Skip to content
SarvaKosh
वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

Veda Swaroop Vimarsha of Swami Karpatri Maharaj

by धर्मसम्राट् स्वामी करपात्री जी महाराज

DevanagariHindipublished237 pages

Page 67 of 237

Read in context
Page 67

Here is the complete, line-by-line transcription of the provided image into pure, clean Devanagari text with the appropriate line markers:

[पृष्ठ ११०]

शखमभिसंबभूवेत्यन्याः प्रजाः' इति श्रुतिः । 'स मनसा वाचं
मिथुनं समभवत्' (बृह० १।२।४) । स्मृतिरपि —
'अनादिनिधना नित्या वागुत्सृष्टा स्वयम्भुवा ।
आदौ वेदमयी दिव्या यतः सर्वाः प्रवृत्तयः ॥'
'नामरूपञ्च भूतानां कर्मणाञ्च प्रवर्तनम् ।
वेदशब्देभ्य एवादौ निर्ममे स महेश्वरः ॥'
'सर्वेषां तु स नामानि कर्माणि च पृथक् पृथक् ।
वेदशब्देभ्य एवादौ पृथक्संस्थाश्च निर्ममे ॥' इति।
अत्रापि शब्दराश्यात्मको वेद एव अनादिनिधना वाग् विवक्षिता ।
अत एव वाचो 'वेदमयी'ति विशेषणं सङ्गच्छते । 'यतः सर्वाः प्रवृत्तय'
इत्यपि शब्दात्मकत्व एव सङ्गतं भवति । वत्सर्गोऽप्यं सम्प्रदायप्रवर्त-
नात्मकः, अनादिनिधनाया अन्यादृशस्योत्सर्गस्यासम्भवात् द्रष्टव्य
इति भगवत्पादाः । 'वेदशब्देभ्य एवादौ निर्ममे स महेश्वरः' इत्यप्युक्त-
मेवार्थं पोषयति । नहि विज्ञानात्मकवेदमहणे तदुपपद्यते । लोकेऽपि
चिकीर्षितमर्थमनुतिष्ठं स्तस्य वाचकं शब्दं पूर्वं स्मृत्वा पश्चात्तदर्थं-
मनुतिष्ठतीति सर्वेषां नः प्रत्यक्षम् । तथैव प्रजापतेरपि सृष्टेः सृष्टेः पूर्वं
मनसि वैदिकाः शब्दाः प्रादुर्बभूवुः । पश्चात्तदनुगतानर्थान् ससर्ज ।
तथा च श्रुतिः — 'स भूरिति व्याहरत् , स भूमिमसृजत' ( तै० ब्रा०
२ । २ । ४ । २) । ततश्च नित्येभ्यः शब्देभ्यो देवादिव्यक्तीनां प्रभव
इत्यविरुद्धम् ।
'अत एव च नित्यत्वम्' (ब्रह्मा० १ । ३ । २६) इत्यत्र स्वतन्त्रस्य
कर्तुरस्मरणादिति स्थिते वेदस्य नित्यत्वे देवादिव्यक्तिप्रभवाभ्युपगमेन
तस्य विरोधमाशङ्क्य 'अतः प्रभवादिति परिहृत्य तदेव वेदनित्यत्वं
द्रढयति । अत एव नियताकृतेर्देवादैर्जगतो वेदशब्दप्रभवत्वात् वेदशब्दे
नित्यत्वमपि प्रत्येष्टव्यमिति भगवत्पादाः । तथा च मन्त्रवर्णः—'यज्ञेन
वाचः पद- वीयमायन् तामन्वविन्दन्नृषिषु प्रविष्टाम्' ( ऋ० सं०
१० । ७१ । ३) इति ।
मन्त्रार्थस्तु—यज्ञेन वाचः वेदलक्षणयाः, पदवीयं मार्गयोग्यत्वां
वेदमहणयोग्यताम्, आयन् आप्नुवन्तः । ततः ऋषिषु प्रविष्टां तां


[पृष्ठ १११]

वाचम्, अन्वविन्दन् अनुब्धघवन्तः । स्थितामेव वाचमनुबिन्नां दर्शय-
तीति शाङ्करभाष्यम् । वेदव्यासश्चैवं स्मरति —
'युग न्तेऽन्तर्हितान् वेदान् सेतिहासान् महर्षयः ।
लेभिरे तपसापूर्वमनुज्ञाताः स्वयम्भुवा ॥'
अनेन विद्यमानानेव वेदान् लेभिरे, न स्वातन्त्र्येण निर्मितवन्तः इति
स्पष्टम् । महाप्रलयेऽपि वासणारूपेण ब्रह्मणि वेदास्तिष्ठन्त्येव ।
यदुक्तम् — "विद्यात्मनः शुद्धस्वभावस्य तद्योगः प्रमाणापेक्ष-
ज्ञानानामविद्यात्वामेव प्रमाणाश्रयत्वादिति । तन्न; निरविद्यस्य
सर्वप्रपञ्चाधिष्ठानतया प्रमाणाधिष्ठानत्वेऽपि प्रमाणवत्स्वरूपतदाश्रयत्वा-
योगात्, नहि कालस्य सर्वाधारत्वेऽपि घटादिवद्रूपवत्त्वम् ।
यद्यपि महाप्रलये अन्तःकरणादयो न समुदाचरद्वृत्तयो भवन्ति,
तथापि स्वकारणे अनिर्वाच्यायामविद्यायां लीनाः सूक्ष्मेण शक्तिरूपेण
कर्मविक्षेपका विद्यावासनाभिः सहावतिष्ठन्ते । तथा चोक्तम्—
'आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् ।
अप्रतर्क्यमविज्ञेयं प्रसुप्तमिव सर्वतः ॥' इति ।
ते चार्वाघि प्राप्य परमेश्वरेच्छाप्रचोदिताः यथा कूर्मदेहे निलीना-
न्यङ्गानि ततो निःसरन्ति, यथा वा वर्षापाये प्राप्तमृद्भावाति मण्डूक-
शरीराणि तद्वासनावासिततया घनाघनासारव सेकसुहितानि पुन-
र्मण्डूकदेहभावमनुभवन्ति तथा, पूर्ववासनावशात् पूर्वसमाननाम-
रूपाण्युत्पद्यन्ते । तेनेश्वरः प्राप्तभूतकर्म्माविद्यासहकारी तदनुरूपमेव
जगत् सृजति । सर्गप्रलयप्रवाहानादितया सर्वभेद उपपद्यते ।
यद्यपि 'मन्त्रकृतो वृणीते', संहिताकारः, पदकारः, सूत्रकारः,
ब्राह्मणकारः, विश्वामित्रस्य सूक्तं भवती'त्यादिप्रामारयाद्वेदस्य पौरुषे-
यत्वशङ्कानिराकरणायैव 'अत एव च नित्यत्वमिति कर्तुरस्मरणेन
सिद्धस्यैव अनुमानेन दृढीकरणम् ।
'प्रजापतिर्यथा वैदिकान्छब्दान् तेषामसाधारणनामरूपकृत्यविशेषान्
अनुसन्धाय तथैव सृजति, ततश्च विश्वामित्रादीनामपि वेदशब्देभ्यः