Skip to content
SarvaKosh
उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)

उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)

Uttararamacharitam of Bhavabhuti with Hindi Commentary

by महाकवि भवभूति / पं. रामचन्द्र मिश्र

DevanagariSanskritpublished439 pages

Page 36 of 439

Read in context
Page 36

१-२७ ] उत्तररामचरितं १७
रामः—एतानि तानि गिरिनिर्झरिणीतटेषु
वैखानसाश्रिततरूणि तपोवनानि ।
येष्वातिथेयपरमा यमिनो भजन्ते
नीवारमुष्टिपचना गृहिणो गृहाणि ॥ २५ ॥
लक्ष्मणः—अयमविरलानोकहनिबद्दनिरन्तरस्निग्धनीलपरिसरारण्यपरि-
गद्धगोदावरीमुखरकन्दरः सततनिरिष्यन्दमानमेघमेदुरितनीलिमा जनस्था-
नमध्यगो गिरिः प्रस्रवणो नाम ।
रामः—स्मरसि सुतनु तस्मिन्पर्वते लक्ष्मणेन
प्रतिविहितसपर्यासुस्थयोस्तान्यहानि ।
स्मरसि सरसनीरां तत्र गोदावरीं वा
स्मरसि च तदुपान्तेष्वावयोर्वर्तनानि ॥ २६ ॥
किं च । किमपि किमपि मन्दं मन्दमातर्कयोगा-
दविरलितकपोलं जल्पतोरक्रमेण ।
अशिथिलपरिरम्भव्यापृतैकैकदोषो-
र्नविदितगतयामा रात्रिरेव व्यरंसीत् ॥ २७ ॥
लक्ष्मणः—एषा पञ्चवट्यां शूर्पणखा ।
स्तन्तेऽथ' इत्यनुशासनात् 'तालव्योऽन्ते'ति कथनस्यैव न्याय्यत्वात् । 'भ-
विहि' इति 'द्विवचने बहुवचनं' इति बहुत्वं 'भक्तिाहिं' इति च प्रमादः।
'अस्यादिषु छः' इति छलविधानात् 'अच्छिद्दं' इति साधीयान् पाठः ॥
एतानि तानीति ॥ २५ ॥ निर्झरिणीनां गिरिनदीनाम् । येषु तपो-
वनेषु ॥ 'कव्यादिव्यानिधेयातिथ्यर्थेऽत्र साधुनि ।' इत्यमरः । यमिनः
नियमवन्तः । गृहिणः गृहस्थाः ॥ २५ ॥ अनोकहनिबहाः वृक्षसङ्घाः । तैः
निरन्तरं सान्द्रं यथा तथा, स्निग्धनीलानि मसृणानि श्यामलानि च तानि
परिसरारण्यानि तैः परिसरारण्यतया सान्द्रायां गोदावर्या मुखराः
यस्य पूर्वार्धमुपलक्षणम् चित्रे मुखरकन्दरत्वोपचारः इति बोध्यम् । अनि-
ष्यन्दमानाः प्रस्रवन्तः ये मेघाः तैर्मेदुरितः निबिडीकृतः नीलिमा
नील्यं यस्य ॥ स्मरसि सुतन्विति ॥ २६ ॥ लक्ष्मणेन प्रतिविहितेत्या-
दिकं 'रतेर्गृहीतानु नयेन' इतिवत्समाधेयम् । वर्तितानि वर्तनानीत्यर्थः ।
द्वितीयपादादौ यमकमङ्गः । स्मरसीति त्रिः पुनरुक्तं च ॥ २६ ॥ किमपि
किमपीति ॥ २७ ॥ किमपि अनिर्वाच्यं यथा तथा, किमपि किंचित् ।
१ 'शनिनो' इति घ-घ-क. २ 'मुखरन्दर.' इति न. ३ 'सरसदीराम्'
इति घ-घ. ४ 'स्मरसि' इति घ-घ. ५ 'लक्ष्मः...शूर्पणखाविवादः' इति ग.