Skip to content
SarvaKosh
उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)

उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)

Uttararamacharitam of Bhavabhuti with Hindi Commentary

by महाकवि भवभूति / पं. रामचन्द्र मिश्र

DevanagariSanskritpublished439 pages

Page 43 of 439

Read in context
Page 43

२४ उत्तररामचरितं [ १-३४
आ विवाहसमयाद्गृहे वने शैशवे तदनु यौवने पुनः ।
स्वापहेतुरनुपाधितोऽनया रामबाहुरुपधानमेष ते ॥ ३७ ॥
सीता-( निद्रां नाटयन्ती । ) अत्थि एदम् । अय्यउत्त अत्थि एदं ।
( इति स्वपिति । ) अस्त्येतदार्यपुत्र अस्यैतत् ।
रामः-कथं प्रियवचना मे वक्षसि प्रसुप्तैव । ( निर्वर्ण्य )
इयं गेहे लक्ष्मीरियममृतवर्तिर्नयनयो-
रसावस्याः स्पर्शो वपुषि बहलश्चन्दनरसः ।
अयं बाहुः कण्ठे शिशिरमसृणो मौक्तिकसरः
किमस्या न प्रेयो यदि' परमसह्यस्तु विरहः ॥ ३८ ॥
प्रविश्य । प्रतीहारी-देव उवड्ठिदो । देव उपस्थितः ।
रामः-अपि क. ।
प्रतीहारी-आसण्णपरिआरओ देवस्स दुम्मुहो । आसन्नपरिचारको
देवस्य दुर्मुखः ।
रामः-( स्वगतम् ) शुद्धान्तचारी दुर्मुखः । स मया पौरजानपदेष्वप-
सर्पः प्रहितः । ( प्रकाशम् ) आगच्छतु ।
( प्रतीहारी निष्क्रान्ता । )
प्रविश्य । दुर्मुखः-( स्वगतम् ) हा कहं दाणिं देविं अन्तरेण ईदिसं
अचिन्तणिज्जं जणाववादं देव्वस्स कहइस्सं । अथवा णिओओ क्खु मे एरिसो
वक्तव्ये 'लखरिअ' इति प्रमादः ॥ म्लानस्य जीवकुसुमस्येति ॥ ३६ ॥
जीवः समुद्धारणम् । विकासनानि विकासकराणि । इति यथोचितमूह्यम् ।
पद्येऽस्मिन् ममेत्यध्याहारः ॥ ३६ ॥ प्रियंवद एहि सविशाव । अपिः समा-
वनायाम् ॥ आ विवाहसमयादिति ॥ ३७ ॥ वने दण्डकावने । अस्यान्त-
तोऽन्वयः ॥ ३७ ॥ आर्यपुत्र एतदस्ति । निर्वर्ण्य दृष्ट्वा ॥ इयं गेहे ल-
क्ष्मीरिति ॥ ३८ ॥ अमृतरूपा अञ्जनवर्तिरिव भावः । मसृणः स्निग्धः ।
अस्याः किं न प्रेयः सर्वं प्रेय इत्यर्थः । तु किन्तु । विरहो यदि विरह-
श्वेत् परं अत्यन्तम् । असह्यः ॥ ३८ ॥ देव उपस्थितः । विरह इति च
पूर्वेणान्वयः । आसन्नपरिचारको देवस्य दुर्मुखः । शुद्धान्तं अन्तःपुरम् ।
अपसर्पः चरश्मन् ॥ हा कथमिदानीं सीतादेवीमन्तरेणैदृशमचिन्तनीयं ज-
नापवादं देवाय कथयिष्यामि । अथवा नियोगः खलु मे मन्दभाग्यस्यैषः ।
हा आर्यपुत्र क्वासि । सौजन्यं चिन्तनेति यावत् ॥ सौजन्यं वर्णयति ॥
१ 'यदि पुनरसह्यो न' इति क-थे. २ 'जानपदानपसर्पितुं' ग-क-घ.