सामग्री पर जाएँ
सर्वकोश
उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)

उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)

Uttararamacharitam of Bhavabhuti with Hindi Commentary

महाकवि भवभूति / पं. रामचन्द्र मिश्र द्वारा

DevanagariSanskritpublished439 पृष्ठ

पृष्ठ 156, कुल 439 में से

संदर्भ में पढ़ें
पृष्ठ 156

जनेनाप्यनुकम्पितोऽस्मि । भवतु तावदन्तरयामि । ( प्रकाशम् ।) वत्सौ
रामायणं रामायणमिति श्रूयते भगवतो वाल्मीकेः सरस्वतीनिष्यन्दः प्रश-
स्तिरादित्यवंशस्य । तत्र कौतूहलेन यत्किञ्चिच्छ्रोतुमिच्छामि ।
कुशः—स इत्थ एव सन्दर्भोंऽस्माभिरादृतः । स्मृतिप्रत्युपस्थितौ
तावदिमौ बालचरितस्यान्त्येऽध्याये द्वौ श्लोकौ ।
रामः—उदीरयतं वत्सौ ।
कुशः—
प्रकृत्यैव प्रिया सीता रामस्यासीन्महात्मनः ।
प्रियभावः स तु तया स्वगुणैरेव वर्धितः ॥ ३१ ॥
तथैव रामः सीतायाः प्राणेभ्योऽपि प्रियोऽभवत् ।
हृदयं त्वेव जानाति प्रीतियोगं परस्परम् ॥ ३२ ॥
रामः—कष्टमनिदारुण्यं हृदयमर्मोद्घातः । हा देवि एवं किल तदा-
सीत् । अहो निरन्वयविपर्यासविरसवृत्तयो विप्रलम्भपर्यवसायिनस्तापयन्ति
संप्रसादवृत्तान्ताः ।


सभ्रमः यस्य । शिशुजनेनाप्यनुकम्पितोऽस्मि । इतेनेनश्च कैमुतिकन्याय-
भावः । अन्तरयामि छादयामि इत्यर्थः । निष्यन्दः गलनम् । प्रशस्तिः
प्रशंसा । स्मृतिप्रत्युपस्थितौ स्मृतौ इति यावत् । बालेति बाल-
काण्डचरित्रस्य । अन्त्ये चरमे । 'अध्यायस्सर्ग' इति केदार । वत्सा-
विति द्विवचनसंबोधनम् ॥ प्रिया तु सीतेति ॥ ३१ ॥ गुणे दयादाक्षि-
ण्यादिनि । रूपाणा सौन्दर्याणा गणैः राशिभिश्च । एवकारश्चकारार्थः ।
अनेकार्थ्याच्छब्दानां यथाप्रकरणं बुधैर्ज्ञेयोऽर्थ इति दण्डिवचते । प्रीतिः
सन्तोषः । व्यवर्धत तस्यानिति शेषः ॥ ३१ ॥ तथैव राम इति ॥ ३२ ॥
रामस्य सीता यथा तथैवेत्यर्थः । हृदयमित्येकवचनमहिम्ना उभयोर्हृदय-
मेकमेव, वपुषी परं द्वे इति भावः । परस्परं प्रीतियोगं तु हृदयमेव
जानातीत्यन्वयः ॥ ३२ ॥ मर्मतः पूर्वानुभूतावस्था । 'उद्घात आरम्भः'
इत्यमरः । एवं श्रोत्रद्वयानुस्यूतेत्यर्थः । निर्गतश्च वन्यस्य विपर्यासः
वैपरीत्यं यस्मात् । तादृश् वृत्तं चरितं यस्मिन् सा पाप्मी विप्रलम्भस्तद्वत्तारः
तस्य स्मृतिः स्मरणं । तत्पर्यवसायिनः स्मरणपर्यवमानवन्त तावकाः
त्वदीया । संप्रसादस्य सम्यक् प्रसन्नतायाः । वृत्तान्ताः उद्गता इत्यर्थ ।
वंशोदितचरित्रश्रृङ्गारस्मरणपर्यवसायिनी जाता तव प्रसादवर्तिरिति भावः ।
—'विपर्यासो वैपरीत्ये' इति, 'अन्वयो वंशे' इति, 'वृतं चरिते' इति च, 'वि-


१ 'विपर्यासविरसप्रवृत्तस्मृतिपर्यवसायिनस्तावकाः संप्रसादवृत्तान्ताः' न.