वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 12, कुल 835 में से
संदर्भ में पढ़ेंप्रस्तावना।
अयि गीर्वाणवाणीविलासासादितहृदयानन्दाः ! इदन्तावन्नाविदित
मस्ति सर्वेषां शासितोपलब्धिवतां यद्व्याकरणस्य पदपदार्थावभा-
सकत्वेन सर्वशास्त्रोपकारकत्वमिति । तत्र सत्स्वपि महर्षिशाकटा-
यनादिप्रणीतेषु व्याकरणान्तरेषु, आम्नायमूलकत्वेन झटित्यज्ञा-
नकान्तारसञ्चारसन्तारकत्वेन च पदवाक्यप्रमाणपारावारपारीणानां
मस्तकालंकारमणिरिवाभासते पाणिनीयमेव, अत एव “काणादं
पाणिनीयञ्च सर्वशास्त्रोपकारकम् ।” इति वैचक्षण्यसमानाधि-
करणमनर्वाचीनं वचनमनूचाना वदन्ति । तदिदमघटितघटना-
पटीयसः सुरकुलमुकुटालंकारमन्दारमकरन्दपंकिलपादारविन्दान्म-
हेशानजानेः शब्दार्णवतरणतरणिमिवोदग्रतपःफलमिव मनोरथ-
निदानमिव चतुर्दशसूत्रात्मकं साम्नायं पटहारावाविस्फुरितं
स्फुलिङ्गमिव दीप्यन्तं समुपलभ्य भगवान् महर्षिदाक्षीपुत्रः तपः
प्रभावविस्फूर्तिशालिन्या प्रतिपत्त्याऽनायासेनाष्टाभिरध्यायैरुपनिब-
बन्ध यदिदानीमपि विद्वत्प्रकाण्डैर्हृदयाधिष्ठितदेवतेव वरिवस्यते ।
अनन्तरं करालकलिकालमाहात्म्यात्सूत्राक्षरैर्भगवदाशयमावि-
ष्कर्तुमसमर्थानामौदास्यमसहमानेन महर्षिणा पतञ्जलिनाऽष्टाभिरे-
वाध्यायैः सूत्रव्याख्या निरमायि, या इदानीमपि भूमण्डले महाभा-
ष्याख्यया विख्यातास्ति । तथा सूत्रव्याख्यानभूतो व्याडिविदुषा
संग्रहोऽपि संगृहीतः । व्याकरणन्यायमिश्रितपदपदार्थावबोधजनकं
वाक्यपदीयमपि भर्तृहरिपादैराविर्भावि। परन्तु तावतापि ग्रन्थनिव-
हेन जनहृदयानन्दमसमीक्षमाणाभ्यां करुणासागरविहितस्नानाभ्यां