Skip to content
SarvaKosh
वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

Veda Swaroop Vimarsha of Swami Karpatri Maharaj

by धर्मसम्राट् स्वामी करपात्री जी महाराज

DevanagariHindipublished237 pages

Page 37 of 237

Read in context
Page 37

भावादेव नाध्यापकादीनां तत्कर्तृत्वम् । अन्यथा रघुवंशादिशलोकोच्चार-
यितॄणामन्येषामपि तत्कर्तृत्वपातात् । तपोयोगात् परमेश्वरानुग्रहविशेषात्
केषाञ्चिदध्ययनाध्यापनादिना मन्त्रतदर्थसाक्षात्कारेण तद्द्रष्टृत्वकर्तृत्वादि-
व्यवहारो भवति । सम्प्रदायप्रवर्तकत्वेन च क्वचित् कर्तृत्वव्ययहारः ।
निर्माणस्वातन्त्र्याभावेन च वस्तुतो न निर्मातृत्वम् । विद्यमानानामेव च
साक्षात्काराद् द्रष्टृत्वमेव पर्यवस्यति ।
अत एवोक्तम् - 'यत्काम ऋषिर्यस्यां देवतायामार्थपत्यमिच्छन् स्तुतिं
प्रयुङ्क्ते तद्देवतः स मन्त्रो भवति' इति । यद्यपि शब्दसामर्थ्यवशेन।ऽपि
दैवतनिर्णयः कर्तुं शक्यते; तथापि क्वचिल्लिङ्गबलात् परिकल्पितामपि
श्रुतिमितिक्रम्य निरपेक्षेतरवरूपश्रुतिबलात् विनियोगान्तरं कल्प्यते । यथा-
'कदा