सामग्री पर जाएँ
सर्वकोश
वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

Venisamhara Nataka of Bhatta Narayana with Commentary

भट्ट नारायण द्वारा

कॉपीराइट समस्या बताएँ

DevanagariHindipublished355 पृष्ठ

पृष्ठ 26, कुल 355 में से

संदर्भ में पढ़ें
पृष्ठ 26
पृष्ठ 26 स्कैन

प्रथमोऽङ्कः ] प्रबोधिनी-प्रकाशद्वयोपेतम् ५
( नान्द्यन्ते )
सूत्रधारः—अलमतिप्रसङ्गेन ।
श्रवणाञ्जलिपुटपेयं विरचितवान्भारताख्यममृतं यः ।
तमहमरागमकृष्णं कृष्णद्वैपायनं वन्दे ॥ ४ ॥
अमरैः, सानन्दम् = सहर्षम्, दृष्टः, धूर्जटिः = हरः, 'धूर्जटिर्नीललोहितः । हरः स्मर-
हरः' इत्यमरः । युष्मान् = सदस्यान्, पातु = रक्षतु । महाभारतसङ्ग्रामोऽपि द्रौप-
द्याप्रेम्णा, असुरप्रकृतिभिर्दुर्योधनस्त्रीमानुमत्यादिभिर्भयोद्वेगाभ्यां, व्यासादिभिः सदयम्,
दैत्यैः घटोत्कचादिभिः सगर्वैः अस्त्रं गृहीत्वा, इन्द्रादिदेवताभिः सहर्ष, कृष्णेन सस्मितेन
दृष्ट इत्यपि अनेन श्लोकेन कथितम् । अत्र शृङ्गारभयानकशान्तयुद्धवीररसानां धूर्ज-
टिविषयकरतावङ्गत्वार्द्रसवदलङ्कारः । तथा सानन्दमित्यत्र हर्षाख्यभावस्य तत्रैवाङ्ग-
त्वात्प्रेयोलङ्कारः । स्रग्धरा छन्दः । म्रभ्नैर्यानां त्रयेण त्रिमुनियुतियुता स्रग्धरा
कीर्तितेयम् ॥ ३ ॥
नान्द्यन्ते = नान्द्या अवसाने ।
सूत्रधारः = स्थापकः न तु नान्दीकर्ता,
नान्दीं प्रयुज्य निष्क्रामेत् सूत्रधारः सहानुगः ।
स्थापकः प्रविशेत्तत्पश्चात् सूत्रधारगुणाकृतिः ॥ इति वचनात् ।
नान्दी तु सूत्रधारेणैव पठनीया, 'सूत्रधारः पठेदेनां मध्यमं स्वरमाश्रितः ॥'
इति भरतवचनात् । अलमतिप्रसङ्गेन—अन्यानि नाट्याङ्गानि अप्रयोजनानि नव-
नाटकदर्शनेच्छया सदस्यानां स्वयमेव कृतावधानत्वात् ।
अन्वयः—यः, श्रवणाञ्जलिपुटपेयम् , भारताख्यम्, अमृतम्, विरचितवान्,
अरागम्, अकृष्णम्, तम्, कृष्णद्वैपायनम्, अहम्, वन्दे ॥ ४ ॥
प्रबन्धस्यास्य महाभारतार्थप्रतिपादकत्वसूचनाय भारतस्य तत्कर्तुर्व्यासस्य च
प्रशंसामाह—श्रवणेति । यः = कृष्णद्वैपायनः, व्यास इत्यर्थः । श्रवणमेवाञ्जलिपुटं तेन
पेयम् श्रवणाञ्जलिपुटपेयम् = कर्णहस्तसम्पुटश्राव्यम् , 'अञ्जलिस्तु पुमान् हस्तसंपुटे'
इति मेदिनी । भारतमाख्या यस्येति भारताख्यम्=महाभारतसंज्ञकम् , अमृतं=
सुधासदृशम्, विरचितवान्=अकरोत् , अरागम्=रजोगुणरहितम्, रागस्य रजो-
( नान्दी पाठ के अनन्तर )
सूत्रधार—बस, बस अधिक विस्तार की कोई आवश्यकता नहीं ।
जिस कृष्ण द्वैपायन [ वेदव्यास ] ने महाभारत नामक अमृत की, जो कानों के छिद्र
रूपी अञ्जलिपुट के द्वारा पीने लायक है, रचना की हैं, राग से परे, अज्ञान से रहित उस
( वेदव्यास ) को प्रणाम है !