विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
by महाकवि बिल्हण / पं. विश्वनाथ शास्त्री
About this granth
Vikramankadevacharita (विक्रमाङ्कदेवचरितम्) is a historical epic by Bilhana, an eleventh-century Kashmiri poet who left his homeland and became court poet to the Chalukya emperor Vikramaditya VI of Kalyani. It celebrates that king and his dynasty, and with Kalhana's Rajatarangini it stands among the major historical poems in Sanskrit.
The poem traces the Chalukya line from Tailapa to Someshvara I, Vikramaditya's birth, education and conquests, the campaign against the Cholas and the throne of Kalyani, the svayamvara and marriage of Princess Chandralekha, the revolt of Jayasimha, and closes with the poet's account of himself and of Kashmir.
The Sanskrit preface of this edition recalls earlier ones, the first by Georg Bühler in the Bombay Sanskrit Series in 1875 with the help of Vamanacharya Jhalakikar and Bhimacharya; the catalogue names Pt. Vishwanath Shastri as editor. After an introduction and errata come about 470 pages of text, with appendices of choice verses, a verse index, names, a bibliography and a map of eleventh-century India.
यः पठति लिखति पश्यति
परिपृच्छति पण्डितानुपाश्रयति ।
तस्य दिवाकरकिरणै—
र्नलिनीदलमिव विकास्यते बुद्धिः ॥
- किञ्चित् प्रास्ताविकम् *
—•••—
अयि विद्वज्जनमनोम्यूरविश्रामारामा निरतिशयशेमुषीमण्डिता पण्डिता
विदितचरमेव तत्र भवता भवता यत् विक्रमाङ्कदेवचरितमहाकाव्य त्रिभू
मल्लदेव-विद्यापति-काश्मीरकभट्ट-श्रीविह्लणमहाकविविरचित प्रशस्तमहाकाव्य
प्रमुखताहंमिति ।
अद्य यावदस्य महाकाव्यस्य त्रिवार प्रकाशन जातम् ।
१. डा० जॉर्ज ब्यूह्लरमहोदयेन महता परिश्रमेण श्री पण्डित नामनाचार्य
झळकीकर-महोदयाना श्री भीमाचार्यमहानुभावानाञ्च साहाय्येन मुम्बापुरीसंस्कृत-
ग्रन्थमालाया १८७५ तम ईशवीये वर्षे प्रकाशितम् ।
२ प्रात स्मरणीयाना गुरुवर्याणा स्व म म श्री प रामावतारशर्मणा
नाम्ना काशीस्थज्ञानमण्डलसस्थात ईशवीये १९२७ तम वर्षे प्रकाशितम् ।
३ श्री प मुरारीलाल नागर महोदयैः साहित्याचार्य-एम् ए पदवी-
विभूषितै विद्वद्वराणा डा० मङ्गलदेवशास्त्रिणा निरीक्षणे काशिक-सरस्वतीभवन-
पुस्तकालयप्रकाशनविभागात् प्रकाशितम् ।
प्रथम—डा० ब्यूह्लरमहोदयस्य पुस्तकं सम्प्राप्तैकहस्तलिखितपुस्तकाधारेण
मुद्रित, सन्दिग्धस्थलेषु स्वकल्पितपाठभेदेनाञ्चितत्वाञ्चाशुद्धिवहुळम् । परञ्च
महाकाव्यस्याऽस्य सर्वप्रथम प्रकाशन कृत्वा गूढान्धकारनिपतितसंस्कृतग्रन्थभाण्डा-
रादस्योद्धरण साधारणलोकावलोकनं स्थापनञ्च सस्कृतविद्वत्सु डाक्टरमहोदयस्य
कृतज्ञत्व माऽङ्कलयतीति तु न । तथापि विदुषोर्येदत्र सहयोगो वर्णितस्स पुस्तक-
स्यंतस्याऽवलोकनेन न सन्देहराहित्यमधिगच्छति ।
द्वितीय—काशीस्थज्ञानमण्डलाधिकारिभिर्गुरुवर्याणा सम्मत्याऽसम्मत्य वा
तन्नाम्ना प्रकाशितमतीवाऽशुद्धमिति श्री गुरुवर्याणा दृष्टिपथमपि न गत स्यादित्येव
द्योतयति । सति रविकरनिकरप्रवेशे कुतोऽन्धकारस्य सम्भव ।
( २ )
तृतीय—श्री नागरमहोदयानां पुस्तकं गवेषणापूर्णसमालोचनात्मकोपोद्घातयुक्तं
पञ्चषहस्तलिखितपुस्तकानां मुद्रितपुस्तकयोश्चाऽऽधारेण पाठभेदविचारपूर्वकं
महता परिश्रमेण सम्पाद्य मुद्रितं सर्वेषामेवाऽस्मदादीनां प्रशंसास्पदम् । परन्तु
यत्र कुत्रचित्पाठभेदविचारे कार्यसम्पादनरभसादन्यवारपाठाद्वा पाठभेदनिर्णये
स्खलनं वरीवर्ति । तत्तत्स्थानान्युत्सृज्य सर्वत्रैवाऽस्मिन्पुस्तकेऽस्यैव पुस्तकस्य
पाठक्रमः स्वीकृतः ।
श्रीनागरमहोदयैर्जैसलमेरबृहज्ज्ञानकोपभाण्डारस्थाद्धस्तलिखितात्पुस्तकात् म-
हता श्रमेण टिप्पणीसंग्रहं कृत्वा चरितचन्द्रिका नाम्ना सा परिशिष्टरूपेण
स्वपुस्तके संगृहीता, केनाऽपि कविरहस्यकुशलेनैव धीमतैषा गुम्फितेत्यत्र नाऽस्ति
सन्देहालेशावसरः । ईशवीय १२८६ वर्षतोऽपि प्राचीनेऽस्मिन् हस्तलिखिते
पुस्तके टिप्पण्येषा स्वप्राचीनत्वं प्रकटयत्येव । कुत्रचित् “अस्य शब्दस्यार्थावगमो
न जायते” इति स्पष्टं लिखित्वा टिप्पणीकृता विदुषा निरहङ्कारं स्वपाण्डित्यं
परिचायितम् । गुणिनो न दुराग्रहा इति स्वगुणित्वमपि प्रकटितम् । टीकाया
अभावेऽप्यर्थावबोधविषये टिप्पण्येषा बहुषु स्थलेषु विदुषां पाठकानामतीवोपकारिणीति
निश्चयप्रचम् ।
बहुषु संस्कृतविद्यालयेषु विश्वविद्यालयपु चैतत्पुस्तकं पाठ्यपुस्तकत्वेन निर्धारि-
तमपि न कुत्राप्याऽऽपणे लभ्यमिति हेतोर्हिन्दूविश्वविद्यालयीय-संस्कृतसाहित्या-
नुसन्धानसमित्याऽ (The Sanskrit Sahitya Research Committee, B.
H U) स्य महाकाव्यस्य प्रकाशनं नितान्तमावश्यकं मत्वा मयि तत्सम्पादनभार-
स्समारोपितः । कठिनमप्येतत्कार्यं विघ्नपरम्परामनुभवताऽपि मया साहित्य-
व्याकरणाचार्य एम. ए. पदवीविभूषितानां सम्प्रति हिन्दू विश्वविद्यालयीय-संस्कृत
महाविद्यालये साहित्यविभागाध्यक्षपदं भूषयतां श्री पं. रामकुबेरमालवीयानां
हार्दिकसाहाय्येन श्री जगज्जननीसङ्कटहरणीकृपयैव संस्कृतव्याख्याभाषाटीकाभ्यां
सहितं सप्तसर्गान्तमेतन्महाकाव्यं सम्पाद्य प्रकाश्य च विद्वत्करकमलेषु सादरं
स्थाप्यते ।
पाठ्यपुस्तकत्वेन निर्धारितमेतन्महाकाव्यं टीकाभूषितञ्चेत् परीक्षार्थिनां
महदुपकारकं भवेदिति निर्धार्य सरलसङ्क्षिप्तटीकारचना कृता । यद्येतया
विद्यार्थिनां परीक्षासु कथमप्युपकारश्चेदस्मत्परिश्रमः साफल्यं गच्छेत् ।
सप्तसर्गान्तमेतन्महाकाव्यं पृथक् पुस्तकरूपेण प्रकाश्योऽष्टमसर्गात् अष्टाद-
शसर्गान्तमेतद्द्वितीयभागरूपेण प्रकाश्यमेष्यति । प्रायः सप्तसर्गान्तमेवैतन्महा-
( ३ )
काव्य सर्वत्र पाठ्यपुस्तकत्वेन नियोजित दृश्यते । स्वभावत एवाकिञ्चनाना
संस्कृतच्छात्राणा सम्पूर्णमहाकाव्यक्रये धनबाधा मा भूदिति धिया सप्तसर्गान्तिभागो
बुद्धया पृथक् प्रकाशित ।
अस्य महाकाव्यस्य महत्त्व किमु वर्णनीयम् । विविधच्छन्दसामलङ्काराणा
नूतनोत्प्रेक्षाणा गभीरध्वनीनाञ्चाऽऽकरेऽस्मिन् महाकाव्ये कालिदासभारव्याद्यपर-
कीर्तिमतो महाकवीना पदे पदे रमरण भवतीत्येत्काव्यानुशीलनचणाना
नाऽविदितम् । रसमाधुरीप्रवाहपरम्पराणा निधिरूपमेतन्महाकाव्य ब्रह्मास्वाद-
सहोदरानन्द समर्प्य हर्षयंत्येव पाठकान् । ऐतिहासिकमिद महाकाव्य सस्कृत-
विद्वांस ऐतिहासानभिज्ञा इति पाश्चात्याना सबलमाक्षेप दूरत एव शतधा करोति ।
ऐतिहासिके काव्ये भूगोलस्य ज्ञान सापेक्षम् । अतोऽत्र तात्कालिक-भारत-
मानचित्र प्रकाशितम् । तेन चरितनायकस्य विजययात्रासु भारते कुत्र कुत्र
गमन जातमिति छात्राणा सुस्पष्ट भवेत् ।
विद्यार्थिना सौकर्यार्थमत्र परिशिष्टेषु प्रधाननाम्नामनुक्रमणिकाऽकारादिक्रमेण
सप्तसर्गान्तर्गतश्लोकसूची सूक्तिसग्रहश्च सकलिता । तत्रैव ग्रन्थनायक ग्रन्थ-
ञ्चाऽवलम्ब्याऽद्यावत्प्रकाशिताना लेखाना पुस्तकानाञ्च सूची संयोजिता । येन
सोभाग्यात्सस्कृतछात्रेषु येषाञ्चिदस्मिन्विषये विशिष्टाध्ययने नवीनाविष्करणे
चैच्छा जागर्ति चेत्तेषामायासमन्तरेव सर्वं पूर्वजात विदित भवेत् ।
टीकालेखने श्रीमत्ता पण्डितवर्याणा श्री रामकुवेरमालवीयाना साहाय्य प्रत्येक
सर्गान्ते प्रेम्णा स्वीकृतमेवेति ते धन्यवादार्हा । श्रीमन्त पूज्यवर्येभ्य श्री बलदेवो-
पाध्यायेभ्य एम् ए साहित्याचार्येभ्यो हिन्दूविश्वविद्यालयीय-भारतीविद्यालया-
(College of Indology) ध्यापकेभ्य सहस्रशो धन्यवादा वितीर्य्यन्ते । यैर्भाषा-
टीकायामन्यत्र च यथोचितपरामर्शप्रदानेन परमनुगृहीतोऽहम् । श्री प. राज-
नारायणशर्माणो हिन्दू विश्वविद्यालयीय संस्कृतमहाविद्यालयव्याकरणविभागाध्यक्षा
धन्यवादेरभिनन्द्यन्ते । यैस्सहर्षं सर्वदय कठिनाप्रयुक्तशब्दसिद्धौ स्वानुपमशब्द-
शास्त्रज्ञानेन शब्दसिद्धिं ससाध्य महानुपकार कृत । श्रीमन्तो वटुकनाथशास्त्रि-
खिस्ते-महोदया एम् ए साहित्याचार्या राजकीयसस्कृतमहाविद्यालयसाहित्यशास्त्रा-
ध्यापका साशीर्वाद् धन्यवादानर्हन्ति । यैरामूलचूल सस्कृतहिन्दीव्याख्यासहित
लेखरूपमिद निभाल्य बहुषु स्थलेषु विशेषतोऽलङ्कारनिवेशे कविमात्रगम्यदुरूह-
विचाराणा निर्देशं कुर्वद्भिरस्य गुणाधिक्यमुत्पादितम् । विद्याधुर्य्यतो विनायक-
( ४ )
जोशीति नामधेयस्य लेखनकार्य साहाय्यमपि न विस्मरणीयम्, जगज्जनन्यनुग्रहात्
स चिरं जीयात् । प्रकाशका श्री रामकृष्णदासमहोदया साशीर्वादधन्यवादयोग्या ।
मै हिन्दूविश्वविद्यालयीयविविधकार्यभाराग्महता विलम्बेनाऽपि भवतु, चतुर्वारमपि
संशोधनार्थं प्रार्थितं प्राथमिकपत्रं (Proof) मस्थलितरूपेणाऽस्मत्सविधे संप्रेष्य
स्वकर्तव्यपरायणता प्रकटिता । धीमद्भूयो डा० जॉर्ज ब्यूह्लर, के कृष्णम्मा-
चारियर, ए बी कीथ, रामनाथ दीक्षित, महावीर प्रसाद द्विवेदी, कल्हण,
शास्तिमुरारीलाल-नागरप्रभृतिभ्यः सर्वेभ्यो मान्येभ्यो लेखकेभ्यस्तेषां पुस्तक-
हेलावलोकनेन बहुश उपकृतत्वात् धन्यवादान् समर्पयामि । अन्ये च चरित-
चन्द्रिकाटिप्पणीकारा, ये केऽपि ते भवन्तु मम हार्दिकान् धन्यवादानर्हन्ति ।
एतेषां टिप्पण्या टीकालेखने महती सहायता जातेत्यमाय निरूप्य विरमाम्यति-
विस्तरात् ।
वाराणसी
विजया दशमी
संवत् २०१४ वै०
विश्वनाथशास्त्री
भारद्वाजः
सम्पादक
॥ श्री ॥
श्री काशी हिन्दूविश्वविद्यालयकुलपतिः
श्री डा० वेणीशङ्कर झा
पीयूषप्रतिमं रसायनमिदं वाग्देवताया नवं
काव्यं विल्हणनिर्मितं विवरणं नाम्ना “रमाख्यं” दधत् ।
वेणीशङ्कर झा ! मनीषिमुकुटालङ्कार ! युष्मत्करा-
म्भोजं बिन्दतु रत्नकाञ्चनसमाश्लेषः समुन्मीलतु ॥
समर्पयिता
भारद्वाजो विश्वनाथशास्त्री
॥ श्री ॥
॥ श्री गणेशाय नम ॥
॥ श्री सङ्कष्टनाशिन्यै नमः ॥
—भूमिका—
अयि सुरसरस्वतीपरिचरणपरा शास्त्रधुरन्धरा विपश्चिद्वरा महानुभावा !
प्रथितयशस्सु तत्रभवत्सु न ह्येतत्तिरोहितं यद्वाङ्मये काव्यस्य कीदृश महित-
मास्पदमिति ।
काव्यं नाम लोकोत्तरवर्णननिपुणकविकर्म । कवेर्भावः कर्म वा काव्यमी-
दृश्या व्युत्पत्त्या कविशब्दात् "गुणवचनब्राह्मणादिभ्यः कर्मणि" चेति सूत्रेण ष्य-
ञ्प्रत्यये कृते काव्यपदसिद्धिरिति वैयाकरणी प्रसिद्धिः । कवते (वर्णयति), कौति,
कुवते (शब्दायते) वेति कविः । "कुङ्" शब्दे इति भौवादिकात्तौदादिकाद्वा
"कु" शब्दे इत्यादादिकाद्वा धातोः "अपि इ" इति सूत्रेणेप्रत्यये कृते कविपद-
निष्पत्तिरिति शाब्दिकी व्युत्पत्तिः । निरुक्ते (१२-१३-१) यास्काचार्येण
कविशब्दस्य मेधावीत्यर्थं प्रतिपाद्य 'कविः क्रान्तदर्शनो भवति कवतेर्वा' इति
व्युत्पादितम् । वैदिकनिघण्टौ (२-१४), "कवते" इति रूपं गत्यर्थकधातुषु
पठितम् । "गत्यर्थाः सर्वे ज्ञानार्थाः" इति न्यायात्कविशब्दस्य क्रान्तदर्शी मेधावी
वेत्यर्थस्संगच्छते । वैदिकनिघण्टौ (३-१५) मेधाविशब्दस्य पर्यायवाचकेषु शब्देषु
कविशब्दः पठितः । तादृशस्य कवेः कृतिः काव्यमिति पूर्वमेव प्रतिपादितम् ।
काव्यलक्षणं यथाह मम्मटभट्टः—"तद्दोषौ शब्दार्थौ सगुणावनलङ्कृती
पुनः क्वाऽपि" इति । निर्दोषं सगुणं स्फुटास्फुटालङ्कारञ्च शब्दार्थयुगलं
काव्यमिति लक्षणस्यैतस्य निष्कर्षः । श्रीमतां पुरतस्ससम्मानमुपस्थाप्यमानमेत-
द्विक्रमाङ्कदेवचरिताभिधानं पद्यरत्नं च निरवदोषाभावात्प्रसादादिगुणसहितत्वा-
दुपमाद्यलङ्कारमहितत्वाच्च स्फुटमेव काव्यकोटिमेवाऽङ्गीक्रियते ।
विश्वनाथकविराजस्य "वाक्यं रसात्मकं काव्यम्" इति लक्षणमपि प्रस्तुत-
प्रबन्धस्य वीरशृङ्गारादिरसभूषितत्वात्काव्यत्वाभ्युपगमानुगुणमेव ।
तच्च काव्यं दृश्यत्वेन श्रव्यत्वेन च भेदद्वयविभक्तम् । तत्र चाभिनेयत्वात्
दृश्यत्वस्य, प्रस्तुतकृतेः श्रव्यत्वं निर्विवादम् । तस्यचाख्यायिकाद्यनेकप्रकाराणि ।
( २ )
तत्र चाऽस्य प्रस्तुतग्रन्थस्याष्टादशसर्गनिबद्धत्वान्महाकाव्यस्य१ लक्षणान्तरसद्भा-
वाच्च महाकाव्यत्वमुररीक्रियते ।
उपजीव्यस्य कथाभागस्य भेदाच्च तत्काव्यमभिनवरुभालोचनेक्षिकया पुनर्द्वि-
प्रकारकम् । यस्योपजीव्यकथाभाग पुराणाद्गृहीतस्तत्पौराणिकमेवमेव यस्य च
काव्यस्य नूतनेतिहासस्तदैतिहासिकम् ।
एवञ्चाऽस्य विक्रमाङ्कदेवचरितस्य कथाभागो नूतनेतिहासाद्गृहीतस्तत एवेदं
महाकाव्यमैतिहासिकमिति निर्विवादम् । संस्कृतसाहित्य रत्नष्वपि बहुष्वैति-
हासिककाव्येषु पद्यकाव्ये विक्रमाङ्कदेवचरितं गद्यकाव्ये हर्षचरितञ्चेति काव्य
द्वितयमेवैतिहासिकरूपेण सातिशयं प्रथितम् ।
१ महाकाव्यलक्षणं यथा साहित्यदर्पणे—
सर्गबन्धो महाकाव्यं तत्रैको नायकः सुरः ।
सद्वंशः क्षत्रियो वापि धीरोदात्तगुणान्वितः ॥
एकवंशभवा भूपा कुलजा बहवोऽपि वा ।
शृङ्गारवीरशान्तानामेकोऽङ्गी रस इष्यते ॥
अङ्गानि सर्वेऽपि रसाः सर्वे नाटकसन्धयः ।
इतिहासोद्भवं वृत्तमन्यद्वा सज्जनाश्रयम् ॥
चत्वारस्तस्य वर्गाः स्युस्तेष्वेकं च फलं भवेत् ।
आदौ नमस्क्रियाशीर्वा वस्तुनिर्देश एव वा ॥
क्वचिन्निन्दा खलादीनां सतां च गुणवर्णनम् ।
एकवृत्तमयैः पद्यैरवसानेऽन्यवृत्तकैः ॥
नातिस्वल्पा नातिदीर्घाः सर्गा अष्टाधिका इह ।
नानावृत्तमयः क्वापि सर्गः कश्चन दृश्यते ॥
सर्गान्ते भाविसर्गस्य कथायाः सूचनं भवेत् ।
सन्ध्यासूर्येन्दुरजनी—प्रदोषध्वान्तवासराः ॥
प्रातर्मध्याह्नमृगया-शैलर्तुवन-सागराः ।
सम्भोगविप्रलम्भौ च मुनिस्वर्गपुराध्वराः ॥
रणप्रयाणोपयममन्त्रपुत्रोदयादयः ।
वर्णनीया यथायोगं साङ्गोपाङ्गा अमी इह ॥
कवेर्वृत्तस्य वा नाम्ना नायकस्येतरस्य वा ।
नामास्य सर्गोपादेयकथया सर्गनाम तु ॥
श्लोकाः ३१५-३२७
प्रकृतस्य महाकाव्यस्य सर्वप्रथमं तावच्छार्मण्य (Germany) देशीयो
विद्वद्वरो डा० जॉर्ज बूह्लर महोदय स्वमित्रेण डा० एच्० याकोबीमहाशयेन साकं
राजस्थानप्रदेशे पर्यटन् १८७४ तमे खृष्टाब्दे जैसलमेरस्थित-जैनवृहज्ज्ञानकोश-
भान्डारेऽतिप्राचीनां प्रतिलिपिमासादितवान् । स च काव्यस्यास्यानितरसाधा-
रणतामाकलयन्नात्मसमुत्साहाय्येन दिवससप्तकाभ्यन्तर एवास्य प्रतिलिपिं विधाय
तस्मिन्नेव हायनान्तरे चाऽऽङ्ग्लभूमिकया समं महाकाव्यमिदं सर्वसुलभञ्चकार ।
इत्थञ्चाऽस्य महाकाव्यस्यैकस्या एव प्रतिलिपेरवाप्त्या बह्वोंऽशा अशुद्धिग्रस्ता ।
तदनन्तरं डा० रामकृष्णभाण्डारकर-वेङ्कटराममहोदयादयश्चालुक्यवंशेतिहासे
प्रकृतकृतौ विक्रमाङ्कदेवचरिते च नवन्वान्बहून्विषयान्प्रकाशपथमासादयामासु ।
एवं सत्यपि काव्यमूलरूपं तदवस्थमेव (अशुद्धिबहुलम्) आसीत् ।
कालक्रमाद्बूह्लरसंस्करणे समाप्तिमासादिते काशीस्थज्ञानमण्डलमुद्रायन्त्रालया-
न्महामहोपाध्याय-पण्डितप्रवर-गुरुवर-श्रीरामावतारशर्मणान्ना सम्पादितं प्रकृत-
महाकाव्यस्य संस्करणान्तरञ्च प्रकाशभावमानीयत । परमत्र संस्करणेऽपि पूर्व-
संस्करणाशुद्धीनां निराकरणस्य का कथा ? नवन्वान्यशुद्धयन्तराण्यपि लोचन-
पथमतिथितां प्रयान्ति, यत् सहृदयानां खेद्यते चेत् । अत्र धीमतां गुरुवर्याणां
नाऽल्पसुयोगो मनसि विचिकित्सामुत्पादयति ।
समाप्तेप्रायेदस्मिन्नपि संस्करणेऽस्य काव्यस्य महत्त्वं लोकप्रियताञ्च निरीक्ष्य
शास्त्रिमुरारिलालनागर एम्० ए० साहित्याचार्यमहोदयं परिश्रमातिशयेन
जैसलमेरवृहज्ज्ञानकोशभाण्डारात्, पुण्यपत्तनस्थ-भाण्डारकरप्राच्यगवेषणासंस्थात
(Bhandarkar Oriental Research Institute Poona), अन्यतश्च
प्रस्तुनयस्य पञ्चषड्ढस्तलिखितानि पुस्तकान्यासाद्य शुद्धपाठनिर्धारणे श्लाघ्यं
प्रयासं कृत्वा महाकाव्यमिदं काशीस्थसरस्वतीभवनत (Princess of Wales
Saraswati Bhavana Text Series) प्रकाशितम् । परञ्चात्राऽपि यत्र
तत्र सम्पादनप्रमादादपभ्रंशपाठाः पाठभेदनिर्णय प्रमादो जात इय दृश्यते यथा—
अरमदर्शितदन्तवारिणा तेन वारिनिधिराविलीकृतः ।
इत सन्ततमदस्य विधामातश्चमुश्रियतमस्य दतिनः ॥ (सर्ग ५ श्लो० १६)
इत्यत्र तेनेति पाठात्सतीति पाठः साधुतरः प्रतिभाति ।
एवमेव
हस्तद्वयोपाद्गृहीतलील-दोलागुणानां जघने वधूनाम् ।
अस्युतस्तम्नुकूलबध विश्वप्यभूद्बुद्धयसितो मनोभूः ॥ (सर्ग ७ श्लो २९)
( ४ )
इत्यत्र 'असंवृते स्रस्तदुकूलबन्धे' इत्येव पाठ समुचित ।
एवमादिस्थलानि विहाय सर्वत्र प्रस्तुतपुस्तके अस्यैव पाठ संगृहीत । नागर-
महोदयैरुपोद्घाते डा० वूह्लरमहादेयकृतैतिहासिकविषयस्य सुतरां बहुषु स्थलेषु
खण्डनं कविलिखितघटनायाश्च याथार्थ्यं साधितम् । तत्काव्यान्ते चरित-
चन्द्रिकानाम्ना जैसलमेरबृहज्ज्ञानकोशभाण्डारस्थपुस्तकाट्टिप्पणीसंग्रहो नागरमहो-
दयस्य संस्करणं सुवर्णं सुगन्धयुक्तमिवाऽकरोत् । टिप्पणोकार क इति यद्यपि
न ज्ञातं तथापि तस्य पाण्डित्यप्रकर्षो विद्योतत एव ।
तदिदं विक्रमाङ्कदेवचरिताख्यं महाकाव्यमष्टादशसर्गनिबद्धम् । तत्राऽऽद्येषु
सप्तदशसु सर्गेषु चालुक्यवंशोत्पत्तितज्जातनृपवर्णनपुरस्सरं विक्रमाङ्कदेवचरितं
प्रतिपादितम् । अन्तिमे चाऽष्टादश सर्गे महाकविरात्मवर्णनकथाप्रसङ्गे स्वाभिजनं
कश्मीरदेशं तत्पालकान्भूपालांश्चाऽवर्णयत् ।
संस्कृतसाहित्ये महाकाव्यस्याऽस्याऽसाधारणं स्थानम् । एतत्कर्ता विलक्षण-
काव्यविच्छित्ति-प्रकाशन प्रवणो विचक्षणवरोज्ज्वल्यमधुरकल्पनाचणो बिल्हणः ।
विक्रमाङ्कदेवचरितस्य प्रकाशनात्प्रागपि कविवरो बिल्हणो भारतीयमहाकविषु
प्रधानभावेन संस्मृतः । एतत्कृता १चौरपञ्चाशिका वा चौरीसुरतपञ्चाशिका
कर्णसुन्दरी नाटिका च रसिकमानसेषु हर्षोल्लासप्रकाशिका वर्तते । एवञ्च
सुभाषितसंग्रहग्रन्थेष्वपि बिल्हणविरचितानि बहूनि पद्यानि संगृहीतानि ।
सूक्तिसंग्रहणप्रवणजल्हणसंकलितायां सूक्तिमुक्तावल्यामेव बिल्हणस्याऽष्टाधिकानि
शतसंख्याकानि पद्यानि विलसितानि । किमधिकेन । प्रसादाभिधानेन गुणेन
वैदर्भी रीत्या चाऽयं महाकवि काव्यनिर्माणं कविकुलगुरो कालिदासस्य शैलीं
बिभर्ति । शार्दूलविक्रीडितस्रग्धरादिषु वृत्तेषु कवेरस्य शैली भवभूति-श्रीहर्षादि-
सदृशी दरीदृश्यते । किञ्च कविरयं तत्र तत्र स्वप्रबन्धे कालिदासादिमहाकवीनां
छायां स्ववैशिष्ट्यं सस्याप्येवाऽनुचकारेत्यधिकमस्य महत्त्वं किं निवेद्यते ।
काव्यकलेवरपीवरत्वभीत्याऽस्माभिः कृतिरियं भागद्वये कृतविभागा । तथा
च सर्गसप्तकमितोऽयं प्रथमो भागः । अथाऽत्र सर्गसप्तकं यावदस्य महाकाव्यस्य
स्तोकमालोचनमनुष्ठीयते ।
१ चौरपञ्चाशिकाया प्रथमं प्रकाशनं शार्मण्य (Germany) देशीये डा०
सॉल्फमहोदयै १८८६ खृष्टाब्दे शार्मण्यभाषाप्रथितभूमिकया सह कृतम् ।
परञ्चाऽस्य नूतनं विस्तृतं संस्करणमपेक्षितम् ।
( ५ )
इह कविर्मङ्गलाचरणानन्तरमादौ रीतिचतुष्टये—
अनभ्रवृष्टिः श्रवणामृतस्य सरस्वती-विभ्रम-जन्म-भूमिः ।
वैदर्भरीतिः कृतिनामुदेति सौभाग्यलाभप्रतिभूः पदानाम् ॥
इत्यनेन पद्येन वैदर्भीमेव रीतिं प्रशशंस । प्रस्तुतकृतौ कवि वैदर्भीमेव
रीतिं प्रायेण समालम्बते ।
यत्र परमरमणीयेन प्रकारेण स्वविनयवर्त्ति स्वस्य चोपजीव्यनरपतौ
निरतिशया भक्तिश्च द्योतयता महाकविना बिल्हणेनोक्तं—
गिरा प्रवृत्तिर्मम नीरसाऽपि भव्या भवित्री नृपतेश्चरित्रैः ।
के वा न शुष्का मुदमभ्रसिन्धुसम्बन्धिनीं मूर्धनि धारयन्ति ॥ (१-२८)
एवञ्चास्य महाकवे श्रीहर्षेणाधस्तने पद्ये विशिष्टरूपेणाऽनुकरणं व्यधायि ।
पवित्रमत्राऽऽतनुते जगद्युगे स्मृता रसक्षालनयेव यत्कथा ।
कथं न सा मद्गिरमाविलामपि स्वतेविनीमेव पवित्रयिष्यति ॥ इति ।
(१-३) नैषधचरिते
निम्नस्थपद्ये कविनिबद्घप्रस्तुताहवमल्लदेवस्य—
किमश्वमेधप्रभृतिक्रियाफलैः सुतोऽस्ति चेन्नोभयलोकबान्धवः ।
ऋणं पितॄणामपनेतुमक्षमाः कथं लभन्ते गृहमेधिनः शुभम् ॥ (२-३४)
इत्युक्ति कीदृशी सहृदयहृदमावर्जिका, कालिदासनिवद्धवस्तुदिलीपस्य—
लोकान्तरसुखं पुण्यं तपोदानसमुद्भवम् ।
सन्ततिः शुद्धवंशा हि परत्रेह च शर्मणे ॥ (रघुवंशे १-६९)
इति वचनं स्वप्रौढिप्राकर्येणाऽतिशेते इत्यत्र विपश्चिद्वरा एव प्रमाणम् ।
तस्यैवाऽऽहवमल्लदेवस्यात्मजाया प्रत्यत्मजोत्पादनमनूद्य—
अपीतवेदोऽस्मि श्रुतः श्रुतागमः श्रमोऽस्ति भूपानितिहासवर्त्मसु ।
गुरुव्यवज्ञाविमुखं सदा मनस्तदभ्युपायोऽत्र मया न दुर्लभः ॥ (२-३९)
आलापोऽय क्यविध प्रोढिपूर्णं आत्मविद्वासप्रकाशकश्चेत्ययमर्थो गुणग्राह-
काणा विदुषामतिरोहित । एवञ्चात्रत्यमाहवमल्लतपोवर्णनं कालिदासस्य
कुमारसम्भवस्थं पार्वतीवपोवर्णनं मनोहरविषयाऽनुहरति । ज्यायसि भ्रातरि
यतंमाने जनकपरिकल्पितं स्वीय यौवराज्यं प्रतिषेधतो विक्रमाङ्कदेवस्य—
चालुक्यवंशोऽपि यदि प्रयाति पात्रत्वमाचारविपर्ययस्य ।
अहो ! महद्वंशसमाः किमन्यदगद्द्रुवोऽभूत्कलिकुञ्जरोऽयम् ॥ (३-३६)
उक्तिरियं कालिदासस्य रघुवंशे यज्ञियमश्वमपहरन्तमिन्द्रं प्रति रघोः—
त्रिलोकनाथेन सदा मखद्विषस्त्वया नियम्या ननु विध्यपस्रुपाः ।
स चेत्स्वयं कर्मसु धर्मचारिणां त्वमन्तरायो भवसि च्युतो विधिः ॥ (रघुवंश ३-४५)
वचनमदं स्वप्रौढिप्रकर्षेणातिक्रामतीत्यत्र विदुषां नो विप्रतिपत्तिः ।
एवञ्चाऽन्यत्र विक्रमाङ्कदेवदिग्विजयवर्णनं रघुवंशस्थित रघुदिग्विजयवर्णनमनु-
करोतीत्ययं विषयः काव्यद्वितयशीलिनां विमलमतीनां कृतिनां मतिपथे
स्फुटमेवाऽवभासते । दोषवर्जनपूर्वकं सतां गुणग्राहकत्वं कीदृश्या विच्छित्त्याऽ-
त्राऽष्टमे पद्ये दृष्टान्तालङ्कारेण प्रदर्शितम्—
दोषजातमवधीर्य मानसे धारयन्ति गुणमेव सज्जनाः ।
क्षारभावमपनीय गृह्णते वारिधेः सलिलमेव वारिदाः ॥ (५-५१)
अत्रैकत्र षष्ठसर्गस्येऽष्टमे पद्ये महाकविना "विललापे" ति प्रयोक्तव्यत्वे
'ललापे'ति प्रयुञ्जानेनाऽवाचकत्वं नाम दोषोऽपि प्रकाशितः । सप्तमसर्गीये
चत्वारिंशत्तमे श्लोके "अक्षूणशब्दे" अप्रयुक्तत्वदोषः । परं तादृशि महाकवौ
दूषणमिदं तस्य निरङ्कुशतामेव द्योतयति नत्वज्ञानम् । सोमदेवस्याश्वानामिदं
जवसमुचितधावनानुरूपा किमिति कृता पृथुला न नाय ! पृथ्वी ।
नभसि खुरपुटैरिति स्फुरद्भिर्विधिमिव ये स्म मुहुः प्रतिक्षिपन्ति ॥ (६-४९)
वर्णनं महाकविश्रीहर्षकृतमद्योलिखितं नैषधाश्ववर्णनमतिशेते ।
प्रयातुमस्माकमियं कियत्पदं परा तमम्भोभिरपि स्थलायताम् ।
इतीव वाहैर्निजवेगदर्पितैः पयोधिरोधक्षममुत्थितं रजः ॥ (१-६९) इति ।
एवञ्च—
रयस्थितानां परिवर्त्तनाय पुरातनानामिह वाहनानाम् ।
उत्पत्तिभूमौ तुरगोत्तमानां दिशि प्रतस्थे रविरुत्तरस्याम् ॥ (७-६)
इह महाकविनोत्प्रेक्षालङ्कारमाश्रित्य रवेरुदीचीगमनं येन चित्ताकर्षकविधानेन
समुपवर्णितं तत्प्रशंसनीयमेव । सप्तमे सर्गे कविना वसन्तादिवर्णनं कुर्व्वता
कमनीयं काव्यकौशलं प्रकाशितमिति दिक् ।
( ७ )
इदानीमस्या धृतेस्तत्तल्लक्षणसद्भावित्वं वैशिष्ट्यमुपदर्शयितुमापातत प्रतीय-
मानदोषाभासनिरसार्थञ्च स्तोकं प्रयतते ।
प्रस्तुतपुस्तकं महाकाव्यमिति पुरस्तादुपवर्णितमेव । अस्य नायकः सृष्टै-
कादशशताब्द्यां चालुक्यसाम्राज्यतुष्टय कल्याण चालुक्यवंशोद्भूतो वीरवरो
विक्रमाङ्कदेवः । नायकलक्षणं यथा साहित्यदर्पणे—
त्यागी कृती कुलीनः सुश्रीको रूपयौवनोत्साही ।
दक्षोऽनुरक्तलोकस्तेजोवैदग्ध्यशीलवाञ्छेता ॥
इत्यञ्च चरितप्रणेत्रा स्वनायकस्य पूर्वोक्तगुणगणालङ्कृतत्व सम्पादनीयम् ।
एवञ्च नायकस्य भेदचतुष्टयमपि तत्रैव प्रदर्शितम् । यथा—
धीरोदात्तो धीरोद्धतस्तथा धीरललितश्च ।
धीरप्रशान्त इत्ययमुक्तः प्रथमश्चतुर्भेदः ॥ इति ।
तत्र च प्रकृतनायको विक्रमाङ्कदेवो धीरोदात्त इतीयं वार्त्ता निम्नस्थलक्षणे-
नाऽवगीयते । तद्यथा----
अविकत्थनः क्षमावानतिगम्भीरो महासत्त्वः ।
स्थेयान्निगूढमानो धीरोदात्तो दृढव्रतः कथितः ॥
अविकत्थनो यथा—
गौडकामरूपकाञ्चीकेरलमलयचक्रकोटद्रविडादि—भूपाला विजित्याऽपि क-
ल्याणपुरं प्रस्थावतमानेन तेन विक्रमाङ्कदेवेन न कुत्राऽपि स्वमुखेन स्वपौरुषमुद्घो-
षितम् । प्रत्युत द्राविडदूतस्य समागमे तेन स्वपराक्रममधरीकृत्योक्तम्—
ईदृशीं गुजनतामजानता कार्मुकेण मुखरत्वमत्र मे ।
यत्कृतं किमपि तेन लज्जया भारती कथमपि प्रवर्तते ॥ (५ ५०)
एवमेव—अङ्गानि चन्दनरसादपि शीतळानि यद्वातपं वमति बाहुरयं यशोभिः ।
चालुक्यगोत्रतिलक क्व यशस्त्वदीयं ते दुर्वृत्तभूपपरितापगुरुः प्रतापः ॥
(५ ८६)
इत्यादिद्राविडदूतवचोक्तौ स तूष्णीम्भूय स्थितः ।
क्षमायान् यथा—
जयकेशि-आलुपेश-द्रविड़क्षितिपति-रुद्राणीगादीन् शरणमागतान् स क्षाम्यति
स्म । ज्येष्ठे भ्रातरि सोमेश्वरे बन्धनगामनीतेऽपि—
( ८ )
वितरितुमिदमप्रजस्य सर्वं पुनरुपजातमतिः स राजपुत्रः । (६-९३)
इत्यय विषयस्तस्य क्षमावत्त्वं साधयत्येव ।
अतिगम्भीरो यथा-
उभयतः समागतयोर्द्रविडपतिसोमेश्वरसैन्ययो. स्थितौ स गाम्भीर्येण-
मदकरटिनमुत्कटप्रतापः प्रकटितवीरमृदङ्गधीरनादः ।
मथनगिरिमिवाधिरुह्य वेगात् प्रतिबलवारिधिलोडनं चकार ॥ (६-६८)
महासत्त्वो यथा-
अन्तकः प्रतिभटक्षमाभृतां निर्दयप्रहणनोद्यतं ततः ।
तद्भवद्विरदपादचूर्णितं सैन्यमेककवलं चकार सः ॥ (५-७)
विघटनमटवीमधर्धराणां विषमपथेषु विधाय लीलयैव ।
पुनरपि स जगाम तुङ्गभद्रां विरचितवन्दनमालिकां तरङ्गैः ॥ (५-२५)
इत्यादिस्थलेषु राज्ञो महासत्त्वशालित्वं प्रकटितमेव ।
स्थेयान् यथा-
प्राप्तमप्यनवपङ्कजङ्गितस्तद्दलं न सहसा जघान सः ।
अग्रतर्वधभुजोवीर्यशालिनः सङ्कटेऽप्यगहनास्तथाविधाः ॥ (५-६)
इत्यत्रोक्तमेव । पुरतः पृष्ठतश्च समागतयोर्विपक्षसैन्ययो स. स्वधृतिमव-
लम्बितवान् ।
निगूढभावो यथा-
कीदृशो शशिमुखी भवेदिति स्पृश्यते स्म हृदये स चिन्तया ।
कामुकेषु नियमक्षमोध्वते नित्यकुण्डलितकार्मुकः स्मरः ॥ (५-४८)
तथापि
अव्यवीच्च मनसः प्रसन्नतां दन्तकान्तिभिरुदोरयन्निय ।
ओष्ठपुष्ठलुठितस्मिताञ्चलः कुन्तलीनयनपूर्णचन्द्रमाः ॥ (५-५९)
इत्यनेनास्य निगूढभावकत्वं स्फुटायेव ।
दृढव्रतो यथा-
आहवमल्लदेवस्य स्वपितुर्युवराजपदग्रहणे महत्याग्रहे वर्तमानेऽपि स वैदग्ध्येन
चालुक्यवंशोऽवि यदि प्रयाति पात्रत्वमाचारविपर्ययस्य ।
अहो महद्दारुसमाः किमन्यदनङ्कुशतोऽभूत्कलिकुञ्जरोऽयम् ॥ (२-३६)
( ९ )
एतादृशैर्युक्तियुक्तैर्वचनैः स्वदृढव्रतत्वं प्रकटितवानिति ।
महाकविना बिल्हणेनेत्थमेव तत्र तत्र नायकस्य धीरोदात्तत्वं प्रतिपादितम् ।
अत्रैतिहासिकतत्त्वसंरक्षणपरा डा० वूह्लरादयो विपश्चिद्वरा विप्रवदन्ति—
‘महाकविना बिल्हणेन स्वकृतावैतिहासिकं तथ्यं विलोपीकृतमिति' । वस्तुतस्त्वे-
तद्दूषणमापातत एव प्रतिभाति न तत्त्वदृष्ट्या । प्रकृतकृतिरितिहासमूलाऽपि
काव्यमेव नेतिहासः । अत्र कविना प्राधान्येन प्रकाशनीयं कवित्वमेव, न
त्वितिहासतत्त्वम् । यत्त्वत्रेतिहासतत्त्वं प्रकाशितं तदानुषङ्गिकत्वेन न प्रधानत्वेन ।
कल्पनाकाननसञ्चरणपराणामेतादृशानामेव कवीनां कृतिमृद्दिश्य—
अपारे काव्यसंसारे कविरेव प्रजापतिः ।
यथास्मै रोचते विश्वं तथेदं परिवर्तते ॥
शृङ्गारी चेत्कविः काव्ये जातं रसमयं जगत् ।
स चेत्कविर्वीतरागोनीरसं व्यक्तमेव तत् ॥ (अग्निपुराणे)
एतादृश्यूक्तिः समजनि । किं बहुना, महाकवीनामेतादृशा कृते स्वनायकस्य
मर्यादासंरक्षणार्थमालङ्कारिकैः सुधीभिः स्तोकरूपा स्वतन्त्रताऽपि प्रदत्ता । यथा
सा साहित्यदर्पणे—
यत्स्यादनुचितं वृत्तं नायकस्य रसस्य वा ।
विरुद्धं तत्परित्याज्यमन्यथा वा प्रकल्पयेत् ॥ इति ।
अतएव धीरोदात्तनायकेन श्रीरामचन्द्रेण छद्मना वालिहननमनुचितमिति
धिया महानुभूतिना भवभूतिना वीरचरिते रामवधार्थमायातो वाली रामेण
व्यापादित इति प्रतिपादितम् । अपरञ्च, काव्यसाधितं वस्तु मिथ्यारूपमितिहास-
प्रकाशितमेव तथ्यमित्यत्र वा नाम विनिगमना ? इतिहासवर्णितमपि वस्तु
वितथं विलोक्यते । यथा वङ्गेतिहासे सिराजुद्दौलाभिधानेन बङ्गाधीशेन कृष्ण-
प्रकोष्टे (Black Hole of Calcutta.) बहव आँग्लदेशाभिजना निरुद्धास्तत्र
च स्थानस्य सङ्कुचितत्वाद्वहुसंख्या उपरता अल्पा एवावशिष्टा इति यदि-
तिहासे लिखितं तत्साम्प्रतं मिथ्यैवेति बहुभिर्विद्वद्भिः साधितम् । एवंविधे
व्यतिकरे लोचनगोचरे सति प्रकृतेऽपि प्रकृतचरितनायकस्य तत्सदस्यैश्चप्रदर्शितं
वृत्तं वितथमितिहासनिर्दिष्टमेव तथ्यरूपमित्यपि सर्वतोभावेन प्रतिपादयितुं न
शक्यम् । कालान्तरे विस्तृतगवेषणानन्तरं प्रकृतकविसृष्टवृत्तस्य सत्यत्वसिद्धि-
रपि संभाव्यते । श्री नागरमहोदयैः स्वोपोद्घाते डा० वूह्लरखण्डिता यास्मिं-
दैतिहासिकघटनाः डा० वूह्लरमतखण्डनपूर्वकं सयत्नेन प्रमाणीकृता वर्तन्ते ।
( १० )
ऐतिहासिकेन विदुषा सम कवेरिय कलहवार्ता नाऽनैव पाश्चात्यदेशेऽपि
स्फुटमापद्यते । प्रतीच्यामैतिहासिकोपन्यासलेखकानागादिमो नूतनवाट (New
way.) प्रकाशक सर् वाल्टर स्काट् (Sir Walter Scott) महाशयोऽपीत्थमेव
दूषणभाजन समजति । आधुनिकानामाङ्गलेतिहासज्ञाना फ्रीमेनाभिधान कोविद
परमप्रसिद्ध । उपन्यासप्रस्तुतायामतिहासविस्मृतौ रोष प्रदर्शयता कृतिनाऽमु-
नाऽभिहित—'यूरोपदेशोद्भूते धर्मयुद्धयात्रायुगे (The age of the Crusades)
ये किमपि ज्ञातुमीहन्ते तै स्काट्कृत 'आइवान हो' (Ivanho) नाम उपन्यासो
न पाठ्य इति । अत्राऽपि समाधान पूर्ववदेव बोध्यम् । एवमेवाऽत्र कृतौ
महाकविना चरितनायकस्य तत्त्कार्यकालानाम पौर्वापर्यविपर्ययोऽकारीति
यद्द्षणमुपन्यस्त तत्रेय वार्ता—नेय कृति प्राधान्येनेतिहास प्रत्युत काव्यमेव ।
महाकविना स्वलेखनसौविध्यमाचरतेत्थमाचरितमतो नाऽत्र स उपालम्भभाजनम् ।
'शृङ्गारवीरशान्तानामेकोऽङ्गी रस इष्यते' । इत्युक्तेरत्र वीरोऽङ्गी रसो
यथायथमङ्गरूपाणि रसान्तराणि न बोद्धव्यानि । मङ्गलाचरणरूपे प्रथमश्लोके
कृपाणमुपवर्णयता महाकविनाऽस्य महाकाव्यस्य वीररसाधायित्व द्योतितमेव ।
अत्र सत्स्वप्यलङ्कारान्तरेषु महान्कविर्विशेषत उपमोत्प्रेक्षादृष्टान्तार्थान्त-
रन्याससमासोक्त्यनुप्रासादीन् बाहुल्येन लोचनगोचरीकरोति ।
यद्यपि स्वकृत्या कृतसुहृदयहृदयसवनन स नाऽय महाकविर्बिल्हण काश्मीरेषु
प्राप्तजन्मत्यथाप्यस्य कल्याण चालुक्य-वंशस्य षष्ठविक्रमादित्यस्य विक्रमाङ्क-
देवापरनामकस्य सभापण्डित आसीत् । भारते वर्षेऽस्य षष्ठविक्रमादित्यस्य
शासन १०२६ त ११२७ खॄष्टाब्दपर्यन्त स्थितम् ।
काश्मीरेषु प्रवरपुरम् (श्रीनगरम्) प्रधाननगरमस्ति । तस्मात्क्रोशत्रये
खोनमुखनामक ग्राम महाकविरय स्वजन्मनाऽलङ्कृतवान् । तत्र कौशिकगो-
त्रोत्पन्ना ब्राह्मणा निवसन्ति स्म । तदन्वयमेवाऽय भूषितवान् । अस्य प्रपितामहो
मुक्तिफलश पितामहो ऽराजकलश पिता च ज्येष्ठकलश आसीत् । अस्य
मातुर्नाम नागादेवीति । अस्य ज्येष्ठभ्राता इष्टरामोऽनुजश्चाऽऽनन्दनामाऽऽसीत् ।
द्वावप्येतो भ्रातरी विद्वत्तया तत्र प्रसिद्धावास्ताम् ।
काश्मीरेष्वेव ससर्ववेदशास्त्राण्यधीत्य बाणभट्ट इवायमपि विदेशान्प्रति
प्रतस्थे । मथुराया वृन्दावने च शास्त्रार्थविषयेषु पण्डितान्विजित्य क्रमश कान्य-
कुब्जत प्रयाग समाजगाम । सत काश्या डाहलाधीशस्य कर्णनृपते. सभाया
( ११ )
श्रीगङ्गाधरनामानं कञ्चित् विशिष्टं पण्डितं पराजितवान् । ततो भोजराज-
धानीं धारां प्राप्तः । परञ्च भोजस्य दिवङ्गतत्वात्तस्य तत्र गमनमसफलमेवाऽऽ-
सीत् । ततः स गुर्जरदेशे समागत्य सोमनाथमहादेवस्य दर्शनं कृतवान् ।
सोमनाथात्रिर्गत्य स दक्षिणदेशे चिरं बभ्राम । सेतुबन्धरामेश्वरदर्शनानन्तरं
स कल्याणनगरं ययौ । तत्र लब्धविद्यापतिपदवीकः स षष्ठ-विक्रमादित्यस्य
चालुक्यवंशीयस्य सभां यावज्जीवं सम्भूषयति स्म ।
सर्वस्वं गृह्णाति कुन्तलपतिर्गृह्णातु तन्मे पुन-
र्भाण्डागारमखण्डमेव हृदये जागर्ति सारस्वतम् ।
रे क्षुद्रास्त्यजत प्रमोदमचिरादेष्यन्ति मद्मन्दिरे
हेलान्दोलितकर्णतालकरटिस्कन्धाधिरूढा ध्रियः ॥ १ ॥
अयि ! किमनिभं राजद्वारे समुद्धुरकन्धरे
कुवलयदलस्निग्धे मुग्धे विमुञ्चसि लोचने ।
अमररमणीलीलाव्याद्विलोचनवागुरा-
विषयपतितो न व्यावृत्तिं करिष्यति बिल्हणः ॥ २ ॥
उपर्युक्तं पद्यद्वयं काश्मीरासादित-चोरीसुरतपञ्चाशिकाग्रन्थे प्रारम्भ
एवाऽस्ति । एताभ्यां पद्याभ्यां बिल्हणविक्रमादित्ययोः पूर्वं कदाचित्कं वैमनस्यं
द्योत्यते । प्राचीनराजसभापण्डिताः स्वभावत एव नूतनमहापण्डितप्रवेशे विरोधिनो
भवन्तीति नैतदसम्भवम् ।
श्री कृष्णम्माचारियरमहोदयस्त्वेतदेव वैमनस्यं पाश्चात्कालिकं विमृश्य
महाकाव्यस्यास्याऽपूर्णत्वे कारणमिति कल्पयति । तन्मते खृष्टीय १०८५ वत्सरे
विक्रमादित्यस्य नर्मदाटटयात्राऽत्र न वर्णितेत्यस्याऽपूर्णत्वम् । परन्तु नैतन्महा-
काव्यमपूर्णम् । खृष्टीय १०८५ वर्षीया घटना महाकाव्यरचनान्तरभूतेति
तस्या अत्र समावेशोऽसम्भवः । महाकाव्यं परिसमाप्यैवाऽन्तिमेऽष्टादशसर्गे
महाकविना स्ववंशवर्णनं कृतमित्यपूर्णतायाः कल्पना निराधारैव ।
एवमेव 'इण्डियन एण्टिक्वेरी' पत्रसम्पादकस्य 'बिल्हण श्लेषालङ्कारस्य
परमोपासक इत्यादि समालोचनं, श्रीमतो द्विवेदिमहोदयस्य महाकवेरस्य प्राचीन-
कवीनामनुकरणदोषारोपणं, डा० वूह्लरमहोदयस्य चैतिहासिकघटनाऽपटुत्वेन
दूषणं सर्वमिदं समालोचनमनालोचनपूर्वकमेव । न कोऽपि निर्दोष इति विचार्यैव
महाकविना कालिदासेन कुमारसम्भवे भणित-
एकोऽहि दोषो गुणसन्निपाते निमज्जतीन्दोः किरणेष्विवाङ्कः । इति
( १२ )
यो महाकविः स्वग्रन्थे काव्यार्थचौर्यं निन्दति स कथं तदेव कुर्यात् ।
ईदृग्भूतानां समालोचकानां कृत एव महाकविना विल्हणेनोक्तम्
रसध्वनेरध्वनि ये चरन्ति संक्रान्तवक्रोक्ति—रहस्यमुद्राः ।
तेऽस्मत्प्रबन्धानवधारयन्तु कुर्वन्तु शेषाः शुकवाक्यपाठम् ॥ (१-२२)
एतादृशस्य महाकाव्यरत्नस्य काऽपि विशदटीका न विद्यते । चरित-
चन्द्रिकाऽभिधाना केवलमेका टिप्पणी कविहार्दभावप्रकाशनऽसमर्था । अत
एवाऽयमस्माकं टीकालेखने समारम्भः । अस्मदीयायामस्यामभिनवव्याख्यायां
रमानाम्न्यां यथामति कवितात्पर्यप्रकाशनपुरस्सरं रसध्वन्यलङ्कारच्छन्दःप्रभृतय
आलङ्कारिका विषया वंशयेन प्रतिपादिताः । तदधस्तले च हिन्दीभाषामयोऽ-
नुवादोऽपि सविस्तरं व्यक्तरूपेण न्यधायि । तत्राऽस्माभिः कियती सफलताऽ-
धिगता, विषयेऽत्र सहृदया कोविदा एव प्रमाणम् । यथोक्तं कविकुलगुरुणा
महाकविना कालिदासेन—
आपरितोषाद्विदुषां न साधु मन्ये प्रयोगविज्ञानम् ।
बलवदपि शिक्षितानामात्मन्यप्रत्ययं चेतः ॥
उपयुक्तसमयाभावेन सर्गसप्तकं यावदतिसंक्षिप्तया विज्ञपाठगत्याः काश्चि-
द्विशेषता प्रकाशिताः । भागान्तरे वैशिष्ट्यान्तराणि चोपस्थापयिष्यन्त इति
धिया साम्प्रतमेतावत्तैव विरम्यते ।
सर्गसप्तकस्यः कथासारः ।
प्रथमसर्गे—
मङ्गलाचरणप्रस्तावनान्तरं प्रकृतचरितनायकचालुक्यकुलमूलपुरुषस्योत्पत्तिः
प्रदर्शिता । सा चेत्थं-जातुष्विञ्चतुर्वदने प्रात सन्ध्यावन्दनपरे सुरपतिर्धरा-
भारापनयनार्थमलौकिकपौरुषस्य कस्यचिन्महापुरुषस्याऽऽवश्यकतां निवेदयामास ।
तदनु वेधाः सन्ध्यासलिलपूर्णमात्मचुलुकमाडुलोके । तस्माच्च कमलासन-
चुलुकाल्लोभत्रयत्राणप्रवीणः सुभटः आविरासीत् । स पुरुषः पुरुहूतं ‘धृतिमान्
भव' इति प्रस्थाप्य सुरविपक्षक्षयदीक्षितोऽभूत् । तत एव चालुक्यकुलं समजनि ।
यत्र च हारीतमानव्यनामानावादिपूरुषौ बभूवतुः । तत्कुलजा युद्धदुर्धर्षा भूपाला
अयोध्यां स्ववासस्थानं चक्रुः । केविच्च विश्वविजयक्रमेण विलासितया च
दक्षिणस्यां दिशि निवासं विदधुः । किञ्चित्कालानन्तरं तैलपो नामातुलविक्रमो
भूपस्तद्वंशावतंसोऽभूत् । ततोऽनुपमशौर्याश्रय सत्याश्रयो नाम नरपति प्रादुर्बभूव ।
ततश्च समराङ्गणेषु मुहुर्मुहु प्राप्तजयो जयसिंह आविर्भूत । तस्माच्च त्रैलोक्य-
मल्लापरनामक आहवमल्लाभिधानो विधुतावदानो नरनायक समजायत ।
अनुपमविक्रम स नरपालश्चोलदेश मालवराजधानी धाराञ्च जिगाय ।
डाहलपतिं कर्णञ्च विवर्णं चकार । एवमेव बहुष्वाहवेषु मल्ल स आहवमल्लो
द्रविडप्रकाण्ड वीररसस्वाद्भाजनं विदधे, चोलराज्यश्रियञ्चाञ्चकषे ।
द्वितीयसर्गे—
प्रक्रान्तविक्रान्तचरित वाहवमल्लदेव सर्वा ककुभो विजित्य गुणिगण-
मण्डिता कल्याणपुरीमात्मराजधानीरूपेण विदधे । समधिगतसम्पदतिशय
पूरिताशेषमनोरथोऽपि स भूपतिस्तनयाभावेन दूयमानमानसोऽभूत् । तत
स देव्या सम विमृश्य सकलराज्यकार्यभार मन्त्रिषु विनिवेश्य तनुजाऽऽसादनार्थं
शङ्करानुष्ठाननिष्ठो बभूव । जातुचिद्दिभाते चन्द्रशेखरपरिचरणपरो नरवर स
इमामशरीरिणीं गिरमाकर्णयति स्म—"भो नरपते ! कृतं तपसा । भगवान्पार्व-
तीपतिस्त्वयि प्रसादाभिमुख संवृत्त । इय त्वदीया दयिता तनयत्रितयसमन्विता
भविष्यति । तत्रापि शिवप्रसादाद्द्वितीयस्तनयोज्ज्वललो भविता" इति ।
अनन्तर नरदेवो व्रतपारणाविधिं विदध । ततश्च शुभ मुहूर्ते देवी सुतमेक-
मसूत, यो नाम्ना सोमेश्वर संवृत्त । ततो माङ्गलिकेऽह्ने अन्य देव्या गर्भतो
लोकोत्तर-गुणगणसमलङ्कृत समस्तशुभलक्षणलक्षित शिवप्रसादीकृतो द्वितीय-
स्तनय समजति । निरतिशयहर्षप्रकर्षपरवशो महाराजश्चाऽऽत्मजस्य जातकर्मादि-
सस्कार सम्पादयामास ।
तृतीयसर्गे—
नवप्रसूत प्रभूतशुभलक्षणपूरितो राजसुत आख्यया विक्रमाङ्कदेव इति
ख्यातिमभजत् । स च बालोऽनितरसाधारणगुणवान्बाल एव प्रादर्शयद्रूपेण्व
मातापितरौ प्रमोदमेदुरमानसौ । अचिरेणैव समयन विक्रमादित्यो विक्रमाङ्क-
देवापरनामा समधिगतसमस्तविद्य संवृत्त । अत्रान्तरे नराधिपस्य जयसिंह-
नामकस्तृतीयस्तनयोऽपि समजायत । अथ राजा प्रतापेनाऽऽदित्यसन्निभो द्वितीयम-
प्यद्वितीयं विक्रमादित्याभिध तनूज यौवराज्यालब्कृत कर्तुमीयष । ज्येष्ठे
भ्रातरि स्थितेऽपि स्वयोवराज्याभ्युपगमे महदनौचित्य पश्यन्नार्येोग्युचितपटु स
( १४ )
उक्तिविशेषैर्मुहुर्मुहुराग्रहग्रहग्रहिं स्वपितरं न्यषेधत् । इत्यञ्च सोमेश्वर सोम-
देवापरनामधेय एव यौवराज्यपदभाग्जायत। वस्तुतस्तु विक्रमाङ्कदेव एव राज्यधु-
राज्योढुं धोरपि भारमादिकमठो भूमिशेषयोरिव विशेषरूपेण वभार । तदनन्तरं
पितुराज्ञया सर्वत्र रणोत्सवेषु विजयमवाप । एवञ्च स चोलाञ्जगाय,
स्वशरणागतं मालवाधीशं निष्कण्टकं राज्ये समस्थापयत् । बहवो भूपाला
कन्यकाप्रदानच्छलतोऽस्य सर्वस्वदानं चक्रुः ।
चतुर्थसर्गे—
विक्रमाङ्कदेवो दिग्विजय्यार्थं प्रयाणमकरोत् । तद्गजा मलयं मलयजरहि-
तमकुर्वन् । स केरलदेशं जीवितेशदेशं प्रापयत् । तद्भयात्सिंहलभूपालस्तच्छरणं
जगाम । एवञ्च विक्रमाङ्कदेवो गाङ्गकुण्डपुरं चोलदेशं च जिगाय । वेङ्गि-
भूपालं चक्रकोटपतिञ्च स निर्वीयं चकार । एवञ्चापराक्रान्तो महाविश्रान्तो
विक्रमाङ्कदेवः कृतकार्यं सन्निवार्यदैवगत्या स्वदेशप्रत्यावर्तनकाले बहुविधान्यप-
शकुनानि प्रत्यक्षीचकार । ततश्च स तच्छान्त्यर्थं सर्वस्वदानमालोच्य कृष्णा-
नदीतटे विशश्राम । तस्मिन्नेव समये कल्याणपुरात्समायातो दूत एतादृशीमभव्यां
वार्तामश्रावयत्—“राजकुमार ! भवज्जनको भावत्कं पाण्ड्यचोलसिंहल-
भूपालविजयं समाकर्ण्याऽमन्दमानन्दसन्दोहमन्वभूत् । परं नियतिदुर्गतिपरवशः
स दाहज्वराभिभूत्या दक्षिणापथत्रिपथगां तुङ्गभद्रां प्राप्य सुवर्णदानपूर्वकं कण्ठदध्ने
तन्तोये प्रविश्य चन्द्रशेखरपुरं प्रययौ” इति । इत्यञ्चाऽकाण्ड एव जनककैलाश-
वासमाकर्ण्य परितप्तः स भृशं परिदेवयामास । अथ स सस्थितस्य तातस्योत्तर-
क्रिया यथाविधि विधाय सत्वरमग्रजालोकनोत्कण्ठया कल्याणप्रयाणमुद्दिश्य
जगाम ॥
तत स कियद्भिरपि दिवसैः कल्याणपुरीं समासाद्याऽग्रे समागतेनाऽग्रजन्मना
सम्मानितस्तेनैव समं समानसक्लेशं नरेशप्रासादं विवेश । तदनु तावुभावकृत्रि-
माभिप्रियं प्रणयवृत्तिभिः कतिचिद्वासरानापयताम् । गुणगणज्येष्ठोऽपि स
ज्यायांसं तातप्रतीकाशं भ्रातोद्ध्य समीक्ष्य समर्पयामास च तस्मै दिग्विजयोपार्जितं
समस्तं वस्तुजातम् । ततश्चानिवार्यया भवितव्यतया सोमेश्वरो दुर्विनयोपरोऽ-
भूयेन च स भूपो विमले चालुक्यकुले कलङ्करूपो बभूव । यदा विक्रमादित्य
आत्मनोऽग्रजस्य दुराग्रहं निराकर्तुं न शशाक, तदाऽन्यच्छोभीत्या भेरीरवेण
श्रवणविवरं भिन्दन्कल्याणपुराद्विनिर्ययौ ॥