवदेवो महेश्वरः ॥ ९ ॥ तस्य यद्व्यापकं तेजः सूक्ष्ममन्नरसं हि तम् ॥ अङ्गुष्ठमात्रं पुरुषं यं बुधाः के शिवं विदुः ॥ १० ॥ ३ चक्षुर्गोलकमध्यस्था दृक्शक्तिरिव यः स्थितः ॥ चन्द्रगोलकमध्यस्थः पुरुषः स परः स्मृतः ॥ ११ ॥ कर्मसाक्षी स लोकानां स चाधारः परः स्मृतः ॥ आदित्यरश्म्यंशे तमःसंमूर्च्छितं क्षितौ ॥ १२ ॥ क्षपयिष्यति यश्चैवं शीतांशुस्तस्य तेजसा ५ ॥ यस्य रूपमनिर्देश्यं यस्य तेजः सुदुःसहम् ॥ १३ ॥ तं तु देववरं दृष्ट्वा तुष्टाव त्रिपुरान्तकः ॥ ईश्वर उवाच ॥ अग्नीषोमामयं चेतज्जगदेतत्प्रकीर्तितम् ॥ अग्नीषोमौ जगन्नाथौ देवदेवौ जनार्दनः ॥ १४ ॥ तस्यामयी तनुर्या न सोढुं स च दिवाकरः ॥ सौम्या तु या तनुस्तस्य स भवान् स पितामहः ॥ १५ ॥ त्वंयदं धार्यते सर्वं नात्यन्तपश्यामि कारणम् ॥ त्वंविद्म्वे निर्मले पृथ्वी सशैलवनकानना ॥ १६ ॥ शशाकृतिः सदा दृश्या शशलाञ्छ्माऽसि चानघ ॥ तेनैव कारणेन त्वमुच्यसे मृगलाञ्छनः ॥ १७ ॥ शशी शशत्वसंबन्धात्सौम्यत्वात्सोम उच्यते ॥ शीतांशुत्वाच्च शीतांशुः निशेशे त्वद्विराजनात् ॥ १८ ॥ नक्षत्रनाथस्तत्साम्याद्राजत्वाच्च द्विजेश्वरः ॥ वसन्ति ते पितृगणाः पितृनाथस्ततो भवान् ॥ १९ ॥ बर्हथश्चन्द्र इत्येष धातुर्ह्लादौ मनीषिभिः ॥ शुक्लेवे ह्लादकत्वे च शीतत्वे ह्लादनेऽपि च ॥ २० ॥ तेन ते चन्द्रताख्याता सततं धर्मवत्सल ! ॥ सर्वं चाह्लादयान्ती दृक् त्वयि महाद्युते ॥ २१ ॥ प्रजाकार्यं त्वदायत्तं तत्कुरुष्व जगत्प्रभो ॥ दूतोऽथन्त्वमसालाभ त्वया दुस्तवो नृपः ॥ २२ ॥ कार्त्तवीर्यार्जुनो नाम दानवास्तुमुपाश्रिताः ॥ सर्वं क्षत्रिपतां प्राप्यतद्वधे यत्नवान् भव ॥ २३ ॥ त्वया दूतत्वं हन्तुनान्यः शक्नोति कश्चन ॥ अवश्यं च त्वया कार्यं देवकार्यं सदा विभो ॥ २४ ॥ मार्कण्डेय उवाच ॥ शंकरेणैवमुक्तस्तु प्रतिपूज्य च शंकरम् ॥ उवाच देवदेवेशं प्रणतातिहरं हरम् ॥ २५ ॥ चन्द्र उवाच ॥ इयं शङ्कर सौम्या मे तनुः सुविहिता तव ॥ तस्मादकीर्स्थितां गच्छ सा ते कार्यं करिष्यति ॥ २६ ॥ मार्कण्डेय उवाच ॥ इत्येवमुक्त्वित्रिपुरान्तकारी सोमेन राजा परमेश्वरेण ॥ संपूज्य देवं प्रययौ स शीघ्रं तेजोमयं मंडळमाशु राजन् ॥ २७ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे चन्द्रमण्डळदर्शनं नामैकोनत्रिंशत्तमोऽध्यायः ॥ २९ ॥ ॥ मार्कण्डेय उवाच ॥
१ ‘वपुर्वपुर्देवदेवस्य विष्णोर्वाम्’ प्रकीर्तितः’ इति ख० । २ 'केशवम्' इति ख० । ३ 'चक्षुर्गोलकमध्यस्थः कृष्णशक्तिरिव यः स्थितः' इति ख० । ४ 'तमः संमूर्च्छते' इति ख० । ५ 'तेजसः' इति ख० । ६ 'तस्याग्नेये तनुर्या तु सोढुं सोपि दिवाकरः । सौम्या तुर्या तनुस्तस्य स भवानेव पितामह' इति ख० । ७ 'विश्वम्' इति ख० । ८ 'त्विन्द्रिंवे' निर्मले पृथ्वी सशैलवनकानना । शशाकृतिः सदा दृश्या येन त्वं शशलाक्षणः इति खः । ९ 'स्मतस्त्वं' इति ख० ।
॥ श्रीः ॥
| वि० ध० | प्र० खं० अ० ३० |
|---|---|
| ॥ १७ ॥ | ॥ १७ ॥ |
स ददर्श ततो गत्वा विपुलं सूर्यमण्डलम् ॥ चन्द्रमण्डलमानेन मानं यस्य च संस्मृतम् ॥ १ ॥ ज्वलज्ज्वलितं पिण्डं पिण्डितस्य विभावसोः ॥
देवदेवस्य यद्धाम वासुदेवस्य धीमतः ॥ २ ॥ तस्य धर्मः परं पिण्डं ब्रह्माण्डान्तरदीपनम् ॥ आंगारं सर्वभूतानां जठरस्थं हुताशनम् ॥ ३ ॥
पञ्चधाऽवस्थितं देहे सर्वेषां प्राणिनां स्मृतः ॥ आलोचकः पाचकश्च रोचको भ्राजकस्तथा ॥ ४ ॥ भ्राजकश्च तथा देवः सर्वेषां प्राणिनां तथा ॥
यन्मयं देहिनां चक्षुर्दृग्दक्षिणस्तथा ॥ ५ ॥ सैवं देवादिदेवस्य वासुदेवस्य कीर्त्तिताः ॥ अग्नौ प्रास्ताहुतिः सम्यगादित्यं चोपतिष्ठते ॥ ६ ॥
यस्य द्रुतं सदा तेजः सर्वषामेव तेजसा ॥ यस्मादभ्युदयोत्यर्थात्तृप्यासात्तर्पणसम्भवः ॥ ७ ॥ यस्मात्प्रवर्त्तते सर्वं कालचक्रं तथैव च ॥ ओषधीनां परः
पाकः परं यस्मान्न विद्यते ॥ ८ ॥ तन्मण्डलमुपासाद्य कृत्वा रूपं तु तैजसम् ॥ विवेश मण्डलं भित्त्वा तन्मध्यं शङ्करस्तदा ॥ ९ ॥ सोऽङ्गुष्ठमात्रं
पुरुषं दृक्शक्तिमिव वेदितम् ॥ तेजसं दृष्टवान् रुद्रः तुष्टाव च महाद्युतिः ॥ १० ॥ रुद्र उवाच ॥ त्वां नमस्यामि देवेशं तेजसां
तु परं निधिम् ॥ आराध्यस्त्वं वरेण्यस्त्वं सर्वभूतभवोद्भवः ॥ ११ ॥ स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं तथा भवान् ॥ अनन्तश्चा
प्रमेयस्त्वं सूक्ष्मात्सूक्ष्मतरस्तथा ॥ १२ ॥ मया समर्पितं तेजः सकलं त्वयि भास्कर ॥ मत्तोस्त्वं न हि भिन्नोऽसि न च देवाज्जनार्दनात् ॥ १३ ॥ अहम्
विष्णुर्भवान् विष्णुर्ब्रह्मा विष्णुः प्रभाकर ॥ अस्माकं सकलं धाम त्वयि तिष्ठति भास्कर ॥ १४ ॥ धामकार्यं हि क्रियते येनास्य जगतः सदा ॥
प्रजानां तु प्रसवनात्सवितेति निगद्यते ॥ १५ ॥ रसानाञ्च तथा दानाद्रविरित्यभिधीयते ॥ आदित्यस्त्वं तथा दानान्निमग्नत्वं मेत्रभावतः ॥ १६ ॥
पुष्णासि सकलोल्लोकांस्तेन पूषा निगद्यसे ॥ धारणाच्च तथा धाता यमनाद्यम तथा ॥ १७ ॥ अंशुस्त्वमंशुधारित्वाद्विसर्गाद्रूपलन्तथा ॥ भवः
सौभाग्यार्च्यत्वात्त्वया सर्वक्रियाकृतेः ॥ १८ ॥ सर्वजन्तुसमत्वाच्च विवस्वानाभिधीयते ॥ क्रमणाच्च तथा विष्णुर्गोभिश्चालिन्दु उच्यते ॥ १९ ॥
तस्मात्त्वया प्रजाकार्यं कर्तव्यमविचालितम् ॥ स्थावरैर्जङ्गमश्चैषां भूमिर्भागैर्निपीडिता ॥ २० ॥ कदाचिद्रजनैर्भूमेः सूर्य्यभारेण पीडिता ॥
कदाचित्स्थावरैश्चैव भारितायतिपीडिता ॥ २१ ॥ अद्धैर्न तृप्तौ वृद्धिः परा भास्कर शालिनाम् ॥ दैत्याः क्षियन्तां प्राप्य पीडयन्ति च
मेदिनीम् ॥ २२ ॥ सूर्य उवाच ॥ तव दर्शनकामेन प्रयोग न कृता मया ॥ स्थावरैर्जङ्गमः सर्वं प्रकृतिस्थं वपुर्नयम् ॥ २३ ॥ यथा पूर्वं तथैवैतद् ॥ १७ ॥
१ 'आवासं' इति ख० । २ 'देहं सर्वेषां प्राणिनां तथा' इति ख० । ३ 'सर्वहविर्हिवम्' इति ग० । ४ 'अग्नौ प्रास्ताहुतिस्सम्यगादित्यमुपतिष्ठते' इति मु० । ५ 'ञ्चतः' इति कु० । ६ 'उक्तशक्तिरेव' इति ख० । ७ 'अतव्यथाप्रत्ययस्त्वम्' इति ख० । ८ 'भीमत्वाच्चाह्वितान्' इति ख० । ९ 'दूरतस्तेन' इति ख० । १० 'आदित्य' इति ख० । ११ 'संवहन्' इति ख० ।
बाहं करिष्यामि महेश्वर ॥ साम्प्रतं ब्राह्मणो भूत्वा चार्जुनैनैव पादपान् ॥ २४॥ सर्वान्विननाशयिष्यामि शासनेन तथाऽर्जुनम् ॥ वसिष्ठाच्छापजायिष्यामि ततोऽशेन वसुन्धराम् ॥२५॥ मृगेन्द्रो १ करिष्यामि ततो निःक्षत्रियां प्रजाम् ॥ मार्कण्डेय उवाच ॥ इत्येवमुक्तोत्रिपुरान्तकारी सूर्येण सद्भक्तिमिवोर्जगतेन ॥ जगाम धाम स्वमसौ विभेति यत्सर्वलोकाज्जगतां प्रधानः ॥ २६ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे आदित्यदर्शनं नाम त्रिंशत्तमोऽध्यायः ॥ ३०॥ मार्कण्डेय उवाच ॥ द्विजंरूपमास्थाय देवदेवोऽपि भास्करः ॥ माहिष्मतीं ययौ शीघ्रं नगरीं रत्नमालिनीम् ॥१॥ ब्राह्मणं स तत्र ददर्श वीरं कार्तवीर्यार्जुनं नृपम् ॥ यजमानं सुबोद्दण्डं कल्पवृक्षमिवापरम् ॥ २ ॥ पूजितः कार्तवीर्येण ब्राह्मणो नृपमब्रवीत् ॥ ३ ॥ ब्राह्मण उवाच ॥ महारशनं मां जानीहि ब्राह्मणं क्षुधयान्वितम् ॥ प्रयच्छ तस्य मे तृप्तिं त्वमेको हेतुरुत्तम ॥ ४ ॥ अर्जुन उवाच ॥ केनाऽन्नेन २ भवतृप्तिः किमन्नं विदधामि त ॥ तन्ममाऽऽचक्ष्व ३ भगवन् सुच्छेदेन मा चिरम् ॥ ५ ॥ ब्राह्मण उवाच ॥ आदित्यं मां विजानीहि स्थावरान् ४ भोक्तुमुद्यतम् ॥ प्रयच्छ तानि सर्वाणि मम पार्थिवपुंगव ॥ ६ ॥ अर्जुन उवाच ॥ स्थावरं भूगतं दातुं शक्तिर्नाऽस्ति ममाऽनघ ॥ कथं हि स्थावरान् दग्धुं शक्त्या मातृष्यतेजसा ॥ ७ ॥ आदित्य उवाच ॥ रथस्थः पार्थिवश्रेष्ठ शरान्मुंच यदृच्छयां ५ ॥ तेऽहं प्रबलैर्वाजन्मक्षयिष्यामि पादपान् ६ ॥ ८ ॥ तावदेव त्वया कार्यं नृपते शरमोक्षणम् ॥ यावन्न प्रज्वलिष्यामि मुक्तेष्वपि शरेष्वहम् ॥ ९ ॥ मार्कण्डेय उवाच ॥ एवमुक्त्वा गते सूर्ये कल्पयित्वा रथोत्तम्म् ॥ चिक्षेप स शरानाशु यत्र ७ तत्र द्रुमोत्करम् ॥१०॥ ते क्षित्ता ८ हैहयेशेन शातकोम्भोऽज्ज्वलाः शराः ॥ जज्वलन्नृपशार्दूल ज्वलंतो वने द्रुमान् ॥ ११॥ डुंदुभिखननिर्घोषो विस्फुलिंगगणाकुलः ॥ आलोलोर्चिर्महावेगः सर्वसत्त्वभयंकरः ॥ १२॥ निदहन् वृक्षपुंजानि तप्तकांचनसुप्रभः ॥ ज्वालामाली तदा भाति सर्वतः पावकः क्षितौ ॥ १३॥ वनेषु दह्यमानेषु तापतृष्णादिता मृगाः ॥ जलाशयेषु चित्रेषु गतच्छायाभिक्षेकु च ॥ १४ ॥ दहाहामिस्तदा वृक्षा न्यायाविद्धं १० जगत्पतेः ॥ बभूवाऽथ प्रशांताचिः कृत्वा लघ्वीं ११ वसुन्धराम् ॥ १५॥ न जज्याल तथा ९ वह्निः कार्तवीर्यशरैरवपि ॥ कृतकार्यं तदा गत्वा कार्तवीर्यो दिवाकरम् ॥ १६ ॥ विनिवृत्य रथं पश्चाद्यावन्माहिष्मतीं पुरीम् ॥ स गच्छंस्त्रैवं ददृशे १२ वसिष्ठं सर्वतेजसम् ॥ १७॥ तेन शप्तो
१ 'मृगेन्द्रो करिष्यामि कतु निःक्षां यां प्रजाम्' इति ख० । २ 'केनान्नेन भवान् तृप्येत्' इति ख० । ३ 'तन्ममाऽऽचक्ष्व भगवान् स्वदनेन मा चिरम्' इति ख० । ४ 'ज्वरान्भोक्तुमुद्यतम्' इति ख० । ५ 'यथेच्छया' इति ख० । ६ 'पादपान्' इति ख० ७ 'यत्र' इति ख० । ८ 'ते क्षित्वा हैहयेशेन' इति ख० । ९ 'तथा' इति कः । १० 'यावदिच्छं' इति ख० । ११ 'साध्वीम्' इति ख० । १२ 'सदक्षी' इति ख० ।
वि० पृ०
॥ १८॥
प्र० खं०
अ० ३२
वेने दृषे स्वर्कैः १ नृपपुङ्गवः ॥ यस्याच्छित्त्वा वरं दर्भं मम पार्थिवशासन । ॥ १८ ॥ तस्माच्चिच्छेते वाहून् ब्राह्मणः शंसितव्रतः ॥ तेन शापेन
विमत्स्य रामः क्षत्रियनन्दनः ॥ १९ ॥ तस्य बाहून्त्वं सर्वं चिच्छेद भृगुनन्दनः ॥ २० ॥ वज्र उवाच ॥ रामस्तु कस्मिन्त्स बभूव वंशे कथञ्च
राजास्तु महाबलस्य ॥ चिच्छेद दोर्दण्डवनं सुवीरः सर्वं ममाऽऽचक्ष्व भृगुप्रधान ॥ २१ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे
वनदाहो नामैकत्रिंशत्तमोऽध्यायः ॥ ३१ ॥ ॥ मार्कण्डेय उवाच ॥ ॥ सर्ववेदविदांमुख्य ब्रह्मणस्तनयो भृगुः ॥ पौलोम्यां जनयामास च्यवनं
भगवान्भृगुः ॥ १॥ ख्यातिजा सुकन्यापि च्यवनाद्बभ्रुवन्दनम् ॥ आत्मवान् दधीचञ्च जनयामास धार्मिकौ ॥ २ ॥ ऋषिपत्नी महाभागा चाऽऽत्म
वानस्य नाहुषी ॥ और्वं संजनयामास ऋचीकाप्सरसंजितम् ॥ ३ ॥ येन क्रोधाग्निभूतेन दग्धोऽभिवडवामुखः ॥ तस्य सत्यवती भार्या कौशिकी
गाधिनंजा शुभा ॥ ४ ॥ तस्यां संजनयामास पुत्राणां शतमुर्जितम् ॥ जमदग्निश्च वत्तंस श्रेष्ठ मद्भुतमाद्भुभौ ॥ ५ ॥ क्षीणां चरुविपर्यासाज्जा मदग्नि
रजायत ॥ ६ ॥ वज्र उवाच ॥ कथ्यतान्मे यतो ब्रह्मन्श्वादवस्य च संभवः ॥ सम्भवं जमदग्नेश्च श्रोतुमिच्छामि तत्त्वतः ॥ ७॥ मार्कण्डेय उवाच ॥
भृगूणां हैहयानाञ्च वैरादासीत्सुदारुणम् ॥ घनेहेतोस्तदा पापैर्हैहयैर्भृगवो हताः ॥ ८॥ येऽपि गर्भंगता बालास्तैऽपि तैनिपातिताः ॥ गर्भेष्नु हन्य
मानेषु ऋषिः परम्दुःखितः ॥ ९ ॥ अंशं धारयामास गर्भं दीप्तेनतेजसम् ॥ पूर्णे काले तदा बाल ऊरुं भित्त्वा व्यजायत ॥ १० ॥ जात
मात्रस्तु चुक्रोध देवतानां महातपाः ॥ हैहयैर्हन्यमानानां बन्धूनां सुमहात्मनाम् ॥ ११ ॥ भवद्भिर्न कृतं त्राणं तस्मात्सर्वान्दहाम्यहम् ॥
तं क्रुद्धं पितरो हन्तुं वारयामासुरोजसा ॥ १२॥ क्रोधः पुत्र न कर्तव्यः स हि शत्रुर्नृणां सदा ॥ वयं सर्वं जितेक्रोधाः क्षत्रियैर्नानिपातिताः ॥१३॥
अस्माकं न वधे शक्ताः क्षत्रिया हैहयाधियाः ॥ एवमुक्तेः पितृगणैश्चक्रेत्वननथानथाऽब्रवीत ॥ १४ ॥ न हि मे शाम्यति क्रोधो युष्मन्निधनका
रितः ॥ तस्माद्देवान्प्रणल्प्वह्निहनिनुष्यामि तेजसा ॥ १५॥ एतस्मिन्नेव काले तु महतीनामयमाकुला ॥ जगाम शरणं विष्णुं मर्वभूतभवोद्भवम् ॥
॥ १६ ॥ श्रीमभगवानुवाच ॥ देवान्प्रति समुत्पन्नं क्रोधमौर्वस्य यच्छुभम् ॥ तं प्रविश्य गमिष्यामि तोयं सर्वं वसुन्धरां ॥ १७॥ मार्कण्डेय उवाच ॥
इत्येवमुक्त्वा वसुधामौर्वं क्रोधं समाविशत ॥ भूत्वा च वडवावक्त्रन्चूर्णगङ्गिनिम्मृतः ॥ १८ ॥ न भ्रातगे भविष्यन्ति पुत्र सर्वे दिवौकसः ॥ ॥ १८ ॥
१ 'यस्मात्त्वा वो दत्तो मया पार्थिवशासन' इति ख० । २ 'और्वं त जनयामास ऋचीकमिति' इति ख० । ३ 'नेने'जा' इति ख० । ४ 'चीर्णा' इति विज्ञानायता' इति ख० । ५ 'कौशल्या'
मे ख्या बह्वन्' इति ख० । ६ 'उरणाए' इति ख० । ७ तोयभयाकुला' इति ख० ।
क्रोधश्वाऽयं तव वृथा न भविष्यति पुत्रक ॥ १९ ॥
एवमुक्तस्तु भृगुणा ऋचीकोऽग्निमभाषत ॥
पूर्वोत्तरे समाप्लाव समुद्रे वस पुत्रक ॥ २० ॥
पिबंस्तरौ सदा वेगमम्भसां सुमहाद्युते ॥
अस्माकं तु कुले भावी क्षत्रधर्मा द्विजोत्तमः ॥ २१ ॥
क्षत्रियाणां समुच्छेदं यः करिष्यत्यनेकशुः ॥
एवमुक्तस्तु पित्रा वै पिबन्मासाष्टकं जलम् ॥ २२ ॥
चैत्रमासं समारभ्य नित्यमास्ते सुखी जले ॥
पीतं मासाष्टकं तोयं जठरे भस्मसात्कृतम् ॥ ॥ २३ ॥
फूत्कृत्य मासांश्चतुरः शिशिराख्ये महीतले ॥
नित्यं हिमोथं सृजति तस्मादपि समीरणः ॥ २४ ॥
हिमाचले पातयति प्रवाहो नाम पार्थिव ॥
एषा तोयाद्धिमोत्पत्तिर्हेमंतौ यस्य संभवः ॥ २५ ॥
बुद्धिक्षयविहीनस्य कथितं तव धार्मिक ॥ २६ ॥
उत्पत्तिरेषा तव वाडवाग्नेः प्रोक्ता मया भूमिपतिप्रधान ॥
श्रुत्वाऽपि यां मुञ्चति मोहजालं संसारजातेश्च यथा प्रबुद्धः ॥ २७ ॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे वडवाग्न्युत्पत्तिर्नाम द्वात्रिंशत्तमोऽध्यायः ॥ ३२ ॥
॥ मार्कण्डेय उवाच ॥
॥ और्वस्य भार्या धर्मज्ञा नाम्ना सत्यवती शुभा ॥
वने पर्यचरद्भक्त्या गाधिजा भृगुनन्दनम् ॥ १ ॥
तस्याः परमया भक्त्या भर्ता तोषमुपागतः ॥
उवाच तां वरोराहांतुष्टोऽहं भृगुनन्दनः ॥ २ ॥
॥ ऋचीक उवाच ॥
॥ वरं वरय सुश्रोणि यत्ते मनसि वर्तते ॥
तोषितोऽहं त्वया भद्रे वने शुश्रूषया वरे ॥ ३ ॥
॥ सत्यवत्युवाच ॥
॥ मातुः प्रयच्छ मे पुत्रं भगवन्वीर्यवत्तरम् ॥
पुत्रं मम च धर्मज्ञं युतं ब्राह्मणतेजसा ॥ ४ ॥
॥ ऋचीक उवाच ॥
॥ चरुद्वयं करिष्यामि मातुरर्थे तथा तव ॥
यस्य संशनात्पुत्रं त्वं चैव जनयिष्यसि ॥ ५ ॥
॥ मार्कण्डेय उवाच ॥
॥ एवमुक्त्वा तदा चक्रे ऋचीकस्तु चरुद्वयम् ॥
एकस्मिन्सकलं शांतं तेजश्चक्रे सर्वैष्णवम् ॥ ६ ॥
श्वश्रूयै तं चरुं कृत्वा द्वितीयं स न्यवेशयत् ॥
ब्राह्मं रौद्रञ्च यत्तेजः पत्न्यर्थे कृतवांश्चरुम् ॥ ७ ॥
॥ ऋचीक उवाच ॥
॥ अयं प्राश्यस्त्वया भद्रे त्वयं मात्रा चरूस्तव ॥
अश्वत्थालिङ्गनं कार्यं मात्रा तत्र तदा शुभे ॥ ८ ॥
तथैवोदुम्बरस्याऽपि त्वया राजीवलोचने ॥ ९ ॥
॥ मार्कण्डेय उवाच ॥
॥ एवमुक्ता ततो गत्वा मात्रे सर्वं न्यवेदयत् ॥ १० ॥
ततस्तामब्रवीन्माता गाधेः पत्नी यशस्विनी ॥
ध्रुवं भगवता पुत्रस्तव पुत्रचिकीर्षया ॥ ११ ॥
श्रेष्ठं तेजसा युक्तश्चरुरेष कृतः शुभे ॥
तस्माच्चरुविपर्यासं मद्यं कुरु मा चिरम् ॥ १२ ॥
अलिङ्गनं विपर्यासं द्रुमयोः क्रियतां तथा ॥
सा मातुर्वचनं सर्वं चक्रे गौरवयन्त्रिता ॥ १३ ॥
संगर्भा स गते काले भर्ता
१ 'समुक्षन् स पुत्रकं' इति ख० ।
२ 'चैत्रमासात्त्मारम्य नित्यमास्ते सुखे जले' इति ख० ।
३ 'हिमाद्यम्' इति क० ।
४ 'संसारजातश्च यथाप्रबुद्धः' इति ख० ।
५ 'तस्याः स परया भक्त्या' इति ख० ।
६ । 'वदे' इति ख० ।
७ 'अश्वत्थे तं चरुं कृत्वा' इति ख० ।
८ 'प्राशभतः' इति ख० ।
९ 'श्वेतेन' इति ख० ।
१० 'सगर्भा चोगते' इति ख० ।
४
| वि० ध० <br> ॥ ११ ॥ | प्र० सं० <br> अ० १४ |
|---|
वचनमब्रवीत् ॥ १४ ॥ ऋचीक उवाच ॥ ध्रुवं चरुविपर्यासो दुर्मेधश्च त्वया कृतम् ॥ येन त्वमसितापाङ्गि युक्ता क्षत्रियेतेजसा ॥ १५ ॥
ब्राह्मेण तेजसा युक्तं कृतवानस्मि ते चरुम् ॥ मातुरस्ते चारुसर्वाङ्गि तथा क्षत्रियेतेजसा ॥ १६ ॥ कृतं चरुविपर्यासं सा विप्रं जनयिष्यति ॥
क्षत्रधर्मरतं पुत्रं विप्रं त्वं जनयिष्यसि ॥ १७॥ सत्यवत्युवाच ॥ मातुर्माताकृतमिदं भगवन्कर्तुमर्हसि ॥ क्षत्रधर्मरतः पुत्रो न मे भवितुमर्हति ॥
॥ १८ ॥ ऋचीक उवाच ॥ एवमस्तु न ते पुत्रः क्षत्रधर्मा भविष्यति ॥ पौत्रस्त्ववशं भविता भाव्यमेतद्विधोदितः ॥ १९ ॥ सत्यवत्युवाच ॥
सर्वेश्वरत्वं भगवात्किमर्थं पौत्रस्य मे क्षत्रियभावमुग्रम् ॥ निर्वार्ततुं नेच्छसि बाढमेवं वदस्व तन्मे यदि ते न गुह्यम् ॥ २० ॥ इति श्रीविष्णुध
र्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे चरुविपर्यासो नाम त्रयस्त्रिंशत्तमोऽध्यायः ॥ ३३ ॥ ऋचीक उवाच ॥ ब्रह्मोपोढस्त्रिः सुतः सांख्यः
सुतस्तस्यापि चन्द्रमाः ॥ सोमस्य तु बुधः पुत्रो बुधपुत्रः पुरूरवाः ॥ १ ॥ आयुस्तत्तनयस्तस्य सुवस्तनयस्तस्य च। लेकस्तस्य चात्मजः ॥ २ ॥
पुत्रः सुहोत्रस्तस्य चाऽऽत्मजः ॥ २ ॥ तस्य जह्नुः स्मृतः श्रीमान्येन गङ्गा तु जाह्नवी ॥ सुव्रतस्तनयस्तस्य चार्कस्तस्य चात्मजः ॥ ३ ॥
तस्य पुत्रो बलाकश्च कुशिकस्तस्य चाऽऽत्मजः ॥ महोदयपुरवरे स तु नित्यं कृतालयः ॥ ४ ॥ एतस्मिन्नेव काले तु भृगुः च्यवनमन्वगात्
स्ववंशसंकरं बुद्ध्वा कुशिकेश्यो महायशाः ॥५॥ कुशिकानां समुच्छित्यै कुशिकं नृपतिं ययौ ॥ पूजितः कुशिकेनापि कुशिकं वाक्यमब्रवीत् ॥६॥
राजन्यक्ष्यामि कार्ये ते यदि शुश्रूषते नृप ॥ सभायेंण च कर्तव्यं रोजञ्छूश्रूषणं त्वया ॥७॥ कुशिक उवाच ॥ स्वमेवेंदं तव गृहं यथेष्टं वद भार्ग
व॥ शक्तितस्तव शुश्रूषां कारिष्ये भार्यया सह ॥८॥ ऋचीक उवाच ॥ गृहोपेतं तं च्यवनं शुश्रूषुरनृपतेःसुतः ॥ पूजयामास मन्तेनं सर्वकामसमृद्धिभिः ॥९॥
बहुसस्यान्दिगन्दणगांश्चयवनो नावबुद्ध्यति ॥ निराहारः सभायंस्तं पर्युपास्ते महीपतिः ॥ १० ॥ अकाले प्राशयेच्चान्नं कदाचिदपि दुर्लभम् ॥
कृतमित्येव तद्राजा निवेदयति सत्वरम् ॥११॥ कदाचिद्बहु भुञ्जीत न भुङ्क्ते दिवसान्वहून् ॥ धनेन च तदाँयेन तप्यमानाम्रे डिजाय् ॥ १२ ॥
कदाचिद्द्बोपयत्येव वह्नि तातग्रहोद्भवम् ॥ कदाचिच्च रथे युक्तं सभायों गजपुङ्गवम् ॥ १३॥ गजमार्गे प्रतोदेन तुदन्वयति यथेच्छया ॥ तच्चाऽऽसौ
हितमेवेदं कर्मणा मनसा गिरा ॥ १४॥ समाचरति यत्नेन भार्गवप्रियकाम्यया ॥ यदा न वृजिनं किंचिदृष्टवान्मन्मथ भार्गव ।। १५ ।। तदा
१ 'ब्राह्मेण तेजसा युक्तः कृतवानस्मि ते चरुः' इति क० । २ 'मातृस्त्वतिकृतमिदम्' इति ख० । ३ 'को हेतुर्हिद' इति ख० । ४ 'रेखे दुर्योध' तथा' इति क० । ५ 'अथयद्वल' इति कु० । ६ 'बहुभूतोऽस्म्' इति ख० ।
तस्य वरं प्रादाद्धरं यन्मनसेप्सितम् ॥ १६॥
च्यवन उवाच ॥
वरं वरय भद्रं ते प्रसन्नोऽहं तवानघ ॥
निर्व्याजं तेऽनया राजन्संचर्याऽनघया सदा ॥ १७॥
कुशिक उवाच ॥
यदि मे त्वं प्रसन्नोऽसि भृगूणां वंशवर्धन ॥
वंशो ब्राह्मणतां यातु वरमेतद्वृणोम्यहम् ॥ १८ ॥
च्यवन उवाच ॥
एतदेवं ध्रुवं भावि तन्मे वच्यसे नृप ॥
अस्मद्वंशानुवंशस्य ब्राह्मण्यं ते भविष्यति ॥ १९॥
तव वंशकृतोऽस्माकं क्षत्रधर्मा द्विजोत्तमः ॥
भविष्यति नरेन्द्रेदं चैतत्सुविदितं मम ॥ २० ॥
एतज्ज्ञात्वा समुत्सहे चिकीर्षुः स्वकुलस्य ते ॥
विक्षोभैः क्रोधनार्थं ते मुहुर्ह्यवसं चिरम् ॥ २१॥
विकारो न ततो दृष्टो मया भाव्यर्थनोदितम् ॥
तस्मात्पुत्रस्त्वया प्राप्तो वरमेतत्सुदुर्लभम् ॥२२॥
कुशाश्वो नाम पुत्रस्ते भविताऽतिस्वधार्मिकः ॥
तस्यापि भविता पुत्रो गाधिरित्येव विश्रुतः ॥ २३ ॥
विश्वामित्रः सुतस्तस्य ब्राह्मण्यमुपलप्स्यति ॥
कृत्वा वैरं वसिष्ठेन तपसा महता नृप ॥ २४ ॥
त्रीणां च कुलपर्यासाद्द्विशाखस्य संभवः ॥
अस्मत्सेवानुभावेन निर्वृतो भव पार्थिव ॥ २५॥
यत्ते विनाशितं द्रव्यं भविता तद्विशेषवत् ॥
भार्यया सहितश्चैव जराहीनो भविष्यसि ॥२६॥
एवमुक्त्वा गते विप्रे राजा पूर्णमनोरथः ॥
उवाच सुमुखीं भार्यां जराशोकविवर्जिताम् ॥२७॥
एतत्सूनृतं च्यवनस्य वाक्यं कस्यास्ति शक्तिर्भुवि मानवस्य ॥
कर्तुं मृषा तेन वरोरुमध्ये पौत्रस्तवोग्रो भविता त्रिलोके ॥ २८ ॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे कुशिकवरप्रदानं नाम चतुर्विंशतितमोऽध्यायः ॥ २४ ॥
मार्कण्डेय उवाच ॥
एवमुक्ता सत्यवती काले पूर्णे द्विजोत्तम ॥
जनयामास धर्मज्ञं जमदग्निं तपोधनम् ॥ १ ॥
ततश्च जनयामास वात्स्यं भृगुकुलोद्वहम् ॥
ततोऽन्यानपि पुत्रांस्तु गोत्रकारान्पृथक्पृथक् ॥ २ ॥
गाधेरपि तदा भार्या जनयामास पुत्रकम् ॥
विश्वामित्रमिति ख्यातं युतं ब्राह्मणतेजसा ॥ ३ ॥
जितो युद्धे वसिष्ठेन मन्युना यः स पार्थिवः ॥
ब्राह्मण्यं तपसा लेभे धर्मात्मा संशितव्रतः ॥४॥
राजा प्रसेनजिन्नाम सुतां तस्योपयेमेऽथ रेणुकाम् ॥
पत्यर्थे प्रतिजग्राह जमदग्निर्महातपाः ॥ ५ ॥
सा तं वनगतं भक्त्या नित्यं पर्यचरद्वने ॥
कदाचिदथ घर्मार्त्ता मध्यं प्राप्ते दिवाकरे ॥ ६ ॥
क्रीडार्थं प्रास्यत शरांश्चिरं जमदग्निर्महातपाः ॥
क्षिप्तान्शरांस्तेन रेणुका चारुलोचना ॥ ७ ॥
आनयामास धर्मज्ञा भर्तुर्वचनकारिणी ॥
अथार्कतप्तां सिकतां दह्यमानाङ्घ्रिपङ्कजा ॥ ८ ॥
पुष्पितस्य च वृक्षस्य छायामासाद्य संस्थिता ॥
विश्रम्य तु मुहूर्तं सा भर्तुर्निन्ये शरोत्तमम् ॥९॥
तां प्राप्तां कुपितो भर्ता जमदग्निरभाषत ॥
क्रीडतो मे शरैर्भद्रे विघ्नं किं कृतवत्यसि ॥१०॥
न बिभेषि च मां भद्रे त्वथ वाऽस्य
१ 'वंशे कृते' इति ख०।
२ 'एतज्ज्ञात्वा समुत्सहे चिकीर्षुः स्वाकुलस्य ते' इति ख०।
३ 'कुशाश्वनामा' इति ख०।
४ 'ब्राह्मण तेजसा' इति ख०।
५ 'धर्मार्त्तो' इति ख०।
६ 'पुष्पितस्य शरीरस्य' इति ख०।
**वि०ध०** | **प्र०सं०**
--- | ---
**॥ २० ॥** | **अ० ३६**
वपन्यसे ॥ ११ ॥ रेणुकोवाच ॥ अर्काभितापसंतप्ता क्षणमात्रं महाव्रत ॥ अपारयन्ती विश्रान्ता तस्मात्त्वं क्षन्तुमर्हसि ॥ १२ ॥
॥ मार्कण्डेय उवाच ॥ रेणुकाया वचः श्रुत्वा जमदग्निर्महातपाः ॥ जातेरपस्तदा सूर्ये सायकान्धनुषासृजत् ॥ १३ ॥ एत-
स्मिन्नेव काले तु विप्ररूपो दिवाकरः ॥ श्रीशमागम्य तेजस्वी जमदग्निमभाषत ॥ १४ ॥ सूर्य उवाच ॥ स्वभाव एष मे ब्रह्मन्
यदहं दहनात्मकः ॥ वर्ततश्च स्वभावेन न मे त्वं क्रोद्धुमर्हसि ॥ १५ ॥ पुनस्तेऽहं भविष्यामि त्वय्यासेव द्विजोत्तम ॥ सुकार्यं
कारिष्यामि लोकानाञ्च हितं महत् ॥ १६ ॥ इयञ्च पत्नी धर्मज्ञा रेणुका तव साम्प्रतम् ॥ छत्रोपानहमेतन्मे गृहीत्वा वर्णविनी ॥ १७ ॥
तस्याऽनुकम्पया छत्रं तथा ब्रह्मन्पदानहौ ॥ मया सृष्टौ जगत्यां स्त्रिस्त्रितयमेव भविष्यतः ॥ १८ ॥ छत्रोपानहयोर्दाने लोके श्रेष्ठं भविष्यति ॥ छत्रोपा-
नहदानेन नरः स्वर्गं गमिष्यति ॥ १९ ॥ एवमुक्तस्तु सूर्येण जमदग्निर्महातपाः ॥ संपूज्य सूर्य जग्राह सवितुः सकलं वचः ॥ २० ॥ ततः सूर्ये
गते देवी सूर्यपुत्रा पुरा सती ॥ पुत्रं कनीयसं रामं जनयामास रेणुका ॥ तनयाश्चाभवन्पूर्वे वसुर्विश्वावसुस्तथा ॥ २१ ॥ तेषां जघन्यजो रामो
विष्णुर्मानुषरूपधृक् ॥ २२ ॥ अंशेन जाते भुवि देवदेवे सुनिर्वृता भूमिरथो बभूव ॥ हतांश्च मेने दितिजानजातां पीडां नृणां स्वल्पां च सा धरित्री
॥ २३ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे रामोत्पत्तिर्नाम पञ्चत्रिंशत्तमोऽध्यायः ॥ ३५ ॥ मार्कण्डेय उवाच ॥
अथ बाल्ये समुत्तीर्णे रामो भृगुकुलोद्वहः ॥ शुश्रूषमाणः पितरं नित्यमास्ते महायशाः ॥ १ ॥ एतस्मिन्नेव काले तु गते वनगते तदा ॥ आजगाम
महातेजा राजा चित्राङ्गदो वनम् ॥ २ ॥ विहर्तुं सह गन्धर्विर्देवराजसमद्युतिः ॥ तं दृष्ट्वा रेणुका चक्रे स्पृहां भोगेषु भामिनी ॥ ३ ॥ जगाम
मनसा तं सा राजानं कामसन्निभम् ॥ तस्मिन्नेव क्षणे सा तु भ्रष्टा ब्राह्मणतेजसा ॥ ४ ॥ गताश्रियं तु तां दृष्ट्वा जमदग्निर्महातपाः ॥
पुत्रानुवाच तत्क्रूरो वध्यतां जननी स्वका ॥ ५ ॥ ते विचार्य ततः सर्वे मातृगौरवमुत्तमाम् ॥ नैव चक्रुः पितुर्वाक्यं
ताञ्छशाप स भार्गवः ॥ ६ ॥ यूयं तिर्यक्त्वमधमा नपुंसंज्ञा भविष्यथ ॥ इध्माभारमुपादाय रामो गतिकरः पितुः ॥
॥ ७ ॥ अथाऽऽश्रममगात्प्रातः पितरं तं समवन्दत ॥ जहीमां मातरं क्षुद्रां राम मा त्वं चिरं कृथाः ॥ ८ ॥ एवमुक्तस्तु पित्रा तु तद्वाक्यं ॥ १ ॥ २ ॥
---
१ 'सूर्येण' इति ख० । २ 'परं स्वर्गे गमिष्यति' इति ख० । ३ 'मनुपुत्रा' इति क० । ४ 'अनेन' इति क० । ५ 'हतञ्च तेने तन्महे च जन्म नृणाँ मने सुनिर्वृताभूदभूत्त' इति ख० । ६ 'मभवत्' इति ख० । ७ 'प्रथः' इति ख० । ८ 'पितरस्' इति क०
समनन्तरम् ॥ शिरश्चिच्छेद तीक्ष्णेन रामः परशुना तदा ॥ ९ ॥ ततोषोथ पिता तस्य ततो धर्मभृतां वरः ॥ १० ॥ जमदग्नि
रुवाच ॥ स्वच्छन्दमरणं पुत्र तुष्टे त्वं मयि लप्स्यसे ॥ यावच्च वैष्णवं तेजस्त्वयि तिष्ठति पुत्रक॥११॥ तावदेव न ते युद्धे कश्चिज्जेता भविष्यति॥
भविष्यति च धर्मात्मा रामो दशरथात्मजः ॥ रघूवंशे समुत्पन्नो विष्णुर्मानुषरूपधृक् ॥ १२ ॥ यदा समेष्यते तेन तदा वैष्णवंतेजसा ॥ कृतकर्मा
विमुक्तस्त्वं स च युक्तो भविष्यति ॥ १३ ॥ ततः परं त्वया पुत्र न कार्यं शस्त्रधारणम् ॥ आर्तानांत्राणमृते वीर स्त्रीब्राह्मणकृतेऽथ वा ॥ यथेप्सितं
चाऽप्यपरं वरं वृणुष्व पुत्रक ॥ १४ ॥ राम उवाच ॥ गुरुश्रेष्ठ समुत्थानं जनन्याः कथयाम्यहम् ॥ अस्मृतिश्च तथा तस्या भ्रातृणाञ्च • तथा
ऽस्मृतिम् ॥१५॥ जमदग्निरुवाच ॥ एवमस्तु महाभाग तपसा महता तथा ॥ समाराधय देवेशं शङ्करं नीललोहितम्॥ १६॥ मार्कण्डेय उवाच ॥
एवमुक्ते समुत्तस्थौ रेणुका चारुहासिनी ॥ रामस्य भ्रातरः सर्वे सुप्तोत्थाप्तास्तथैव ते ॥१७॥ पित्रा रामस्तथोक्तस्तु हिमवत्प्रचलोत्तमै ॥ तपस्तेपे
महातेजा रुद्राराधनकाम्यया ॥ १८ ॥ एतस्मिन्नेव काले तु देवाः सेन्द्रपुरोगमाः ॥ सैंहिकेयभयत्रस्ताः शङ्करं शरणं गताः ॥ १९ ॥
॥ देवा ऊचुः॥ ॥ भगवन् देवदेवेश प्रणतार्तिविनाशन ॥ सैंहिकेयैर्वयं सर्वैः स्थानेभ्योस्त्ववरोपिताः ॥ २० ॥ सैंहिकेयानथाऽऽश्रित्य
दैत्याः शतसहस्रशः ॥ सर्वे वसन्ति सततं तेषां यत्नं वधे कुरु ॥ २१ ॥ ॥ महादेव उवाच ॥ ॥ शृण्वन्तु देवताः सर्वा
दानवा देवकण्टकाः ॥ रामेणाऽहं वधिष्यामि नरबुद्ध्या यतस्तु तान् ॥ २२ ॥ मार्कण्डेय उवाच ॥ गतेषु देवसंघेषु देवदेवः पिनाकधृत् ॥
आहूय भार्गवं राममिदं वचनमब्रवीत् ॥ २३ ॥ महादेव उवाच ॥ सैंहिकेयान्सुदारुणान्सुरांश्चापि पुत्रक ॥ समर्थस्तन्भवान्हन्तुं नाऽन्यः
कश्चन विद्यते ॥ २४ ॥ राम उवाच ॥ अस्त्रग्रामं समर्पं मे प्रपच्छ भगसूदन ॥ येन तान्सुदुराचारान्घातयिष्यामि दानवान् ॥ २५ ॥ महा
देव उवाच ॥ किं तवास्त्रैर्गुरुश्रेष्ठ विष्णुस्त्वं नासि मातुपः ॥ व्यस्त्रास्यादपि न ते शक्तो योद्धुं प्रमुक्तवस्त्वव ॥२६॥ राम उवाच ॥ घातयिष्याम्यहं
सर्वांन्सैंहिकेयान्सुरासदान् ॥ त्रिपुरारे महाभाग त्वदाज्ञापरिवृंहितः ॥ २७ ॥ मार्कण्डेय उवाच ॥ इत्येवमुक्तोत्रिपुरान्तकेत रामस्त्रिनेत्रप्रतिम
प्रभावः ॥ आदाय तीक्ष्णं परशुं जगाम यत्र स्थितास्ते च रिपुप्रयानाः ॥ २८ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे रामस्य
महेश्वरदर्शनो नाम षट्त्रिंशत्तमोऽध्यायः ॥ ३६ ॥ ॥ मार्कण्डेय उवाच ॥ ॥ एतस्मिन्नेव काले तु काष्ठोदकीः सुदारुणाः ॥ बभूवुः सुमहौ
१ 'समन्ततम्' इति क० । २ 'ततोषोध ततस्तस्य पिता धर्मभृतां वरः' इति ख० । ३ 'गुरुश्रेष्ठं' इति ख० । ४ 'दुर्बुद्ध' इति क० । ५ 'बुद्धात्मान्' इति ख० ।
वि० ध०
॥ २१ ॥
प्र० खं०
अ० ३८
त्पाताः सैंहिकेयनिवेशने ॥ १॥ चचाल शब्दं कुर्वाणा मही सवनकानना ॥ पपात महती चोल्का मध्येनाऽऽदित्यमण्डलात् ॥ २॥ अपसव्येण[^1]
शशाङ्को संछन्नौ तमसा तथा ॥ प्रववर्षुश्च रक्तं भूरिं मेघा भयावहम् ॥ ३॥ शस्त्राणि मुमुचुर्धूममसकृद्द्रुवाहनाः[^2] ॥ इन्द्रचापसवर्णन परि-
वेशेन भास्करः ॥ ४ ॥ परिविष्ट उभे सन्ध्ये चन्द्रश्च सकलां निशम् ॥ सैंहिकेयो विपत्त्योपि साल्वस्य सुमहात्मनः ॥ ५ ॥ आक्रम्य जन्मन-[^3]
क्षेत्रं केतुस्तस्थौ महाग्रहः ॥ ववृस्तीक्ष्णा महावाताः क्षोभयन्तो दिशो दश ॥ ६ ॥ ध्वांक्षाश्चाऽऽसिक्तबन्धाङ्गो मृगाश्वासन्नसस्त्वनाः ॥
न्यलीयन्त ध्वजाग्रेषु दानवानां दुरात्मनाम् ॥७॥ क्रव्यादपक्षिसंघाता ह्यपसव्यं भयानकः॥ शुष्कन्धनसमृद्धोपि न जज्वल हुताशनः ॥८॥
वपूंषि दानवेन्द्राणां न प्राकाशंत चादव ॥ उष्णशीतविपर्यास ऋतूनामप्यदृश्यत ॥ ९ ॥ प्रसुस्तर्बुद्बुदा रक्तं व्यशीर्यन्त च भूषणः ॥ खरा गोषु
व्यजायन्त मार्जारो मूषिकासु च ॥ १० ॥ अकाले पुष्पिता वृक्षा अकाले फलिता द्रुमाः ॥ विना वर्षं महानभ्रः प्रतीपं जग्मुरोजसा ॥ ११ ॥
भयानकाश्चातभयः सुघोरानुत्पातसंबाधान्प्रसमीक्ष्य राजा ॥ साल्वः समाहूय भृगोस्तनूजं दैत्यैः समेतोध्या चक्रे मन्त्रम् ॥ १२ ॥ इति
श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे औत्पातिकं नाम सप्तत्रिंशत्तमोऽध्यायः ॥ ३७ ॥ ॥ मार्कण्डेय उवाच ॥ ॥
रत्नचित्रां सविपुलां समासाद्य सभां तदा ॥ सिंहिकायतनयः साल्वः शुक्रं वचनमब्रवीत् ॥ १ ॥ साल्व उवाच ॥ दृश्यन्त एते भगवन्नु-
त्पाता घोरदर्शनाः ॥ आचक्षाणा महायुद्धं विनाशमपि दारुणम् ॥ २ ॥ रिपुं न चैव पश्यामो येन युद्धं भविष्यति ॥ सर्वज्ञत्वाद्भवान्वेत्ति
तन्नः प्रब्रूहि पृच्छताम् ॥ ३ ॥ शुक्र उवाच ॥ आराध्य देवं ब्रह्माणं तपसा सिंहिका पुरा ॥ त्रिदशेभ्यो ह्यवध्यत्वं स्वसुतानामलभत सा ॥ ४ ॥
वरदानकृतोत्साहैर्भवद्विर्विबुधा मख ॥ निर्जितास्त्रिदशाः सर्व शंकरं शरणं गताः ॥ ५ ॥ तेन युष्मद्वधार्थाय विष्णुर्मानुषरूपधृक् ॥ जमदग्निसुतो
रामः प्रथितो रणकर्कशः ॥ ६ ॥ स चासौ महातेजा मातृपं स तु साम्प्रतम् ॥ मनुष्याश्च भयं घोरं बुद्ध्वन्मज्वाऽसुरमुत्तमम् ॥ ७ ॥ साल्व उवाच ॥
भगवन् सर्वदेवानामीश्वरो मधुसूदनः ॥ तस्मात्परतरं देवं नाऽन्यं कञ्चन शुश्रुम ॥ ८ ॥ किमर्थं स महातेजाः शंकरस्य महात्मनः ॥ आज्ञाकारी
भृगुश्रेष्ठ सैंहिकेयं जिघांसति ॥९॥ शुक्र उवाच ॥ यदा यदा हि धर्मस्य म्लानिर्भवति दानव ॥ अभ्युत्थानमधर्मस्य तदाऽऽत्मानं सृजत्यसौ ॥१०॥
कदाचिद्देवदेवेषु कदाचिन्मनुजेषु च ॥ कदाचिदथ तिर्यक्षु ज्ञात्वा कार्यबलाबलम् ॥ ११ ॥ यदा भवति देवेषु देवश्चेष्टेत तदा ॥ तिर्यक्षु च यदा
---
[^1]: 'मध्यमादित्यमण्डलम्' इति ख० ।
[^2]: 'शस्त्राणि मुमुचुर्धूम मसकृच्च च वाहनाः' ख० ।
[^3]: 'जन्मानि' इति क० ।
॥ २१ ॥
देवस्तित्यमवच्छेदते तदा ॥ १२ ॥ यदा भवति मातुल्ये तदा भवति मर्त्यवत् ॥ मातुल्यं रूपमसाध्य तपसा विपुणान्तकम् ॥ १३ ॥ आराधयाम्यास
हरं स्वदेहे परमं तप ॥ स तु देववरस्याज्ञां पुरस्कृत्य महातपाः ॥ १४ ॥ युष्मद्भार्यामायाति राग्येण कृतलक्षणः ॥ तस्माच्छक्रेण संधानं भवतो
मम रोचते ॥ १५ ॥ त्रिविष्टपश्च देवानां भवन्तवसुरसत्तम ॥ पातालनिलया यूयं निवमध्वं गतज्वराः ॥ १६ ॥ अहं निवारयिष्यामि शंकरेण न
भार्गवम् ॥ अनन्या निर्विशध्वं च मनुष्येण निराकृताः ॥ १७ ॥ मार्कण्डेय उवाच ॥ एवमुक्तास्तु शुक्रेण बुद्धा दैत्यबलाब्धयः ॥ उचुर्वाक्यं सुसं-
रब्धाः शुक्रं भृगुकुलोद्वहम् ॥१८॥ दैत्या उचुः ॥ एकत्राऽधिष्ठितं सर्वं जगत्स्थावरजंगमम् ॥ यदस्मात्मत्युध्येत न भीरुत्त्वादपि विद्यते ॥१९॥
ते कथं मातृपाङ्गोता नाकं त्यक्ष्याम शत्रवे ॥ शंकरं तं विजेष्यामो येनाऽसौ प्रपितो द्विजः ॥ २० ॥ शुक्र उवाच ॥ एकत्र
पिंडितं सर्वं जगत्स्थावरजंगमम् ॥ एकत्र भगवान्विष्णुर्जगतः सोऽतिरिच्यते ॥ २१ ॥ सं न शक्यो युधा जेतुं नैव देवो
महेश्वरः ॥ ते यूयं प्राकृतीं बुद्धिं त्यक्त्वा सर्वे महासुराः ॥ संधिं कुरुत देवेन शक्रेणाऽमित्रघातिना ॥ २२ ॥ शक्राक्यं सर्वदुष्टानां
देवदेवो जनार्दनः ॥ येन दैत्या विनिहताः पूर्वं पूर्वतराश्च ये ॥ २३ ॥ शंबरो नमुचिः शम्भुः कार्त्तवीर्यः कृतारंगमः ॥ हिरण्यक-
शिपुः केशी हिरण्याक्षो मदोत्कटः ॥ २४ ॥ मधुश्च कैटभश्चैव विटो धूमोऽतिडकोपनः ॥ हयग्रीवो निसुन्दश्च सुन्दश्चन्द्राकर्केलोचनः ॥ २५ ॥
चन्द्राकर्मदर्तश्च चन्द्रहर्ता रणप्रियः ॥ सूर्यशत्रुर्जितमित्रो यज्ञाहा यज्ञतापनः ॥ २६ ॥ मेघनादो महाग्रेमा मेघवादी भयानकः ॥ दृग्ग्रीवः
शतग्रीवो महाग्रीवश्च दानवः॥२७॥ कालकः कालकेयश्च कालनेमि पुलोचनः॥ कालश्च कालकल्पश्च मक्रगंक्षा जनान्तकः ॥ २८ ॥ अन्तः केशश्च
नो भीमो देवान्तकनरान्तकौ ॥ क्रोघहा बहुनेत्रश्च महाकालो जलान्तकः ॥२९॥ एकलव्यः स चाघागे दुर्जयो दुर्धरो बडिः ॥ इन्दुतापनपरभौ
च रणचण्डहरीप्रयौ ॥ ३० ॥ किरीटी गजवक्रश्च महासालो विलोहितः ॥ हालाहलादह्लादवृहत्खरखरदूषणाः ॥ ३१ ॥ शतभ्रः शलभश्चैव
कूपनश्च महासुरः ॥ विप्रचित्तिः शिवः शङ्करयः शङ्कस्तथैव च ॥ ३२ ॥ अयःशिरा अश्वशिरा भीमदंष्ट्रो गुहाशयः ॥ वेगवान्केतुमानुग्रः
सोमविप्रद्यो महासुरः ॥ ३३ ॥ पुष्करः पुष्कलेश्चैव साल्वेलावपतिरेव च ॥कुम्भो निकुम्भः शतदा संप्रह्री गगनप्रियः ॥ ३४ ॥ एते चाऽन्ये
च विख्याता दैत्येयाः समरोद्धताः ॥ सर्वे लब्ध्वराः शूराः सर्वे च गतमन्यवः ॥ ३५ ॥ सर्वैर्विद्वशराज्यानि कारितानि बलोद्धतैः ॥ ते
१ 'तस्य' इति ख० । २ 'ऋतागरः' इति ख० । ३ 'मेघनादो महारोमोऽथौ मेघो भयानकः' इति ख० । ४ 'कालकम्पश्च' इति ख० । ५ 'श्व नया' इति ख० ।
हतास्तेन देवेन वासवप्रियकाम्यया ॥ ३६ ॥
केचिन्मनुष्यरूपेण तिर्यग्रूपेण चाऽपरे ॥
केचिद् देवरूपेण निहता भूरितेजसा ॥ ३७ ॥
साल्व उवाच ॥
जानामि तस्य माहात्म्यं देवदेवस्य शार्ङ्गिणः ॥
अहं स्वमरणं मत्वा तेन योत्स्यामि भार्गव ॥ ३८ ॥
विशिखाग्निशरणं श्रेष्ठं न हीनोऽविजयो रणे ॥
विष्णोः करविनाशानां भूयो राज्यं भविष्यति ॥ ३९ ॥
मार्कण्डेय उवाच ॥
इत्येवमुक्तस्तत्सुताधिपेन भृगुप्रधानो भगवान् स शुक्रः ॥
ज्ञात्वा स दैत्यान्स्कुलान्निचिनद्यश्चागाम काष्ठापमरामोद्याम् ॥ ४० ॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शुक्रसाल्वसंवादो नामाऽष्टात्रिंशत्तमोऽध्यायः ॥ ३८ ॥
मार्कण्डेय उवाच ॥
एवमुक्त्वा गते शुक्रे गविष्ठो वाक्यमब्रवीत् ॥
गजेन्द्र शुकस्य वचनं क्रियतामविचारयन् ॥ १ ॥
स्वप्ना हि सुमहाघोरा दृश्यन्ते भयवर्धनाः ॥
भवतां हि विनाशाय गच्छन्ते सततं विभो ॥ २ ॥
भवान्स्वप्ने मया दृष्टो रक्तस्रगनुलेपनः ॥
उष्ट्रेण शिशुुमारेण वराहेण तथा व्रजन् ॥ ३ ॥
तैलाक्ताश्चापरे दैत्याः स्वगयानुपथाश्रिताः ॥
पतन्तः पर्वता दृष्टा गजेन्द्रे मयङ्कारणावा ॥ ४ ॥
केचित्कृष्णार्णवाम्बराः केचित्क्रूखरासनोंजितः ॥
केचित्पङ्कगता दृष्टाः केचिद्भस्ममया गताः ॥ ५ ॥
केचिद्विद्वया नायां कृप्यन्ते दक्षिणां दिशम् ॥
काचिद्रक्ताम्बरा नारी नीयते दक्षिणां दिशम् ॥ ६ ॥
केचिन्नृत्यन्ति भूपाला हसन्ति च तथाऽपरे ॥
केचिन्नरुण्डा मया दृष्टाः केचित्कषायावाससः ॥ ७ ॥
चण्डालकन्कन्याः केचित्केचिन्लिकुशमस्थिताः ॥
गजाश्वपत्तिसहितेन सर्वण च भवान्युतः ॥ ८ ॥
वापीं सकलुपां प्राप्य निमग्नो गोमये हृदे ॥
गजश्रीश्च मया दृष्टा शक्रालिङ्गनतत्परा ॥ ९ ॥
तस्य मे रोचते सन्धिस्त्व श्लक्ष्ण पार्थिव ॥
प्राणांरक्षत भो गजश्रीवन्मद्यप्यापुशांबुते ॥ १० ॥
साल्व उवाच ॥
यदैव भगवान्विष्णुः श्रुतः शत्रुर्मयाऽनघ ॥
तत्रैव देव तच्छ्रुत्वा राज्यं त्यक्तं तथा मया ॥ ११ ॥
इदं यङ्गेस्तपस्तप्तं राज्यं कृतमकण्टकम् ॥
मूर्ति स्थितमभिजाणां सुहृदः परिपालिताः ॥ १२ ॥
धुता भृत्यजनः सर्वः कृतकृत्यान्ततो वयम् ॥
गोविन्दान्मरणं प्राप्य भूयो राज्यं भविष्यति ॥ १३ ॥
मार्कण्डेय उवाच ॥
इत्येव वाक्यं तु निशम्य गज्ञो मेने तदा युक्ततमं गविष्ठः ॥
तूष्णीं बभूवाऽथ सुनिश्चितारमा मेने च दैत्यान्समरे विनष्टान् ॥ १४ ॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे स्वप्नाध्यायो नामैकोनचत्वारिंशत्तमोऽध्यायः ॥ ३९ ॥
मार्कण्डेय उवाच ॥
पतस्मिन्नेव काले तु नाल्वम्य च महात्मनः ॥
भौषीमात्राच्चविगटन्तु ददृशे चामयस्य च ॥ १ ॥
गहून्त्येव विख्यातः पूज्यामाम तं नृपः ॥
यथाऽह पूजितो गज्ञा निपुणो वाक्यमब्रवीत ॥ २ ॥
पादटिप्पणी:
१ 'नितराम्' इति ख० ।
२ 'केचित्कृष्णाण्डरा दृश्या' इति ख० ।
३ 'भूतो' इति ख० ।
४ 'ऋतुर्नृहेतुः स उच्यते' इति ख० ।