Skip to content
SarvaKosh
विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

Vikramankadeva Charitam of Bilhana with Commentary

by महाकवि बिल्हण / पं. विश्वनाथ शास्त्री

DevanagariSanskritpublished493 pages

Page 410 of 493

Read in context
Page 410

( ४०२ )
अन्वयः
अमुष्य शत्रुसेनाभटमुखपद्मविमर्दकेलिकालः द्विरदपतिः रणसरः
झटिति लक्ष्मीकरधृतविभ्रमपुण्डरीकशेषं चकार ।
व्याख्या
अमुष्याऽस्य विक्रमाङ्कदेवस्य शत्रूणामरीणा सेना चमूस्तस्या ये भटा योधा-
स्तेषां मुखान्याननान्येव पद्मानि कमलानि तेषा विमर्दश्चूर्णनमेव केलि क्रीडा
तदयं कालो यमो विनाशकारित्वात् । 'कालो दण्डधरः श्राद्धदेवो वैवस्वतोऽन्तकः'
इत्यमर । द्विरदपतिर्गजनाथो रण एव संग्राम एव सरस्तडागस्तत् रणसरो
युद्धतडागो झटिति शीघ्र लक्ष्म्या श्रिय करेण हस्तेन धृत धारित विभ्रमपुण्डरीक
विलाससिताम्भोज 'पुण्डरीक सिताम्भोजम्' इत्यमर । एव शेषोऽवशिष्टांशो
यस्य तच्चकार निष्पादितवान् । रूपकालङ्कार ।
भाषा
शत्रु सेना के योद्धाओ के मुख कमलो को चूर २ कर देने की क्रीडा में
यमस्वरूप, विक्रमाङ्कदेव के श्रेष्ठ हाथी ने रणरूपी तालाव को जल्दी से
महालक्ष्मी के हाथ में विद्यमान विलास का श्वेतकमल मात्र ही शेष रह गया
हो, ऐसा कर दिया । अर्थात् लक्ष्मी के हाथ के कमल को छोड़ कर शत्रु के
मुख रूपी सब कमलो को रणरूपी सरोवर में नष्ट कर दिया ।
धृतसुभटकरङ्कमङ्कवर्त्ति-द्विरदघटाविकटास्थिचक्रवालम् ।
रणमनणु कृतान्तभुक्तशेष-प्रणयि बभूव शिवासहस्रभोग्यम् ॥८६॥
अन्वयः
धृतसुभटकरङ्कम् अङ्कवर्तिद्विरदघटाविकटास्थिचक्रवालं कृतान्तभुक्त-
शेषप्रणयि शिवासहस्रभोग्यम् अनणु रण बभूव ।
व्याख्या
धृता गृहीता सुभटाना सुयोधाना करङ्गा अस्थिपञ्जरा येन तत् । अङ्के
क्रोडे बर्त्तीनि गतानि द्विरदाना गजाना विकटानि भयङ्कराण्यस्थिचक्रवाला-
न्यस्थिसमूहा यस्य तत्, कृतान्तस्य यमस्य भुक्त भोजन तस्य शेषस्तस्य प्रणयि
स्थानं शेषयुक्तमित्यर्थ । तद्यमराजभक्षितमावशिष्टयुक्तमिति भाव । शिवानां
शृगालीनां सहस्र तेन भोग्य भोगयोग्य रणं युद्धमनणु बहुत्वं बभूव जातम् ।