वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
by धर्मसम्राट् स्वामी करपात्री जी महाराज
Page 66 of 237
Read in contextपृष्ठ १०६
सर्वस्मिंश्च ब्रह्माण्डे मुख्यः प्रजापतिः सूर्यः । तत इमे ऋगादिवेदाः
पुनः पुनः प्रादुर्भवन्ति । अत एव सूर्यप्रभवत्वमुक्तमेषाम् । इमे च
ऋग्गाथा गायत्रीमातृका वेदा इत्युच्यन्ते वैदिकपरिभाषायाम्" इति ।
तदेतत्सर्वमपि अविचारितरमणीयम् ; 'शास्त्रयोनित्वात्', 'शब्द
इति चेन्नान्तः प्रभवात्' 'अत एव च नित्यत्वम्' इत्यादिसूत्रादिविरोधात् ।
तथा हि—शङ्करभगवत्पादैरन्यैश्च भाष्यकारैः शास्त्रयोनित्वादिति शास्त्रस्य
ऋग्वेदादेः परमात्मप्रभवत्वेन परमेश्वरस्य सार्वज्ञ्यसिद्ध्या 'जन्माद्यस्य
यतः' इति जगज्जन्मादिकारणत्वं समर्थितम् । तदुक्तम्—
'महत ऋग्वेदादेः शास्त्रस्यानेकविद्योपबृंहितस्य प्रदीप-
वत्सर्वार्थावद्योतिनः सर्वज्ञकल्पस्य योनिः कारणं ब्रह्म । नही-
दृशस्य सर्वज्ञादन्यतः सम्भवोऽस्ति । ......' यद्यद्विस्तरार्थं शास्त्रं
यस्मात्पुरुषविशेषात् सम्भवति, यथा व्याकरणादि पाणिन्यादे-
र्ज्ञैकदेशार्थमपि ततोऽधिकतरविज्ञान इति प्रसिद्धं लोके ।
किमुत वक्तव्यमनेकशाखाभेदभिन्नस्य सर्वज्ञानाकरस्य
अप्रयत्नेनैव लीलान्यायेन पुरुषनिःश्वासवद्यस्मान्महतो भूता-
द्योनेः सम्भवः, तस्य महतो भूतस्य निरतिशयं सर्वज्ञत्वं सर्व-
शक्तिमत्त्वञ्च" इति ।
न ह्यत्र वाक्प्राणमनसामुत्पत्तिर्वर्णिता, 'जन्माद्यस्य यतः' इत्यनेनैव
तदुक्तत्वात् । न वात्र अवान्तरकारणस्य प्रजापतेः सकाशात् शास्त्रस्य
उत्पत्तिर्विवक्षिता, परमकारणस्यैव प्रक्रान्तत्वात् । 'अस्य महतो भूतस्य'
इत्यत्रापि परमात्मन एव वेदादिकारणत्वमुक्तम् ।
ननु तत्र विज्ञानात्मन एव प्रक्रमः, 'आत्मनस्तु कामाय सर्वं प्रियं
भवती'त्यादिषु पति-जाया-पुत्र-वित्तादिकं हि भोग्यभूतं जगदात्मार्थतयैव
प्रियं भवतीति प्रियसंसूचितस्य भोक्तुरेव उपक्रमात् 'इदं महद्भूत-
मनन्तमपारं विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विन-
श्यति न प्रेत्यसंज्ञास्ति' इति प्रकृतस्यैव विज्ञानभावेन कथनात् 'विज्ञा-
तारमरे केन विजानीयात्' इति कर्तृवचनेन तस्यैवोपसंहाराच्चेति चेन्न ।
पृष्ठ १०७
वाक्यान्वयाधिकरणे बादरायणेन प्रकरणस्यास्य परमात्मप्रकरणत्वाव-
धारणात् 'अमृतत्वस्य तु नाशास्ति' इति याज्ञवल्क्यादुपश्रुत्य 'येनाहं
नामृता स्यां किमहं तेन कुर्याम्' इत्यमृतत्वमाशासानाया मैत्रेय्या
अमृतत्वसाधनोपदेशात् ।
न च परमात्मविज्ञानादन्यत्र अमृतत्वं सम्भवति ; 'तमेव विदित्वाति-
मृत्युमेति नान्यः पन्था विद्यतेऽयनाय' इतिश्रुतेः, 'आत्मनो वा अरे दर्शनेन
श्रवणेन मत्या विज्ञानेनेदं सर्वं विदितम्'ति आत्मविज्ञानेन सर्वविज्ञानं
चोक्तम् । अत्र आत्मशब्देन परमात्मग्रह एवोपपद्यते, सर्वकारणब्रह्म-
विज्ञानेनैव सर्वविज्ञानाय 'तदनन्यत्वमारम्भणशब्दादिभ्यः' ( ब्रह्मसूत्र )
इत्यादिषु प्रतिपादनात् । न चात्र औपचारिकं सर्वविज्ञानं सङ्गतम् ;
'ब्रह्म तं परादाद्योऽन्यत्रात्मनो ब्रह्म वेद' इत्यादौ चात्मनोऽन्यत्र स्वातन्त्र्येण
लब्धसद्भावं ब्रह्माक्षत्रादि जगत् पश्यन्तं तदेव ब्रह्माक्षत्रादिकं पराकरोतीति
भेददृष्टिमपोद्य 'इदं सर्वं यदयमात्मे'ति सर्वस्य वस्तुजातस्य दुन्दुभ्यादि-
दृष्टान्तैरात्माव्यतिरेकप्रतिपादनात् । प्रियसंसूचितस्य द्रष्टव्यत्वसङ्कीर्तनेन
आत्मनि विज्ञाते सर्वमिदं विज्ञातं भवतीत्यस्याः प्रतिज्ञायाः 'सिद्धि-
रित्याश्मरथ्यः, उत्क्रमिष्यत एवं भावादित्यौडुलोभिः, अवस्थितेरिति
काशकृत्स्नः' इत्यादिसूत्रैरयमर्थो भाष्ये विशदः ।
न च परमात्मनः पुराणेतिहासश्लोकसूत्रादीनां कुतो निर्माणसम्भवः,
तेषां तत्तदृषिकर्तृत्वनिश्चयादिति वाच्यम्; पुराणादिपदैः ब्राह्मण-
विशेषाणामेवोत्पत्तेर्भगवत्पादैर्व्याख्यातत्वात् । तथा हि—
'ऋग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस इति चतुर्विधं मन्त्र-
जातम् । इतिहास इति उर्वशीपुरूरवसोः संवादादिः ।
'उर्वशी हाप्सरा' इत्यादिब्राह्मणमेव । पुराणम् 'असद्वा इदमग्र
आसीत्' इत्यादि । विद्या देवजनविद्या सोऽयमित्याद्याः ।
उपनिषदः 'प्रियमित्येतदुपासीते'त्याद्याः । श्लोका ब्राह्मण-
प्रभवा मन्त्राः 'तदेते श्लोका' इत्यादयः । सूत्राणि वस्तुसङ्ग्रह-
वाक्यानि यथा 'आत्मेत्येवोपासीते'त्यादीनि, अनुव्याख्यानानि
मन्त्रविवरणानि । व्याख्यानानि अर्थवादाः•••• •••इत्यष्टविध