विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
by महाकवि बिल्हण / पं. विश्वनाथ शास्त्री
Page 245 of 493
Read in context( २२३ )
अन्वयः
द्रुमालिषु तद्भीतिविद्रुतानां चोलकान्तानाम् अलकाः अद्यापि कर्पूरति-
लकाङ्किताः दृश्यन्ते ।
व्याख्या
द्रुमाणां वृक्षाणामाल्यः पक्तयस्तासु द्रुमाणामाल्यो येषु वा घनेषु तस्माद्रा-
जकुमाराद्भीतिभयं तया विद्रुतानां पलायितानां, चोलकान्तानां चोलदेशस्थका-
मिनीनामलकाः केशपाशा अद्यापि कर्पूरेण कर्पूरमिश्रितेन तिलकेनाऽङ्किता
शोभिताः दृश्यन्ते इति विरोधः । पक्षे कर्पूरनामकतिलकनामकवृक्षैराङ्किताः
सम्बद्धा इति परिहारः । पतिमरणात्तद्भीतिविद्रुतानां स्त्रीणां अलकाः कर्पूर-
तिलकेनाऽङ्किता दृश्यन्त इति विरोधस्तत्परिहारस्तु कर्पूरतिलकवृक्षेषु व्यासक्ता
अलका इति भावः । अत्र श्लेषानुप्रणितो विरोधाभासालङ्कारः ।
भाषा
उस राजा के भय से वृक्षों के समूह में से या जंगलों में से भागने वाली
चोल देश की नारियों के केश आज भी कपूरमिश्रित तिलक से शोभित दिखाई
देते हैं । विधवा होकर, भागने वाली स्त्रियों के केश में तिलक, इस विरोध के
दूर करने के लिय उन स्त्रियों के कर्पूर और तिलक के वृक्षों से फंसे हुए केश
दिखाई देते हैं ऐसा अर्थ करने से विरोध दूर हो जाता है ।
क्षणाद्विगलितानर्घ्य-पदार्था द्रविडचितेः ।
प्राकारसूत्रशेषाभूत् काञ्ची तद्बाहुकम्पिता ॥२८॥
अन्वयः
तद्बाहुकम्पिता क्षणात् विगलितानर्घ्यपदार्था द्रविडक्षितेः काञ्ची प्राकार-
सूत्रशेषा अभूत् ।
व्याख्या
तस्य विक्रमाङ्कदेवस्य बाहुना भुजेन कम्पिता घर्षिता पक्षे सञ्चालिता
क्षणात् क्षणमात्रादेव विगलिता भ्रष्टा पक्षे पतिता अनर्घ्यपदार्था बहुमूल्यरत्नादि-
पदार्था यस्याः सा द्रविडक्षितेर्द्रविडराजपृथिव्याः काञ्ची तन्नामनगरी पक्षे
रसना प्राकारस्य प्राचीरस्य 'प्राकारो वरणः सालः प्राचीरं प्रान्ततो वतिः'