विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
by महाकवि बिल्हण / पं. विश्वनाथ शास्त्री
Page 32 of 493
Read in context( ७ )
वचांसि ज्ञानप्रदविशिष्टवाक्यानि लब्धुमिव बृहस्पतितोऽप्यधिकं ज्ञानं प्राप्तुमिव
यस्याः सरस्वत्या मुक्ताक्षसूत्रत्वं मौक्तिकजपमालात्वमुपैति प्राप्नोति, मुक्ताक्ष-
सूत्रव्याजेन सरस्वतीमुपसेवते । सा सरस्वती शारदा वाग्देवता वो युष्मभ्यं
सम्प्रसादा प्रसन्ना अस्तु । बृहस्पतिमात्सर्यहेतुकवचस्सारप्राप्तीच्छाया ग्रहमण्डल्यां
मुक्ताक्षसूत्रत्वारोपे फलत्वेनोत्प्रेक्षणात्फलोत्प्रेक्षेयं-पदवाच्या ।
भाषा
वृहस्पति के अतिरिक्त अन्य ग्रहगण, वृहस्पति ग्रह होते हुए भी वाणी का
पति और देवगुरु है, इस ईर्ष्या से, वृहस्पति से भी अधिक ज्ञान की विशिष्ट
बातें जानने की इच्छा से, जिस सरस्वती की मोतियों की जपमाला में मानो मोती
बन कर उसकी सेवा करते हैं, ऐसी सरस्वती तुम लोगों पर प्रसन्न हो ।
अशेषविघ्नप्रतिषेधदक्षमन्त्राक्षतानामिव दिङ्मुखेषु ।
विक्षेपलीला करशीकराणां करोतु वः प्रीतिमिभाननस्य ॥८॥
अन्वयः
इभाननस्य अशेषविघ्नप्रतिषेधदक्षमन्त्राक्षतानाम् इव करशीकराणां
दिङ्मुखेषु विक्षेपलीला वः प्रीतिं करोतु ।
व्याख्या
इभस्य गजस्याऽऽननं मुखमिवाऽऽननं मुखं यस्य तस्य गणेशस्याऽशेषाश्चते
विघ्नाः प्रत्यूहाः 'विघ्नोऽन्तरायः प्रत्यूहः' इत्यमरः । तेषां प्रतिषेधे निवारणे
दक्षाणां समर्थानां मन्त्राक्षतानामिवान्भिमन्त्रिताक्षतानामिव, करशीकराणां कर-
पूता शुण्डोक्षिप्ताम्बुकणानां 'शीकरोऽम्बुकणाः स्मृताः' । वमथुः करशीकरः ।
इत्यमरः । दिङ्मुखेषु सर्वदिक्षु विक्षेपलीला गजानां स्वाभाविकीयं जलक्रीडा वो
युष्मान् प्रीतिमानन्दं करोतु वितरतु । करशीकरेषु मन्त्राक्षतत्वस्योत्प्रेक्षणाद्-
स्तूत्प्रेक्षा ।
भाषा
हाथी के ऐसे मुखवाले श्री गणेश जी के सम्पूर्ण विघ्नों को दूर करने में
समर्थ अभिमन्त्रित अक्षतों के समान, समग्र दिशाओं में अर्थात् चारों ओर
सूँड से छोड़े हुए जल कण तुम लोगों को आनन्द दें ।