सुश्रुत संहिता
Sushruta Samhita
by महर्षि सुश्रुत (व्याख्याकार: अत्रिदेव गुप्त)
Source: मोतीलाल बनारसीदास - अत्रिदेव गुप्त कृत हिन्दी व्याख्या · मोतीलाल बनारसीदास, वाराणसी (origin)
Page 151 of 872
Read in contextअ० २६ ]
सूत्रस्थानम्
१०३
तत्र शल्यं विजानीयात्, स्यात्तद्यतमुच्छ्वन्दनकलैर्वा प्रदि-
ग्धयां शल्योऽभ्युत्पन्नः। विसरति घृतमुपशुष्यति चालेपो
यत्र तत्र शल्यं विजानीयात्, मांसप्रनष्टे स्नेहस्वेदादिभिः
क्रियाविशेषैरविरुद्धैरातुरमुपपादयेत्, कशितस्य तु शिथि-
लीभूतमनवबद्धं लुभ्यमानं यत्र संरम्भं वेदनां च जनयति
तत्र शल्यं विजानीयात्, कोष्ठास्थिसन्धिपेक्षीविवरेष्वव-
स्थितमेवमेव परीक्षेत्, सिराधमनीक्षोतःस्तानुप्रनष्टे
खण्डचक्रसंयुते याने व्याधितमारोप्याशु विषमेऽध्वनि
यायात्, यत्र संरम्भो वेदना वा भवति तत्र शल्यं विजानी-
यात्, अस्थिप्रनष्टे स्नेहस्वेदोपपन्तान्यस्थीनि बन्धनपीड-
नाभ्यां श्रुतमुपाचरेत्, यत्र संरम्भो वेदना वा भवति तत्र
शल्यं विजानीयात्, सन्धिप्रनष्टे स्नेहस्वेदोपपन्तान् सन्धीन्
प्रसरणाकुञ्चनबन्धनपीडनैर्भृशमुपाचरेत्, यत्र संरम्भो
वेदना वा भवति तत्र शल्यं विजानीयात्, मर्मप्रनष्टे
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in