सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
by पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य)
Source: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (origin)
About this granth
Subhashita Ratna Bhandagara (सुभाषितरत्नभाण्डागार, 'Treasury of Gem-like Sayings') is a large anthology of Sanskrit subhashitas, the short, polished verses quoted for their wit and wisdom. It was compiled by Pandit Kashinath Sharma (Kashinath Pandurang Parab) and published by the Nirnaya Sagar Press, Bombay; the English title page describes it as a collection of more than ten thousand verses gathered from poems, plays, works on statecraft and stray stanzas.
The book opens with a subject index giving the page and verse numbers for each topic. The first section, of invocations, has verses on Parabrahman, Ganesha, Sarasvati, Shiva, the Ganga, Vishnu, Lakshmi, the ten avatars, Krishna, Radha and others, and later sections take up conduct, kingship, allegory, love and nature.
At about 516 pages, it remains a standard place to look for a fitting Sanskrit verse on a given theme.
| समग्रस्त्रीस्वरूपवर्णनम्, परस्परदर्शनम्, नायकदर्शनम्, नायिकादर्शनम् | २७३ |

| जडिता दृष्टिर्मृगीणामिव प्रम्लानाऽरुणिमेव विद्रुमदल श्यामेव
हेमप्रभा । कार्कश्यं कलयो च कोकिलवधूकण्ठेष्विव प्रस्तुत
सुन्दर्याः पुरतश्च हन्त शिखिना बर्हाः सगर्हा इव ॥ ७७ ॥

### परस्परदर्शनम्
स्मरतोरभिलाषकल्पितान्बहुशः स्वप्नभुवः समागमान् ।
अपि दृष्टिपथं प्रपन्नयोर्निविविश्वास चिर मनस्तयोः ॥ १ ॥
आघ्रातं कमल प्रियेण सुदृशा स्वित्वापनीतं सुखं दत्तं
विश्रमकन्दुके नखपदं सीत्कृत्य गूढौ स्तनौ । दत्ता चम्पक-
मालिकोरसि भुजानिर्भिद्यरोमाञ्चया मीललोचनया स्थितं
प्रणयिनोर्दूरेऽपि पूर्णो रसः ॥ २ ॥

### नायकदर्शनम्
न जाने समुखायाते प्रियाणि वदति प्रिये । सर्वाण्य-
ङ्गानि कि यान्ति नेत्रतामुत कर्णताम् ॥ १ ॥ या या प्रिय.
प्रैक्षत कातराक्षी सा सा हिया नम्रमुखी बभूव । निःशङ्क-
मन्याः |
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in| २७४ | सुभाषितरत्नभाण्डागारम् | [ ६ प्रकरणम् |

[वामभागः]
सुषमामण्डले दूरमभ्रम् । रक्तादर्शप्रतिफलमिव श्रीसदङ्गं वहन्ती दृष्टा काचित्तरलनयना देवतेव स्मरस्य ॥ २० ॥ नेयं विद्युद्भवमधिगता काञ्चनी नापि वल्ली मन्दं मन्दं प्रचलति यतो नापि वा पन्नगस्य । चूडारत्नस्फुरदुरुशिखा कापि धत्ते सरोजं का वा तर्हि प्रकृतिसुभगा तत्सखे न प्रतीमः ॥ २१ ॥ वक्त्रोपान्तं नयनयुगलं सर्वतो निक्षिपन्ती श्रोणीभाराच्छिथिलशिथिलन्यस्तपादारविन्दा । आरादालीकरकिसलये दत्तहस्तावलम्बा काचित्कान्त्या विकसितमहीचक्रमय्याति तन्वी ॥ २२ ॥ इय भुजंगिनीश्रिता लसदनेकपुष्पान्विता द्विरेफततिसेविता प्रमदवञ्जनालंकृता । फलद्वयभरानता विलसिता नवै पल्लवैर्र्विलोचनपथं गता भवति कापि हैमी लता ॥ २३ ॥ पातालाद्भवनावलोकनपरा किं नागकन्योत्थिता मिथ्या तत्खलु दृष्टमेव हि मया तस्मिन्कुतोऽस्तीदृशी । मूर्ता स्यादिह कौमुदी न घटते तस्या दिवा दर्शनं केयं हस्ततलस्थितेन
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inवियोगिनोऽवस्थावर्णनम्, वियोगिन्या अवस्थावर्णनम् २७५
| यते माल्यं सूचिकुलायते मलयजालेपः स्फुलिङ्गायते ।
रात्रिः कल्पशतायते विधिवशात्प्राणोऽपि भारायते हा हन्त
प्रमदावियोगसमयः सहारकालायते ॥ ८ ॥ माकन्दाक्षिप
मा मरन्दनिकरं मूको भव त्वं शुक स्फार कोकिल कोमलं
कलरवं भ्रातः क्षणं संहर । सौगन्ध्यं वह गन्धवाह न
मनाक्सर्वैः क्षणं क्षम्यता जानीध्व तरुणास्य तस्य यदयं
कालः कराळो महान् ॥ ९ ॥

वियोगिन्या अवस्थावर्णनम्

दह्यमानेऽपि हृदये मृगाक्ष्या मन्मथाग्निना । स्नेहस्तथैव
यत्तस्थौ तदाश्चर्यमिवाभवत् ॥ १ ॥ जीवेन तुलितं प्रेम
सखि मूढेन वेधसा । लघुर्जीवो ययौ कण्ठं गुरुप्रेम हृदि
स्थितम् ॥ २ ॥ कपोलफलकावस्याः कष्टं भूत्वा तथाविधौ ।
अपश्यन्ताविवान्योन्यमीक्षां क्षामतां गतौ ॥ ३ ॥ वल्लभो-
त्सङ्गसङ्गेन विना हरिणचक्षुषः । राकाविभावरीजानिर्विष-
ज्वालाकुलोऽभवत् ॥ ४॥ अस्तमितविषयसङ्गा |
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in२७६ सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्
श्रेणीर्भिन्वन्नुपनीतं सफलता गतिस्पर्धावैरे मृदुकलरवै-
रम्बुजदृग् । यदेतान्दृष्ट्वैत्या प्रियविरहवत्याः कृशतनो-
रगादस्याः स्तम्भाद्दहह गतिसंभावनमपि ॥ ३० ॥ अ-
गारेऽस्मिन्कान्ते गिरिशमनिशानाथसकलं भुजगानुत्तुङ्गा-
न्सकलमपि वातायनपथे । निकुञ्जेषु श्येनानविगृहशिरो-
गङ्गुवलयं लिखन्त्या नीयन्ते शिव शिव तया हन्त दिवसाः
॥ ३१ ॥ स्तनन्यस्तोशीरं प्रशिथिलमृणालैकवलयं प्रियायाः
साबाधं तदपि कमनीयं वपुरिदम् । समस्तापः कामं
मनसिजनिदाघप्रसरयोर्न तु ग्रीष्मस्यैव सुभगमपराद्धं युव-
तिषु ॥ ३२ ॥ कपोले पाण्डुत्वं किमपि जलधारा नयन-
योस्तनौ कार्श्यं दैन्यं वचसि हृदि दावानलशिखाम् ।
अवज्ञां प्राणेषु प्रकृतिषु विपर्यासमधुना किमन्यद्वैराग्यं सकल-
विषयेष्वाकलयते ॥ ३३ ॥ निकामं क्षामाङ्गी सरसकदली-
गर्भसुभगा कल्येशा मूर्तिः शशिन इव नेत्रोत्सवकरी ।
अवस्थामापन्ना मदनदहनोदाहविधुरारियं न. कल्याणी
रमयति मन. कम्पयति च ॥ ३४ ॥ घनोऽयं
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inवियोगिन्या अवस्थावर्णनम्, वियोगिनो विप्रलापाः २७७
वहं हन्ताक्षीवरदृशः किमन्यदलकामोदोऽपि भारायते ॥ ५४ ॥ अङ्गासङ्गिमृणालकाण्डमयते भृङ्गावलीना रुचिं नासामौक्तिकमिन्द्रनीलसरणि श्वासानिलाद्गाहते । क्षिप्ता सा हिमवालुकापि कुचयोर्धत्ते क्षण दीर्पता तप्ताय पतिताम्बुवत्करतले धागम्बु सलीयते ॥ ५५ ॥ कैने कोमलमालिकामपि चिर या बिभ्रती खिद्यते या गात्रेषु घनं विलेपनमपि न्यस्त न वोढु क्षमा । दीपस्यापि शिखा न चापि भवने स्वेभेऽपि या वीक्षितु तार्प सा विरहानलस्य महत. सोढु कथ शक्यते ॥ ५६ ॥ उडूयेत तनूलतेति बिसिनीपश्रेण नो वीज्यते स्फोट स्यादिति नाङ्गक मलयजक्षोदाम्भसा सिच्यते । स्यादस्यातिमरात्परावर भव इति त्रासान्न वा पल्लवारोपो वक्षसि तत्कथ वरतनोरावि समाधीयताम् ॥ ५७ ॥ नि श्वासानलविद्रदन्तवसना नेत्राम्बुसिक्तस्तनी हस्तन्यस्तकपोलदीनवदना हारैकभूषावती । बिभ्राणासपदेन तुङ्गजघना
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in२७८ सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्
विरहो न संगमस्तस्याः । सङ्गे सैव तथैका त्रिभुवनमपि तन्मयं विरहे ॥ १९ ॥
अनिशमपि मकरकेतुर्मनसो रुजमावहन्नभिमतो मे । यदि मदिरायतनयना तामधिकृत्य प्रहरतीति ॥ २० ॥
दैवादहमत्र तया चपलायतनेत्रया वियुक्तश्च । अविरलविलोलजलदः कालः समुपागतश्चायम् ॥ २१ ॥
स्मेरं विधाय नयनं विकसितमिव नीलमुत्पलं मयि सा । कथयामास कृशाङ्गी मनोगतं निखिलमाकूतम् ॥ २२ ॥
आनन्दममन्दमिमं कुवलयदललोचने ददासि त्वम् । विरहस्त्वयैव जनितस्तापयतितरां शरीरं मे ॥ २३ ॥
तस्या सुतनुसरस्या चेतो नयनं च निष्पतितम् । चेतो गुरु तु निमग्नं लघु नयनं सर्वतो भ्रमति ॥ २४ ॥
निष्कासयन्त्यनेके सागरसरिदम्बुपूरपरिपतितम् । हृदयह्रदे निमग्नामिन्दुमुखीं मा बहिः कुरुताम् ॥ २५ ॥
दर्शनपथमुपयाता यदवधि मदिरायतेक्षणा सहसा । तदवधि हृदयेनाहं मदनेषुभयादिवोन्मुक्तः ॥ २६ ॥
अपसरति न चक्षुषो मृगाक्षी रजनिरियं च न
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inवियोगिनो विप्रलापाः २७९
मृगशावकाक्षीं पार्श्वे स्थिता च पुरतः परिवर्तमानाम् ।
पश्चात्तथा दशदिशासु परिस्फुरन्तीं पश्यामि तन्मयमहो
भुवनं किमेतत् ॥ ५२ ॥ अद्यापि तिष्ठति दृगोरिदमुत्तरीयं
धर्तुं पुरः स्तनतटात्पतितं प्रवृत्ता । वाचं निशम्य नयनं
नयनं ममेति किंचित्तदा यदकरोत्स्मितमायताक्षी ॥ ५३ ॥
राकासुधाकरमुखी तरलायताक्षी संखेरयौवनतरङ्गितविभ्र-
मास्या । तत्किं करोमि कथमत्र तनोमि मैत्रीं तत्स्वीकृति-
व्यतिकरे क इहाभ्युपायः ॥ ५४ ॥ यान्त्याः सरः सलिल-
केलिकुतूहलाय व्याजादुपैत्य मयि वर्त्मनि वर्तमाने ।
अन्तःस्थितद्युतिमत्कृतिकुद्वक्त्ररङ्गैरीकृतं किमपि वामदृशः
स्मरामि ॥ ५५ ॥ मन्दादरः कुसुमपत्रिषु पेलवेषु नूनं
बिभर्ति मदनः पवनास्त्रमद्य । हारप्रकाण्डसरलाः कथमम्य-
थामी श्वासाः प्रनर्तितदुकूलदशाः सरन्ति ॥ ५६ ॥ पीतो यतः-
प्रभृति कामपिपासितेन तस्या मयाधररसः प्रचुरः प्रियायाः ।
तृष्णा ततः प्रभृति मे द्विगुणत्वमेति लावण्यमस्ति बहु तत्र
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in| २८० | सुभाषितरत्नभाण्डागारम् | [ ६ प्रकरणम् |

जननयनसजीवनसुधा प्रिया सा सा सेत्यजनि हृदयं तन्मयमहो ॥ ७६ ॥ कटाक्षेणापीषद्वक्षणमपि निरीक्षेत यदि सा तदानन्द. सान्द्रः स्फुरति निहताशेषविषय. । सरोमाञ्चोद्गच्छत्कुचकलशनिर्भिन्नावसन. परीरम्भारम्भः क इव भविताम्भोरुहदृश. ॥ ७७ ॥ पुरस्ताद्गच्छन्ती सह सहचरीभिः प्रियतमा ममालापं श्रुत्वा सचकितपरावृत्तवदना । किमग्रे व्यासङ्गादहमहह यामीति विनयप्रणालीमालीना यदकृत तदन्तर्व्यथयति ॥ ७८ ॥ समुत्तीर्णे तन्व्या निशितनयनान्तेन मृदिते स्तनद्वन्द्वस्यन्दैः सितलवसुधाम्भि. मृतमति । मदन्तःकेदारं मदनकृषिकारेण जनिता चिरादाशावल्ली किमिति न फलं हन्त लभते ॥ ७९ ॥ विलीयेन्दुः साक्षादमृतरसवापी यदि भवेत्कलङ्कस्तत्रत्यो यदि च विकचेन्दीवरवनम् । तत. स्नानक्रीडाजनितजडभावैरवयवै. कदाचिन्सुख्येयं मदनशिखिपीडाव्यतिकरम् ॥ ८० ॥ परागैः कर्पूरैस्तुहिनसलिलैश्चान्दनरसैः सुधाम्भिज्र्योत्स्नाभिः स्नपितमिव य
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inवियोगिनो विप्रलापाः २८१
॥ ९९ ॥ किं तिष्ठामि किमु व्रजामि किमहमं जागर्मि
निद्रामि किं किं जानामि किमु भ्रमामि किमु वा सुख्यीम्य-
दुःख्यामि वा। किं नास्म्यस्मि किमित्यनल्पकलिते न क्वापि
पक्षे स्थित. प्राप्यानिवर्चनीयमेव कमपि क्रूर विकारं सखे
॥ १०० ॥ आसीनः शयितः स्थित. प्रचलितः क्षमायितो
जागृतः पश्यन्मीलितलोचनो व्यवहरन्मौनं प्रपन्नोऽथवा ।
तां प्रेमाकुलवीक्षितां सितमुखीं सब्रीडमन्दागमां श्लिष्यन्तीं
प्रणयार्दमुग्धलपितां पश्यामि नक्तंदिवम् ॥ १०१ ॥ नीले-
न्दीवरशङ्कया नयनयोर्बन्धूकबुद्ध्याधरे पाणौ पद्मधिया मधू-
ककुसुमभ्रान्त्या तथा गण्डयो । लीयन्ते कबरीषु बान्धव-
जनव्यामोहजातस्पृहा दुर्वारा मधुप्रा. कियन्ति तरुण
स्थानानि रक्षिष्यसि ॥ १०२ ॥ सा मे यद्यपि सुन्दरी भग-
वतो मामेव चेतोसुवो न स्वप्ने न च जागरे नयनयो. पन्थान-
मासादिता । तामाकर्ण्य तथापि तादृशदशावैधुर्यमासेदुषी-
मानन्दाद्भुतशोककौतुकभयव्रीडाकुलं मे मन ॥ १०३ ॥ मा
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in२८२ सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्
भूयः क्षिपन्ती मयि सितशबले लोचने लोलेतारे १। वक्रं ह्रीनेम्रीभवत् २ स्फुरदधरपुटं वाक्यगर्भं दधाना यन्मा नोवाच किञ्चित्स्थितमपि पुरतो मानसं तद्धुनोति ३ ॥ १२१ ॥ चक्षुःप्रीत्या निषण्णे मनसि परिचयाच्चिन्त्यमानेऽभ्युपाये याते रागे विवृद्धिं प्रविसरति गिरा विस्तरे दूतिकायाः । आस्तां दूरे स तावत्सरमसदथितालिङ्गनानन्दलाभस्तद्गेहोपान्तरथ्याभ्रमणमपि परा निर्वृतिं सन्तनोति ॥ १२२ ॥
मदनं प्रत्युक्तयः
स्वयमप्राप्तदुःखो यः स दुनोति न विस्मयः । त्वं स्मर प्राप्तदाहोऽपि दहसीति किमुच्यते ॥ १२३ ॥ भवनेत्रभवो वह्निग्द्यापि त्वयि मन्मथ । ज्वलतीवान्यथा किं ते विशिखास्तत्कणा इव ॥ १२४ ॥ अद्यापि नूनं हरकोपवह्निस्त्वयि ज्वलत्येर्व ४ इवाम्बुराशौ ५ । त्वमन्यथा मन्मथ मद्विधानां भस्मावशेषः कथमेवमुष्णः ॥ १२५ ॥ वृथैव सकल्पशतैरजस्रमनङ्ग नीतोऽसि मयातिवृद्धिम् । आकृष्य चापं श्रवणोपकण्ठे मय्येव युक्तस्तव बाणमोक्षः
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inवियोगिनो विप्रलापाः, वियोगिन्या विप्रलापाः २८३
सोदरौ सौहार्दं कुमुदाकरेषु किरणाः पीयूषधाराकिरः। स्पर्धा
ते वदनाम्बुजैर्मृगदृशां . तत्स्थाणुचूडामणे हंहो चन्द्र कथं नु
सिञ्चसि मयि ज्वालामुचो रोचिषः ॥ १४८ ॥
पवनं प्रत्युक्तयः
उन्मीलन्मुकुलकरालकुन्दकोशप्रच्योतद्धनमकरन्दगन्ध-
बन्धो । तामीषत्चलविलोचनां नताङ्गीमालिङ्ग्य पवन मम
स्पृशाङ्गमङ्गम् ॥ १४९ ॥ व्याधूय यद्वसनमम्बुजलोचनाया
वक्षोजयोः कनककुम्भविलासभाजोः । आलिङ्गसि प्रसभ-
मङ्गमशेषमस्या धन्यस्त्वमेव मलयाचलगन्धवाह ॥ १५० ॥
मेघं प्रत्युक्तयः
भो मेघ गम्भीरतरं नद त्वं तव प्रसादात्स्मरपीडितं मे ।
संस्पर्शरोमाञ्चितजातरागं कदम्बपुष्पत्वमुपैति गात्रम् ॥१५१॥
भ्रमय जलदानम्भोगर्भान्प्रमोहय चातकान्कलय शिखिनः
केकोत्कण्ठान्कठोरय केतकान् । विरहिणि जने मूर्च्छां लब्ध्वा
विनोदयति व्यथामकरुण पुनः
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in२८४ सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्
| वाम-भागः | दक्षिण-भागः |

| आलोकये कथं सख्यस्तस्य चन्द्रमसो मुखम् ॥ ४ ॥
विर॑मत विरमत सख्यो नलिनीदलतालवृन्तपवनेन । हृदयगतोऽयं वह्निर्नटिति कदाचिज्ज्वलत्येव ॥ ५ ॥
अनलस्तम्भनविद्या सुभग भवाञ्च्छितमेव जानाति । मन्मथशराग्नितप्ते हृदि मे कथमन्वथा वससि ॥ ६ ॥
अजनि प्रतिदिनमेषा कर्दमशेषा मदङ्गसङ्गेन । प्रतिनिशमपूरि पम्पा दक्षिणसपातिभि. सलिलैः ॥ ७ ॥
मदकलकृतान्तकासरखुरपुटनिधू॑तधूलिसकाशम् । केतकरजो निवार्य सखि यदि कार्ये मम प्राणैः ॥ ८ ॥
आलि बालिशतया बलिरस्मै दीयता बलिभुजे न कदापि । केवलं हि कलकण्ठशिशूनामेष एव कुशलेषु निदानम् ॥ ९ ॥
गरलद्रुमकन्दमिन्दुबिम्बं करुणावारिजवारणो वसन्त. । रजनी खरभूपतेः कृपाणी करणीयं किमत. परं विधातः ॥ १० ॥
हन्तालि संतापन्निवृत्तयेऽस्या किं तालवृन्तं तरलीकरोषि । उत्ताप एषोऽन्तरदाहहेतुर्नतन्वो नँ व्यजनापनोद्य ॥ ११ ॥
वरमसौ दिवसो न पुनर्निंशा ननु |
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inवियोगिन्या विप्रलापाः, नायिकां प्रति सखीवचनम् | २८५
प्राणेश तत्तत्कथाविष्कारे पुनरप्रमाणयति मामव्याहतेयं तनुः ॥ ३३ ॥ दुर्वार्यः खरमार्गणाः प्रियमतमो दूरे मनोऽत्युत्सुकं गाढं प्रेम नवं वयोऽतिकठिनाः प्राणा कुलं निर्मलम् । स्त्रीत्वं धैर्यविरोधि मन्मथसुहृत्काल कृतान्तोऽक्षमी नो सख्यश्चतुराः कथं नु विरह सोढव्य इत्थ मया ॥ ३४ ॥ शंवत्त्वग्विबोधवत्कुसुमवत्पीयूषवन्मित्रवद्ध्यानासन् भजति प्रिये मृगदृशोऽथ प्रस्थिते तत्क्षणात् । गेह तन्मुकुर तदेव वलयं तच्चन्दनं सा निशा कारावत्करवालवत्ककचवत्काकोलवत्कालवत् ॥ ३५ ॥ रोलम्बो मधुपः पिकस्तु परभृद्रन्धानुसारी मरुद्भूमा केवलञ्चपातनिरताश्चन्द्रोऽपि दोषाकर । चेतो नैति शुकस्त्विहैकरतितास्त्यायौ पयोदो जडः क वाहं प्रहिणोमि हन्त कठिनस्वान्ताय कान्ताय मे ॥ ३६ ॥ आयाता मधुयामिनी यदि पुनर्नायात एव प्रभुः प्राणा यान्तु विभावसौ यदि पुनर्जन्मग्रह प्रार्थये । व्याधः कोकिलबन्धने हिमकरध्वंसे च राहुग्रहः कंदर्पे हरनेत्रदीधितिरह प्राणेश्वरे मन्मथ ॥ ३७ ॥ रात्रिर्मे दिवसाायते हिमदुरुचिश्चण्डांशुलायते तारापङ्क्तिरपि प्रदीप्तवडवावह्निस्फुलिङ्गायते । धीरो दक्षिणमारुतोऽपि दहनज्वालावलीदायते हा हा चन्दनबिन्दुरद्य जलवत्सञ्चारिरङ्गायते ॥ ३८ ॥ गुञ्जन्ति प्रतिगुञ्जमम्बुजदलद्रोणीषु भृङ्गाङ्गनाः फुल्लपुष्परसालवीथिशिखरे कूजन्ति माध्वयिकाः । काम काममयं करोति विशिखैर्हन्तु सुहृद्दुर्दिनं का सा तन्मल्यानिलस सखि मे भीतिस्तयोद्भाव्यते ॥ ३९ ॥ रोलम्बाः परिपूरयन्तु हरितो झङ्कारकोलाहलैर्मन्द मन्दमुपैतु चन्दनवनीजातो नभस्वानपि । माद्यन्तः कलयन्तु चूतशिखरे केलीपिकाः पञ्चमं प्राणाः सत्वरमश्मसारकठिना गच्छन्तु गच्छन्त्वमी ॥ ४० ॥ वार्यन्ता मन्दमन्दं मधुकरनिकरप्रौढझङ्कारधारा क्षिप्यन्ता यत्र कुत्र प्रतिदिशमधुना भूरिभाराश्च हाराः । दह्यन्ता सर्व एते कमलदल्युताः किं च हा पुष्पभारस्तारा द्वाराद्यधारा विकिरति हृदये मन्मथोऽयं हताशः ॥ ४१ ॥ श्रुत्वा नामापि यस्य स्फुटघनपुलकं जायतेऽङ्गं समन्ताद्दृष्ट्वा यस्याननेन्दुं भवति वपुरिदं चन्द्रकान्तानुकारि । तस्मिन्नागल्य कण्ठग्रहणसरभसस्थायिनि प्राणनाथे भग्ना मानस चिन्ता भवति मम पुनर्वज्रमय्याः कदा नु ॥ ४२ ॥
मदनं प्रत्युक्तयः
हृदयमाश्रयसे यदि मामकं ज्वलयसीत्थमसङ्ग तदेति कम् । स्वयमपि क्षणदग्धनिजेन्धनः क्व भवितासि हताश हुताशवत् ॥ ४३ ॥ जटा नेयं वेणीकृतकचकलापो न गैरलं गले कस्तूरीयं शिरसि शशिलेखा न कुसुमम् । इयं भूतिर्नाङ्गे प्रियविरहजन्मा धवलिमा पुरारातिभ्रान्त्या कुसुमशर किं मा व्यथयसि ॥ ४४ ॥ पञ्चत्वं यान्तु बाणाः समयपरिणतस्ते विदीर्णोऽस्तु चाप क्रूरः क्रूराहियन्त्रं विशतु तव रथो मा भव त्व शरीरी । किं ते शापेन मादृग्युवतिवधमहापातकन्मीनकेतो शय्यः पाथोजयोनिः स खलु रचितवान्पापिनो दीर्घमायुः ॥ ४५ ॥
चन्द्रं प्रत्युक्तयः
संतापय चिर चन्द्र न तत्र प्रतिषिध्यसे । निवारय करस्पर्शं गमस्राहु परिग्रह ॥ ४६ ॥ मुग्धस्य ते वद विधुंतुद किं वदामि किं त्यक्तवानसि मुखे पतित शशाङ्कम् । अस्यार्द्रविम्बगलितेन सुधारसेन सधानमेति तव किं न जरत्कबन्धः ॥ ४७ ॥ प्रियविरहमहोष्माधर्मरामङ्गलखामपि हतक हिमांशो मा स्पृश क्रीडयापि । इह हि तव लुठन्तः श्लोषपीडा भजन्ते दरजरठमृणालीकाण्डमुग्धा मयूखाः ॥४८॥
रोहिणी प्रत्युक्तिः
भो रोहिणि त्वमसि रात्रिचरस्य भार्याऽथैनं निवारय पति सखि दुर्निवारम् । जालान्तरेण मम सद्मनि सनिविष्टः श्रोणीतटं स्पृशति किं कुलधर्म एषः ॥ ४९ ॥
नायिकां प्रति सखीवचनम्
वियोगवहिकुण्डेऽस्मिन्हृदये ते वियोगिनि । प्रियसङ्गसुखायैव मुक्ताहारस्तपस्यति ॥ १ ॥ पाण्डु क्षाम वदनं हृदयं सरस तवालस च वपुः । आवेदयति नितान्त क्षेत्रियरोगं सखि हृदन्त ॥ २ ॥ सखि पतिविरहहुताश किमिति प्रशम न याति नैनोदैः । शृणु कारण नितम्बिनि मुञ्चसि नयनोदक तु सस्नेहम् ॥ ३ ॥ सहसा हृदये निधाय चेतो नयनादिन्द्रियमुद्रणा विधाय । अयि कण्टकिताङ्गयष्टि सत्य कथय ध्यायसि कि रहो निष्षणा ॥ ४ ॥ सहचरि शपथाः शतं मदीया वद विरहगलपिताः निजामवस्थाम् । सहचरि परिपृच्छ भानुकन्यानवदलिनीनलिनीनिकुञ्जशय्या ॥ ५ ॥ नलिनीदलतालवीजन सखि तन्व्या विनिवारित मया । तनुवलिविभूतिशङ्कया विनिवार्य श्वसितानिलः कथम् ॥ ६ ॥ अयं विपाको वद कस्य यूनां कल्याणि कल्याणपरम्पराणाम् । यदक्षिकोग्नस्रवदच्छधाराहारावतारो गुणमन्तरेण ॥ ७ ॥ वासस्तदेव वपुषो वलयं तदेव हस्तस्य मैव जघनस्य च रत्नकाञ्ची । वाचालभृङ्गसुभगे सुरभौ समस्तमथ्याधिक भवति ते सखि कि निदा-
१ मधप २ विषम्
१ भस २ पाण्डुरता ३ शिवभ्रान्त्या ४ मुक्तस्त्यक्त आहारो येन, पक्षे,-मुक्ताना मौक्तिकाना हार ५ पत्युर्विरहो वियोग एव हुताशोऽग्नि ६ नेत्रोदकै अश्रुभिरिति यावत्
२८६ | सुभाषितरत्नभाण्डागारम् | [ ६ प्रकरणम्
नम् ॥ ८ ॥ उत्पादयत्यलमियं मनसो विषादं सीदत्सरो-
रुहनिभं वदनं त्वदीयम् । ज्ञात्वा निदानमहमत्र समान-
दुःखा प्राणैरपि प्रियतमे भवितुं समीहे ॥ ९ ॥ अनुदिन-
मधिकं ते कम्पते कायवल्ली शिव शिव नयनान्तं नाश्रु-
धारा जहाति । कथय कथय कोऽय यत्कृते कोमलाङ्गि
त्यजति न परिणद्धं पाण्डिमानं कपोलः ॥ १० ॥ विलुलित-
मतिपूर्वैर्बाष्पमानन्दशोकप्रभवमवसृजन्ती तृष्णयोचानदीर्घा ।
स्रपयति हृदयेश स्नेहनिष्यन्दिनी ते धवलबहुलमुग्धा
दुग्धकुल्येव दृष्टि ॥ ११ ॥ अविकरतलतल्पं कल्पितस्वाप-
लीलापरिमिलननिमीलत्पाण्डिमा गण्डपाली । सुतनु कथय
कस्य व्यञ्जयत्यञ्जसैव स्मरनरपतिलीलायौवराज्याभिषेकम्
॥ १२ ॥ अलमवलितैः प्रेमार्द्राद्रैर्मुहुर्मुहुलीकृतैः क्षणमभि-
मुखैर्लज्जालोलैर्निमेषपराङ्मुखैः । हृदयनिहितं भावाकूतं
वमद्भिरिवेक्षणैः कथय सुकृती कोऽय मुग्धे त्वयाद्य विलो-
क्यते ॥ १३ ॥ भगिनि मदन. श्रीमानेष त्वया यदि
लिख्यते किमपि सुमुखि व्यग्रासीति व्रजामि निजालयम् ।
यदपि मकरोध्वस्तात्पौष करे च शरासन तदपि परितो
दृष्टिर्देया जनः सखि नामरः ॥ १४ ॥ गोपायन्ती विरह-
जनितं दु खमग्ने गुरूणा किं त्वं मुग्धे नयनगलितं वाष्प-
पूर रुणत्सि । नक्तं नक्तं नयनसलिलैरेष आर्दीकृतस्ते
शय्योपान्त. कथयति दशामआतपे शोष्यमाणः ॥ १५ ॥
शोणौ कोणौ सखि नयनयोरुद्यतौ गोपनाय शङ्कामेव स्फुटय-
तितरा स्वेदबिन्दुप्रचार. । अन्त: प्रेमाङ्कुरपरिकरारम्भकं
कन्दमस्या. किंचिकित्कथयति पुन. कापि दिव्या
मुखश्रीः ॥ १६ ॥ मुक्ताहार न च कुचगिरे. कङ्कणं नैव
हस्तात्कर्णात्स्वर्णाभरणमपि वा नीतवान्नैव तावत् । अहो
स्वप्ने बकुलकुसुम भूषणं सदधान. कोऽयं चौरो हृदयमहर-
त्तन्वि तन्न प्रतीम. ॥ १७ ॥ साय दामग्रथनसमये
लग्नया कर्णमूले सख्या मन्दस्मितसुभगया सादर सूच्य-
मानः । धन्य. कोऽयं कमलनयने यत्कथाया. पुरस्ता-
दङ्गुल्यग्र निजमपि मुहुः सूचिविद्ध न वेत्सि ॥ १८ ॥
मुखे पाण्डुच्छायां नयनयुगल बाष्पतरलं तनु. क्षामक्षामा
गतमविशद धैर्यविगम । हियं मुक्त्वा मूढे कथयसि न
मे सारवचनान्यवस्था येनेयं तव सखि मुहूर्तेन पतिता
॥ १९ ॥ पक्ष्माग्रग्रथिताश्रुबिन्दुनिकरैर्मुक्ताफलस्पर्धिभिः
कुर्वत्या हरहासहारि हृदये हारावलीभूषणम् । बाले बाल-
मृणालनालवलयालङ्कारकान्ते करे विन्यस्याननमायताक्षि
सुकृती कोऽयं त्वया स्मर्यते ॥ २० ॥ आसन्नामवलम्ब्य
केसरलतामेकेन पुष्पोज्ज्वला सव्यं निःसहया नितम्बफलके
कृत्वा कराम्भोरुहम् । आमीलन्नयनान्तवान्तसलिलं श्लाघ्यस-
निन्द्यस वा कस्येद दृढसौहृदे प्रतिदिनं दीनं त्वया
स्मर्यते ॥ २१ ॥ उज्जृम्भाननमुल्लसत्कुचतटं लोलभ्रमङ्गूलतं
स्वेदाम्भःस्नपिताङ्गयष्टि विगलद्व्रीडं सरोमाञ्चया । धन्यः
कोऽपि युवा स यस्य वदने व्यापारिताः साप्रतं मुग्धे दुग्ध-
महादधिफेनपटलप्रख्याः कटाक्षच्छटा ॥ २२ ॥ मुग्धे
दोर्लतिका विधाय न कृतो द्वारोपरोधस्त्वया लग्ना नो
रुदती गतासि रमसात्तस्योत्तरीयांशुके । कालेऽस्मिन्कुसु-
माकरे द्विगुणितप्रेमोत्सवे रागिणा गच्छन्नग्रत एव मूढ-
हृदये मुक्तस्त्वया वल्लभः ॥ २३ ॥ विश्रान्तो दिवसस्तटी-
मयमटत्यस्ताचलस्यांशुमान्प्रत्यङ्गङ्कुरितान्धकारपटलैर्लम्भालका
द्यौरभूत् । एखन्तर्विश वेश्मन. शशिमुखि द्वारस्थली-
तोरणस्तम्भालम्बितबाहुवल्लि रुदती किं स्वं पथः पश्यसि
॥ २४ ॥ आहरे विरतिः समग्रविषयग्रामे निवृत्ति. परा
नासाग्रे नयन यदेतदपर यच्चैकतान मनः । मौनं चेदमिद
च शून्यमखिलं यद्विश्वमाभाति ते तद्भूया सखि योगिनी
किमसि भो. किं वा वियोगिन्यसि ॥ २५ ॥ यत्तालीदल-
पाकपाण्डु वदनं यद्दुर्दिनं नेत्रयोर्यत्प्रेङ्खोलितकेलिपङ्कजवनाः
श्वासाः प्रसर्पन्ति च । गौरी कुध्यतु वर्तते यदि न ते
तत्कोऽपि चित्ते युवा विग्धिकत्वा खलु पांसुखेलनसखी-
लोकेऽपि यन्निह्नवः ॥ २६ ॥ क्षामं गात्रमतीव पाण्डु वदनं
क्लिष्टा कपोलस्थली कोऽसौ चेतसि वर्तते तव युवा लोकैक-
मान्याकृति. । त्यक्त्वा किंचिदपत्रपा कथय मे खिन्नासि
किं त्वं वृथा घोरैः पञ्चशरो यदि त्वमबला वक्ष्यामि नातः
परम् ॥ २७ ॥ चिन्ताभिः स्तिमितं मनः करतले लीना
कपोलस्थली प्रत्यूषक्षणदेशपाण्डुवदनं श्वासैरुखिन्नोऽधर. ।
अम्भःशीकरपद्मिनीकिसलयैर्नापैति तापः शम कोऽस्याः
प्रार्थितदुर्लभोऽस्ति सहते दीना दशामीदृशीम् ॥ २८ ॥
लावण्यद्रविणव्ययो न गणित. क्लेशो महानर्जितः स्वच्छन्दं
चरतो र्जनस्य हृदये चिन्ताज्वरो निर्मितः । एषापि स्वगु-
णानुरूपरमणामभावाद्वराकी हता कोऽर्थश्चेतसि वेधसा विनि-
हितस्तन्वीमिमा तन्वता ॥ २९ ॥ जानीमस्तव गौरि
चेतसि चिर शंभु. समुज्जृम्भते तापो नेत्रतनूनपादिव तनौ
तीव्र समुन्मीलति । अक्ष्णोरूष्मविषेण गच्छति बहिर्गङ्गातर-
ङ्गावलिः पाण्डिम्यः कपटेन चन्द्रकलिकाकान्तिः समुन्मीलति
॥ ३० ॥ न प्रीतिः पवने रतिर्न रसने प्रेमा न पङ्केरुहे
न स्नेहः कुसुमे सुख न शयने यत्नो न वा जीवने । चन्द्रे
नैव चमत्कृतिमृगयते मोदो न मौनव्रते तेने तेन कियास्त-
पस्तरुणिमा यस्मै तवेय दशा ॥ ३१ ॥ मातः कं हृदये
१ उदासीनस्येत्यर्थ २ दीना
दूती प्रति स्वावस्थाकथनम्, नायकं प्रति दूतीप्रेषणम्, नायकस्याग्रे दूत्युक्तयः २८७
निधाय सुचिर रोमाञ्चिताङ्गी मुहुर्जृम्भा मन्थरतारका सुल-
लितापाङ्गा दधाना दृशम् । सुप्तेवालिखितेव शून्यहृदया
लेखाविशेषीभवत्सात्मद्रोहिणि किं हिया कथय मे गूढो निहन्ति
स्मर ॥ ३२ ॥ श्वासास्ते सखि सूचयन्त्यविरताः संतापबाधा
परं विस्रस्तत्र न कारणं वयमिति स्वान्तेऽतिचिन्ताभरः । किं
वा धर्मनिपीडिता तव तनूवली निकाशं प्रिये पुष्पाद्-
प्यतिकोमलो मलिना यातो मृणाली यथा ॥ ३३ ॥
दूती प्रति स्वावस्थाकथनम् ।
अष्टिसवीक्षणं चक्षुरद्विसमीलनं मनः । अष्टिसस्पर्शनः
पाणिग्द्य मे किं करिष्यति ॥ १ ॥ हन्त कान्तमपि तं
दिदृक्षते मानस मम न साधु यत्यते । इन्दुरिन्दुमुखि
मन्दमारुतश्चन्दन च वितनोति वेदनाम् ॥ २ ॥ तुष्यन्तु
मे छिद्रमवाप्य शत्रव करोतु मे शान्तिभर गृहेश्वर ।
मणिस्तु वक्षोरुहमध्यभूषणं ममास्तु सौन्दर्यनिकेतनं
प्रिय ॥ ३ ॥ कालो मधु कुपित एष च पुष्पधन्वा धीरा
वहन्ति रतिखेदहरा समीगः । केलिवनीयमपि वञ्जुलकुञ्ज-
मञ्जुर्दुरे पतिः कथय किं करणीयमद्य ॥ ४ ॥ कान्त
कृतान्तरित. कुटिला तदम्बा वज्रोपमानि वचनानि च
दुर्जनानाम् । प्रत्यक्ष मन्तर्गतनोः प्रहरन्ति बाणा प्राणा
पुनः सखि वहिर्न खलु प्रयान्ति ॥ ५ ॥ अकस्मादेकस्मि-
न्यथि सखि मयासुं वनतट व्रजन्त्या दृष्टो यो नवजलधरश्या-
मलतनु । स दृग्भञ्ग्या कि वाकुरुत नहि जाने तत इदं
मनो मे व्यालोलं क्वचन गृहकृत्ये न वलते ॥ ६ ॥ गते
प्रेमाबन्धे प्रणयबहुमाने विगलिते निवृत्ते सद्भावे प्रणयिनि
जने गच्छति पुर । तदुत्प्रेक्ष्योत्प्रेक्ष्य प्रियसखि गतास्ताश्च
दिवसान्न जाने को हेतुर्दलति शतधा यन्न हृदयम् ॥ ७ ॥
स्वामी कुप्यतु कुप्यता परिजनो निन्दन्तु मामन्यवत्कि
शावत्प्रथतामयं तु जगति प्रौढो ममोपद्रव । आश्वास पुन-
रेतदेव यदिदं चक्षुश्चिर वर्षता येनेद परिचीयते मुररिपोः
सौन्दर्यसार वपुः ॥ ८ ॥ निःस्नेह. पतिरुज्झिता करुणया
श्वश्रूरजसं वृथा वाग्बाणैर्हृदय भिनत्ति कलहोत्ताला पुन-
र्यातर । नित्य निन्दति नैव नन्दति कदाप्येषा ननान्दापि
तन्मातः कं शरणं व्रजामि तरुणी दीनाहमेकाकिनी ॥ ९ ॥
किं स्वप्न किमु जागर किमथवा रात्रि किमासीद्दिनं
मोहावस्थितया मया न किमपि ज्ञात किमेतत्सवखि । यन्नाम-
श्रवणादनन्तरमिद वृत्तं तमेव प्रियं चेतो दुर्लभमप्यपास्त-
सकलव्यापारमाकाङ्क्षति ॥ १० ॥
नायकं प्रति दूतीप्रेषणम् ।
अपूजितेवास्तु गिरीन्द्रकन्या कि पक्षपातेन मनोभवस्य ।
यद्यस्ति दूर्नी सरमोक्तिदक्षा दास पति पादतले वधूनाम्
॥ १ ॥ न च मेऽवगच्छति यथा लघुता करुणा यथा च
कुरुते स मयि । निपुणं तथैनमवगम्य वदेरभिदूति काचि-
दिति सदिदिशे ॥ २ ॥ ननु मदिष्टेति मह्नोदितया त्रपया न
किंचन किलाभिदवे । निजमैक्षि मन्दमनिर्श निग्रितै कृशितं
शरीरमशरीरशरै ॥ ३ ॥ दिशि दिशि परिहासगूढगर्भाः
पिशुनगिरो गुरुगञ्जनं च तादृक् । सहचरि हृदये निवेदनीयं
भवदनुरोधवशाय विक्राकः ॥ ४ ॥ वृथा गाथाश्लोकेरल्म-
लमलीका मम रुजं कदाचिद्धूर्तोऽसौ कविवचनमित्याकल-
यति । इदं पार्श्वे तस्य प्रहिणु परिलाञ्जनचयस्रवद्वाष्पो-
त्पीडस्थगितलिपि ताटङ्कयुगलम् ॥ ५ ॥ वाच्यं तस्मै सह-
चरि भवद्विरहविशेषवह्वौ स्नेहेरेंद्रे मम वपुरिढं कामहोता
जुहोति । प्राणान्स्रै तदिहसुचिता दक्षिणा दातुमीहे तत्रा-
देशो भवतु भवता यत्त्वमेषामधीश ॥ ६ ॥ जीवामीति
वियोगिनी यदि लिखेत्तत्रैव वृत्ता. कथा अद्य श्रोऽथ मरि-
ष्यतीति मरणे कालात्ययः किं कृतः । आगन्तव्यमिहेति
सप्रति सखे सभावना निष्फला भ्रात. सप्रति याहि नास्ति
लिखितं तद्देहि यत्ते क्षमम् ॥ ७ ॥ उल्लङ्ख्यापि सखीवचः
समुचितामुल्लङ्घ्य लजामलं भित्वा भीतिमर निरस्य च
निजं सौभाग्यगर्व मनाक् । आज्ञा केवलमेव मन्मथगुगे-
रादाय नूतं मया त्व निःशेषविलासिवर्गगणनाचूडामणिः
सभूत ॥ ८ ॥ दूति त्वं तरुणी युवा स चपलः श्यामा-
स्तमोभिर्दिश संदेशक स रहस्य एव विपिने सकेतकावासक ।
भूयोभूय इमे वसन्तमरुतश्चेतो नयन्त्यन्यथा गच्छ क्षेम-
समागमाय निपुणे रक्षन्तु ते देवता ॥ ९ ॥
नायकस्याग्रे दूत्युक्तयः ।
सुभग त्वत्कथारम्भे कर्णकण्डूतिलालमा । उज्जृम्भव-
दनाम्भोजी मिनत्यङ्गानि साङ्गना ॥ १ ॥ त्वयि दृष्टे कुर-
ङ्गाक्ष्याः समते मदनव्यथा । यथा हृदयमाजीन्दौ ग्लानि.
कुमुदसद्हते ॥ २ ॥ विरहे तव तन्वङ्गी कथ क्षपयतु
क्षपाम् । दारुणव्यवसायस्य पुरस्ते भणितेन किम् ॥ ३ ॥
सा सुन्दर तव विरहे सुतनुरियन्मात्रलोचना सपदि । एता-
वतीमवस्था याता दिवसैरियन्मात्रै. ॥ ४ ॥ तव विरहे
विधुवदना मदनाधिक का न सीदन्ति । सीदसि विरहे
यस्या साधु तपस्याफलं तस्याः ॥ ५ ॥ प्राणेश तव विरहिणी
हिमकरकिरणेषु हर्म्यमिलितेषु । सतापनिशाङ्गी मुञ्चति
२८८ सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्
निचयं चकोराणाम् ॥ ६ ॥ अनयनपथे प्रिये न व्यथा
यथा दृश्य एव दुष्प्रापे । म्लानेव केवलं निशि तपन-
शिला वासरे ज्वलति ॥ ७ ॥ मा सर्वथैव रक्ता रागं
गुञ्जेव न तु मुखे वहति । वचनपटोस्तव रागः केवलमास्ते
शुकस्येव ॥ ८ ॥ न सवर्णा न च रूपं न सस्क्रिया नैव
सा प्रकृतिः । बाला त्वद्विरहापदि जातापभ्रंशभावेव ॥ ९ ॥
मा विरहदहनदूना मृत्वा मृत्वापि जीवति वराकी । मारीव
कितव भवतानुकूलिता पातिताक्षेण ॥ १० ॥ गायति गीते
शंसति वंशे वादयति मा विपञ्चीषु । पाठयति पञ्जरशुकं
तव संदेशाक्षरं रामा ॥ ११ ॥ तव विरहमसहमाना सा
तु प्राणान्विस्रुक्तवती । किंतु तथाविधमङ्गं न सुलभमिति
ते न मुञ्चन्ति ॥ १२ ॥ अभिनवनलिनीकिसलयमृणालवल-
यादि दवदहनराशिः । सुभग कुरङ्गदृशोऽस्या विधिवश-
तस्त्वद्वियोगपविपाते ॥ १३ ॥ त्वद्विरहे विस्तारितरजनौ
जनितेन्दुचन्दनद्वेषे । बिसिनीव माघमासे विना हुताशेन
सा दग्धा ॥ १४ ॥ या दक्षिणा त्वमस्यामदक्षिणो दक्षिण-
स्तदितरस्याम् । जलधिरिव मध्यस्थो न वेलयो सदृश-
माचरसि ॥ १५ ॥ अनुगगवर्तिना तव विरहेणोग्रेण सा
गृहीताङ्गी । त्रिपुररिपुणेव गौरी वरतनुरर्धावशिष्टेव ॥ १६ ॥
अगणितगुणेन सुन्दर कृत्वा चारित्रमप्युदासीनम् । भवता-
नन्यगतिः सा विहितावर्तैन तरणिरिव ॥ १७ ॥ कितव
प्रपञ्चिता सा भवता मन्दाक्षमन्दसञ्चारा । बहुदायैरपि संप्रति
पाशकसारोव नायाति ॥ १८ ॥ रुष्टे का परपुष्टे मन्दे का
हन्त मारुते चर्चा । त्वयि गतवति हृदग्रेशे जीवनदा-
ताप जीवनं हरति ॥ १९ ॥ कुशलं तस्या जीवति कुशलं
पृच्छामि जीवतीत्युक्तम् । पुनरपि तदेव कथयसि मृता न
कथयामि या श्वसिति ॥ २० ॥ उह्वयते नतभ्रूः पक्ष्मनि-
पातोद्धवै पवनैः । इति निर्निमेषमस्या विरहव्यथया
विलोकत वदनम् ॥ २१ ॥ त्वयि दृष्ट एव तस्या निर्वति
मनो मनोभवज्वलितम् । आलोके हि हिमाशोर्विकसति
कुमुदं कुमुदत्याः ॥ २२ ॥ तव विरहे हरिणाक्षी निरीक्ष्य
नवमालिका दलिताम् । हन्त नितान्तामिदानीमा कि
हतजल्पितैरथवा ॥ २३ ॥ स्मरशरशतविधुराया भणामि
सख्याः कृते किमपि । क्षणमिह विश्राम्य सखे निर्दयहृद-
यस्य किं वदाम्यथवा ॥ २४ ॥ तव विरहे मलयमरुद्वा-
नलः शशिरुचोऽपि सोष्माण । हृदयमरुतमपि भिन्ते
नलिनीदलपि निदाघघ्नरिक्थाः ॥ २५ ॥ व्यजनं व्यजनं
जलं जलं घनसारो घनसार इत्यपि । अवरोधगृहेषु सुभ्रुवा
कुररीणामिव कातरो ध्वनिः ॥ २६ ॥ मम रूपकीर्तिमह-
रद्धवि यस्तदनुप्रविष्टहृदयेयमिति । त्वयि मत्सरादिव निरस्त-
दय सुतरा क्षिणोति खलु ता मदन ॥ २७ ॥ तव सा
कथासु परिघट्टयति श्रवणं यदङ्गुलिसुखेन मुहु. । घनता ध्रुव
नयति तेन भवद्गुणपूगपूरितमनुसततया ॥ २८ ॥ उपताप्य-
मानमलघूष्णिमभि श्वसितै सितेतरमरोजदृश । द्रवता
न नेतुमधर क्षमते नयनागयल्लिदलरागम. ॥ २९ ॥
दधति स्फुट रतिपतेरिषव शितता यदुत्पलपलाशदृशः । हृदयं
निरन्तरबृहत्कठिन स्तनमण्डलावरणमप्यभिनत् ॥ ३० ॥
कुसुमादपि स्मितदृश सुतरा सुकुमारमङ्गमिति नापरथा ।
अनिश निजैररुण करुण कुसुमेषुरुत्तपति यद्विशिखैः
॥३१॥ विषता निषेवितमपक्रियया समुपैति सर्वमिति सत्य-
मदः । अमृतम्रुतोऽपि विरहाद्भवतो यदमूं दहन्ति हिम-
रश्मिरुचः ॥ ३२ ॥ उदित प्रिया प्रति सहार्दामति श्रदधीयत
प्रियतमेन वचः । विदितेङ्गिते हि पुर एव जने समुदीरितां
खलु लगन्ति गिरः ॥ ३३ ॥ त्व विनिर्जितमनोभवरूपः
सा च सुन्दर भवत्यनुरक्ता । पञ्चभिर्युगपदेव शरैस्ता
तापयत्यनुशयादिव काम ॥ ३४ ॥ क्षणमपि विरह. पुरा
न सेहे नयननिमीलनखिन्नया यया ते । श्वसिति कथमसौ
रसालशाखा चिगविरहेण विलोक्य पुष्पिताग्राम् ॥ ३५ ॥
सखि दयितमिहानयेति सा मा प्रहितवती कुसुमेषुणामितसा ।
हृदयमहृदया न नाम पूर्वं भवदुपकण्ठमुपागत विवेद ॥३६॥
चिरमपि कलितान्यपारयन्त्या परिगदितु परिशुष्यता
मुखेन । गणधुण गमितानि सत्सखीना नयनयुगे. सम्मा-
र्दुता मनासि ॥ ३७ ॥ अचकमल मपष्ठवा धरित्री मृदु
सुरभि विरहय्य पुष्पशय्याम् । भृशमग्तिमवाप्य तत्र
चासास्तव सुखशीतसुपेलुमङ्गमन्छा ॥ ३८ ॥ हारावशेषा
ननु कण्ठनाला त्वन्नामशेषा रसना तदीया । लावण्यशेषा
तनुमात्रयष्टिस्त्वद्ध्यानशेष परम् तदायु ॥ ३९ ॥ तस्या
महाविरहवहिशिखाकलापतंते स्थितोऽसि हृदये सततं
प्रियाया. । प्रालेयशीकरममे हृदि सा कृपालो बाला क्षण
वसति नेव खलु त्वदीये ॥ ४० ॥ अङ्गानि मे दहतु कान्त-
वियोगवह्निः सरक्षता प्रियतमो हृदि वर्तते य. । इत्याशया
शशिमुखी गलदश्रुबिन्दुधारामिरुष्णमसिषिञ्चति हृत्प्रदेशम्
॥ ४१ ॥ संकेतकुञ्जभुवि सा शयनोपधानव्यालकृत सुभग
कुण्डलिन न वेद । तक्रण्ठलभघनचन्दनगन्धलुब्धस्तत्रैव
निश्चलमुवाम चिराय सोऽपि ॥ ४२ ॥ राकासुधाकरकरे-
र्नालिनीदलैश्च नीहारहारघनमारुतैः किमेन. । कि वा भयेन
हरिचन्दनपङ्कसेकैर्न त्वा विना मृगदृशः परितापशान्तिः
॥ ४३ ॥ त्वामञ्जनीयति कलासु विलोकयन्नि त्वा शृण्वती
कुवलयीयति कर्णपूरम् । त्वा पूर्णमाविधुमुखी हृदि भाव-
यन्ती वक्षोनिलीननयनीलमणीकरोति ॥ ४४ ॥ अविरल-
नायकस्याग्रे दूत्यूक्तयः २८९
परिवाहैर्हग्भ्रुवः मार्गणा दग्धदहनशिखोष्णश्वामपूरैश्च
तस्याः । सुभग बत कृशाङ्गया स्पर्धयान्योन्यमेभि कियत इव
पुगेभू पङ्किला पासुला च ॥४५॥ शरद्वधुनिमित्तं गूढमुन्नेतु-
मस्याः सुभग तव कथाया प्रस्तुताया सखीभि । भवति वि-
ततपृष्ठोदस्तपीनस्तनाग्रा ततवलयितबाहुर्गुम्भितै साङ्गभङ्गैः
॥ ४६ ॥ विपुलपुलकपालि. स्फीतसीत्कारमन्तर्जनित-
जडिमकाकुव्याकुलं व्याहरन्ती । तव कितव विधायागन्द-
कन्दर्पचिन्तारसजलनिधिमग्ना ध्यानलब्धा मृगाक्षी ॥ ४७ ॥
अङ्गेऽनङ्गज्वरहुतवहश्वश्रुष्वि ध्यानमुद्रा कण्ठे जीव कर-
किसलये दीर्घशायी कपोलः । असे वेणी कुचपरिसरे
चन्दनं वाचि मौनं तस्या. सर्वं स्थितमपि न तु त्वा विना
क्वापि चेत. ॥ ४८ ॥ कि पृष्टेन द्रुततरमितो गम्यता सा
प्रिया ते दृष्टा मार्गे दिवसमखिलं मान्त्रमेका मयैवम् ।
पान्थे पान्थे त्वमिति रभसोद्ग्रीवमालोकयन्ती दृष्टे दृष्टे न
भवति भवानित्युदश्रुं वलन्ती ॥ ४९ ॥ चित्रोत्कीर्णादपि
विषधराद्भीतिभाजो निशाया किं नु ब्रूमस्त्वदभिगमणे
साहस नाथ तस्याः । ध्वान्ते यान्त्या यदतिनिभृत बालया
सप्रकाशास्ताल्र्पणिः पथि फणिफणारत्नरोधी व्यधायि
॥ ५० ॥ यावद्यावद्भवति कल्या पूर्णकाम शशाङ्कस्ताव-
त्तावच्चुतिमयवपुः क्षीयते सा मृगाक्षी । मन्ये धाता घट-
यति विधु सारमादाय तस्यास्तस्याद्यावन्न भवति सखे
पूर्णिमा तावदेहि ॥ ५१ ॥ हस्ताम्भोजे वदनमलका नाय-
तान्बाहुमूले द्वारि स्वैर नयनमधरे तर्जनी सनिधाय ।
दीर्घोन्च्छ्वास विरतिवश्या स्वादमुत्कण्ठितोष्ण मृगधिक्षा त्वा
ह्लादे विदधती बाष्पमाविष्करोति ॥ ५२ ॥ आद्यः कोप-
स्तदनु मदनस्त्वद्वियोगस्तृतीय. शान्त्यै दूतीवचनमपर.
पञ्चम. शीतभानु. । इत्थं बाला निरवधि पर त्वा फलं प्रार्थ-
यन्ती हा हा पञ्चज्वलनमधुना सेवते योगिनीव ॥ ५३ ॥
धातु. शिल्पातिशयनिकषस्थानमेषा मृगाक्षी रूपे देवोऽप्यय-
मनुपमो दत्तपादः खरस्वे । जातं दैवात्तदशमनयो. सगत
यच्चदेतच्छृङ्गारस्योपनतमधुना राज्यमेकातपत्रम् ॥ ५४ ॥
अभ्रध्वानैर्मुखरितदिशः श्रेणयस्तोयदाना धारासारैर्धरणि-
वलयं सर्वतः प्लावयन्ति । तेन स्नेहं वहति विपुलं मत्स्सखीयुक्त-
मेतत्त्वं निःस्नेहो यदसि तदिदं नाथ मे विस्मयाय ॥ ५५ ॥
प्रादुर्भूते नवजलधरे त्वत्पथं दृष्टकामा. प्राणाः पङ्केरुहदल-
दृश. कण्ठदेशं प्रयान्ति । अन्यत्किं वा तव मुखविधुं
द्रष्टुमुड्डीय गन्तु वक्ष पक्ष सृजति बिसिनीपल्लवस्य च्छलेन
॥ ५६ ॥ गृहीतं ताम्बूल परिजनवचोभिः कथमपि
स्मरत्यन्त.शून्या सुभग तव मूर्तिं प्रतिदिनम् । तथैवास्ते
हस्तः कलितफणिगल्लीकमलयस्तथैवासीनस्याः क्रमुकफल-
कालीपरिचितम् ॥ ५७ ॥ गलत्येका मूर्च्छा भवति पुनरन्या
यदनगो किमप्यासीन्मध्ये सुभग सकलायामपि निशि ।
लिखन्त्यास्तत्तस्या कुसुमशरलेखं तव कृते समाप्ति
स्वस्तीति प्रथमपदभागोऽपि न गतः ॥ ५८ ॥ सखीभिक्षा
याचे बत नतगिरास्त्वामिदमहं न चेदस्ति प्रीति. कुरु
तदपि कारुण्यकणिकाम् । अवस्था मा तस्या. सुकृतमय-
मस्या किमपर प्रमोहो विश्रामस्त्वमथ मरण वा प्रतिकृतिः
॥ ५९ ॥ विमुञ्चन्त्या प्राणांश्चिरविरहदुःखासहनया तथा
संदिष्टं ते कठिनहृदयापश्चिममिदम् । अपलं बालैका मम
विधिहतायाः सलिलदा तथा नेय सेव्या व्यसनरुचये
दीयत इति ॥ ६० ॥ न हार नाहार कलयति विहार
विषमिव खरन्ती सा गभा सुभग भवतश्चागमदिनम् । पर
क्षीणा दीना परमसुवहीना सुवदना कुदृपक्ष्मल्लौवचपल-
नयनाङ्गीकृतगतिः ॥ ६१ ॥ क्षण मूर्च्छामेति भ्रमति परितो-
ऽथ क्षणमपि क्षण प्रैति स्तम्भं निग्वधि भवद्ध्याननिग्ता ।
क्षणं स्वप्ने बाला तव सुभग योग च लभते क्षण तेजः
शभोर्नयनजमथ ध्यायति यमम् ॥ ६२ ॥ कुसुमशयने-
ऽप्यङ्गं ताम्यत्यनङ्गविवर्तनं वदनपवनैः श्यामच्छाया बभूव
सखीजनः । हृदयनिहित. शीतो लेपश्चमीति रवं करोत्यहह
कठिनावस्था तस्यास्त्वयैवमुपेक्ष्यते ॥ ६३ ॥ विरहविषम.
कामः काम तनुं कुरुते तनुं दिवसगणनादक्षश्चाय व्यपेत-
घृणोपम. । त्वमपि वशगो मानव्याधेर्विचिन्तय नाथ हे
किसलयमृदुर्जीवत्येवं कथ प्रमदाजन. ॥ ६४ ॥ मृगशिशु-
दृशस्तस्यास्ताप कथं कथयामि ते दहनपतिता दृष्टा मूर्ति-
र्मया न हि वैधवी । इति तु विदित नारीरूप. स लोकदृशा
सुधा तव शततया शिल्प्योत्कर्णे विधेर्विघटिष्यते ॥ ६५ ॥
मुहुर्व्यजनवीजनैः सरसचन्दनासेचनैः सरोजदलवेष्टनैरपि
न चेष्टते सुन्दरी । तथापि तत्र नामनि प्रियसखीभिगवे-
दिते निवेदयति जीवित श्रवणसीम्नि रोमोद्गमः ॥ ६६ ॥
गेहादङ्गणमङ्गणादपि बहिर्वाञ्छाच्च पृथ्वीतल तामार्ति यदि
वेत्ति सैव सुमुखी किं चान्यदाचक्ष्महे । पर्यङ्केऽपि तवाङ्ग-
सङ्गसुभगै. खेदाम्भसा निर्झरैर्घारामण्डपताननीयत तथा
तस्मिन्न्वृल्या सुहुः ॥६७॥ दृष्टे चन्द्रमसि प्रलूनतमसि व्योमा-
ङ्गणस्थेयसि स्फूर्जन्निर्मलतेजसि त्वयि गते दूर निजप्रेयसि ।
श्वास कैरवकोरकीयति मुखं तस्याः सरोजीयति क्षीरोदीयति
मन्मथो मुगदृशो दृक्चन्द्रकान्तीयति ॥ ६८ ॥ आवासो
विपिनायते प्रियसखीमालापि जालायते तापोऽपि श्वसितेन
दावदहनज्वालाकलापायते । सापि त्वद्विरहेण हन्त हरिणी-
रूपायते हा कथं कन्दर्पोऽपि यमायते विरचयन् शार्दूल-
विक्रीडितम् ॥ ६९ ॥ अच्छिन्न नयनाम्बु बन्धुषु कृतं
१ पञ्चधा तापम्, पक्षे,-पञ्चाग्निनामकं तप
३७ सु र भा
२९० सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्
तापः सखीष्वाहितो दैन्यं न्यस्तमशेषतः परिजने चिन्ता
गुरुभ्योऽर्पिता । अद्य श्वः किल निर्वृतिं व्रजति सा श्वासैः
परं खिद्यते विश्रब्धो भव विप्रयोगजनितं दुःखं विभक्तं
तया ॥ ७० ॥
त्वच्चिन्तापरिकल्पितं सुभग सा सम्भाव्य
रोमाञ्चिता शून्यालिङ्गनसचलद्भुजयुगेनात्मानमालिङ्गति ।
किं चान्यद्विरहव्यथाप्रगमनीं संप्राप्य मूर्च्छां चिरात्प्रत्युज्जी-
वति कर्णमूलपठितैस्त्वन्नाममन्त्राक्षरैः ॥ ७१ ॥
नीरागा
मृगलाञ्छने मुखमपि स्वं नेक्षते दर्पणे त्रस्ता कोकिलकूजिता-
दपि गिरं नोन्मुद्रयत्यात्मनः । चित्रं दुःसहदाहदायिनि
धृतद्वेषापि पुष्पाशुवे सा बाला सुभग प्रति प्रतिपदं प्रेमा-
धिकं पुष्यति ॥ ७२ ॥
उन्मीलन्ति नखैर्लुनीहि वहति
क्षौमाञ्चलेनावृणु क्रीडाकाननमश्रयन्ति वलयक्वाणैः समु-
त्रासय । इत्थं वञ्जुलदक्षिणानिलकुहूकण्ठेषु साङ्केतिक-
व्याहाराः सुभग त्वदीयविरहे तस्याः सखीनां मिथः ॥ ७३ ॥
वर्षन्ति स्तनयित्नवो न सरले धारागृहे वर्तसे गर्जन्ति
प्रतिकूलवादिनि न ते द्वारि स्थिता दन्तिनः । इत्येवं
गमितो वनव्यतिकरः सा राजपुत्री पुनर्वातो वाति कदम्ब-
पुष्पसुरभौ केन प्रतारिष्यते ॥ ७४ ॥
सप्ताहेऽवधिवासरे
क्षणमसौ त्वद्वर्त्मवातायनं वारंवारमुपेत्य निष्कृपतया निश्चित्य
किंचिच्चिरम् । सप्रत्येव निवेद्य केलिकुररीः सास्रं सखीभिः
शिशोर्माधव्याः सहकारकेण करुणः पाणिग्रहो निर्मितः
॥ ७५ ॥
नायं मुञ्चति सुभ्रुवामपि तनुत्यागे वियोगज्वरस्ते-
नाहं विहिताञ्जलियुदुपते पृच्छामि सत्यं वद । ताम्बूलं कुसुमं
पैटीरसमुदकं यच्चेन्दुभिर्दीयते साद्यत्रैव परत्र तत्किमुचित-
ज्वालावलीदुःसहम् ॥ ७६ ॥
श्वासान्मुञ्चति भूतले विलुठति
त्वन्मार्गमालोकते दीर्घं रोदिति निक्षिपत्यविरतं क्षामा भुजा-
वल्लीम् । किं च प्राणसमा न काङ्क्षितवती स्वप्नेऽपि ते सङ्गमं
निद्रां वाञ्छति न प्रयच्छति पुनर्दग्धो विधिस्तामपि ॥ ७७ ॥
कोदण्डो विशिखो मनोभवसतैः कामस्य तस्या अपि भ्रूवह्वी
नयनाञ्चलं मनसि ते वासः समुन्मीलति । इत्थं साम्यविधौ
तयोः प्रभवति स्वामिस्तथा स्निग्धता तन्वाना तनुतां क्रमाद्-
तनुता नैषा यथा गच्छति ॥ ७८ ॥
शोकोत्पत्तिरशोकतः
सुमनसो यद्वैमनस्योदयो वैरस्यं च रसाळतो विकलता
तावत्कलानां निधेः । किं चान्यन्नलदो भवत्यनलदो निर्णीत-
मुन्नीयते वामः केवलमेक एव न भवानस्यामशेषं जगत्
॥ ७९ ॥
नैष्ठुर्यं कलकण्ठकोमलगिरां पूर्णस्य शीतद्युते-
स्तिग्मत्वं बत दक्षिणस्य मरुतो दाक्षिण्यहानिश्च ताम् । खर्तं-
व्याकृतिमेव कर्तुमबला सनाहमातन्वते तद्भिग्नः क्रियते तृणा-
दिचलनोद्भूतैस्त्वदाप्तिभ्रमैः ॥ ८० ॥
या चन्द्रस्य कलङ्किनो
जनयति स्मेराननेन त्रपां वाचा मन्दिरकीरसुन्दरगिरो या
सर्वदा निन्दति । निःश्वासेन तिरस्करोति कमलामोदा-
न्वित्तान्यानिलान् सा तैरेव रहस्य्वया विरहिता काचिद्दशा
नीयते ॥ ८१ ॥
चन्द्रं चन्दनकर्दमेन लिखितं संमाष्टिं
दग्धाधरा कामः पुष्पशरः किलेति सुमनोवर्गं लुनीते च
यत् । वन्द्यं निन्दति यच्च मन्मथमसौ भङ्क्त्वाग्रहस्ता-
ङ्गुलीस्तत्कामं सुभग त्वया वरतनुर्वातूलता लम्भिता ॥ ८२ ॥
तापोऽस्मत्प्रसृतिपचः प्रचयनवान्बाष्पः प्रणालोचितः श्वासा
कम्पितदीपवर्तिकलिका पाण्डिम्नि मग्नं वपुः । कि चान्य-
त्कथयामि रात्रिमखिलां त्वन्मार्गवातायने हस्तच्छत्र-
निरुद्धचन्द्रमहसस्तस्याः स्थितिर्वर्तते ॥ ८३ ॥
बिभ्राणा
हृदये त्वया विनिहितं प्रेमाभिधानं नवं शल्यं यद्विदधाति
सा विधुरिता साधो तदाकर्ण्यताम् । शेते शुष्यति
ताम्य॑ति प्रलपति प्रम्लायति प्रेङ्क॑ति भ्राम्यत्युलुठति प्रणश्यति
गल॑त्युन्मूर्च्छति तृँष्यति ॥ ८४ ॥
कार्श्यं चेत्प्रतिपत्कला
हिमरुचः स्थूलैव चेत्पाण्डिमा लीना एव मृणालिका
यदि पुनर्बाष्पः कियानम्बुधिः । संतापो यदि शीतलो
हुतवहस्तस्याः कियद्वर्ण्यतां किं तु त्वत्स्मृतिमात्रमेव शरणं
लावण्यशेषं वपुः ॥ ८५ ॥
सौधादुद्विजते त्यजत्युपवनं
द्वेष्टि प्रभामैन्दवीं द्वारात्त्रस्यति चित्रकेलिसदसो वेषं विषं
मन्यते । आस्ते केवलमब्जिनी किसलयप्रस्तारशय्यातले
सङ्कल्पोपनमत्त्वदाकृतिरसायत्तेन चित्तेन सा ॥ ८६ ॥
सा
न स्नाति न चानुलिम्पति न वा केशेषु धत्ते सजं न क्रीडासु
मनो दधाति न सखीगलोकेते चाटुषु । किं तु न्यस्य
मुखाम्बुजं करतले बाष्पायमाणेक्षणं निःश्वसद्गलपिताधरं
च शयने जागर्ति ते चिन्तया ॥ ८७ ॥
सा रोमाञ्चति
सीत्करोति विलपत्युत्कम्पते ताम्यति ध्यायत्युद्भ्रमति प्रमी-
लति पतत्युद्याति मूर्च्छत्यपि । एतावल्यतनुज्वरे वरतनु-
र्जीवेन्न किं ते रसात्सर्वैद्यप्रतिम प्रसीदसि यदि त्यक्तोऽन्यथा
हस्तकः ॥ ८८ ॥
कंदर्पज्वरसंज्वराकुलतनोराश्चर्यमस्या-
श्चिरं चेतश्चन्दनचन्द्रमःकमलिनीचिन्तासु सताम्यति । किं
तु क्षान्तिवशेन शीतलतनुं त्वामेवमेकं प्रियं ध्यायन्ती
रहसि स्थिता कथमसौ क्षीणा क्षण प्राणिति ॥ ८९ ॥
अङ्गेष्वाभरणं करोति बहुशः पत्रेऽपि संचारिणि प्राप्तं त्वा
परिशङ्कते वितनुते शय्यां चिरं ध्यायति । इत्याकल्पविकल्प-
तत्परचनासंकल्पलीलाशतव्यासक्तापि विना त्वया वरत-
नुर्नैषा निशा नेष्यति ॥ ९० ॥
॥ आलम्ब्याङ्गणवापिकापरि-
सरे चूतद्रुमे मञ्जरीं सर्पत्सान्द्रपरागलम्पटरणद्भृङ्गाङ्गनाशोभि-
नीम् । मन्ये सा तनुमुत्तरीयशकलेनाच्छाद्य बाला स्फुर-
पादटिप्पण्यः (Footnotes):
- १ क्षेत्रम्
- १ विरहविह्वला २ ग्लानिं प्राप्नोति ३ चलति ४ नैर्बल्यातिशयेन मृतप्राया भवति ५ खेदातिशयादित्यर्थं ६ क्षीणा भवति
नायकं प्रति नायिकासंदेशः, नायिकां प्रति संदेशप्रेषणम्, नायिकां प्रति नायकसंदेशः २९१
त्कण्ठध्वाननिरोधकम्पितकुचश्वासोद्गमा रोदिति ॥ ९१ ॥
चित्नाय त्वयि चिन्तिते स्मृतिभुवा सजीकृत स्वं धनुर्वित्तिं
धर्तुमुपागतेऽङ्गुलियुगे बाणा गुणे योजिता । प्रारब्धे तव
चित्रकर्मणि पुनस्तद्द्बाणभिन्ना सती भित्ति द्रागवलम्ब्य विह्व-
लपते सा तत्र चित्रायते ॥ ९२ ॥ आदावञ्जनपुञ्जलितवपुषा
श्वामानिलोल्लासितप्रोत्सर्पद्विरहानलेन च तत. संतापिताना
दशाम् । सप्रत्येव निष्कंकमश्रुपयसा देवस चेनोभुवो भल्ली-
नामिव पानकर्म कुरुते कामं कुरङ्गेक्षणा ॥ ९३ ॥ ज्योत्स्ना
मौक्तिकदाम चन्दनरस शीताशुकान्तद्रवः कर्पूर कदली
मृणालवलयान्यम्भोजिनीपल्लवा. । अन्तर्मानसमास्त्वया
प्रभवता तस्या स्फुलिङ्गोत्कव्यवपाराय भवन्ति हन्त किम-
नेनोक्तेन न ब्रूमहे ॥ ९४ ॥ पाणिनिर्वकङ्कण स्तनतटी
निष्क्रम्यमानाश्रुका दृष्टिर्निश्चलतारका समभवन्निस्ताण्डव
कुण्डलम् । कश्चित्प्रापयिता मम कृशतनोर्भेदो भवेन्नो यदि
त्वन्नामस्मरणेण कोऽपि पुलकारम्भ. समुज्जृम्भते ॥ ९५ ॥
दत्तोऽस्या प्रणयस्त्वयैव भवता चेय चिर लालिता दैवा-
दद्य किल त्वमेव कृतवानस्या नव विप्रियम् । मन्युर्दुःसह
एष यात्युपशम नो सान्त्ववादैः स्फुट हे निश्चिन्न विमुक्त-
कण्ठकरुण तावत्सखी रोदितु ॥ ९६ ॥ चूडारत्नमपानिधैर्यदि
भवेच्चेत्कुन्तलं गण्डकी कावेरी यदि कङ्कणं यदि पुनग्रैवेयकं
गौतमी । मुक्तासक्सुरनिम्नगा यदि यदि स्यान्मेखला नर्मदा
कौशेय यदि कौशिकी कृशतनोस्तापस्तदाप्येति वा ॥ ९७ ॥
नायकं प्रति नायिकासंदेशः
अदृष्टे दर्शनोत्कण्ठा दृष्टे विच्छेदभीरुता । नादृष्टेन न
दृष्टेन भवता विद्यते सुखम् ॥ १ ॥ आलीभि सह भाषितं
किमपि तद्धर्मापि सवीक्षितं पञ्चेषु. कुसुमैरपूरि कथमप्या-
धाय चित्ते मनाक् । तेनापि प्रिय चेत्तथा मयि कृपाकार्पण्य-
मालम्बसे प्राणेश प्रबलं तदत्र निखिलं तद्धातिकूल्यं विधे.
॥ २ ॥ नित्य ब्रह्म यथा स्मरन्ति मुनयो हंसा यथा
मानस सानन्दाः स्फुटसल्लकीवनयुता ध्यायन्ति रेवा गजाः ।
युष्मद्दर्शनलालसा. प्रतिदिनं युष्मान्स्मरामो वय धन्य
कोऽपि स वासरोऽत्र भविता यन्नावयोः सगम ॥ ३ ॥
इन्दु कैरविणीव कोकपटलीवाम्भोजिनीबान्धव मेघ चात-
कमण्डलीव मधुपश्रेणीव पुष्पाकरम् । माकन्द पिकसुन्दरीव
तरुणी प्राणेश्वर प्रोषितं चेतोवृत्तितिय मम प्रियसखे त्वा
द्रष्टुमुत्कण्ठते ॥ ४ ॥
नायिकां प्रति संदेशप्रेषणम्
दैवात्पश्येर्जगति विचरन्निच्छया मत्प्रिया चेदाश्वास्यादौ
तदनु कथयेर्मामकीनामवस्थाम् । आग्रान्तन्तुर्न च कथय-
तात्यन्तमुच्छेद्नीयः प्राणत्राण कथमपि कगेत्यायताक्ष्याः
स एकः ॥ १ ॥
नायिकां प्रति नायकसंदेशः
त्वं दूरमपि गच्छन्ती हृदय न जहासि मे । दिनौवमाने
छायेव पुरो मूलं वनस्पते ॥ १ ॥ स्मर्तव्योऽह त्वया
कान्ते न स्मरिष्याम्यह तव । स्मरण चेतमो धर्मस्तचेतो
भवदाहृतम् ॥ २ ॥ त्वया मम समेतस्य कल्या अपि
ममाममा । भवत्या विप्रयुक्तस्य कल्पकल्पः क्षणोऽपि मे
॥ ३ ॥ यत.प्रभृति ते कान्त मुखमालोकित मया । काम.
काम ममाङ्गानि व्यप्रयत्यमितः शरैः ॥ ४ ॥ तपति तनु-
गात्रि मदनस्त्वामनिशं मा पुनर्दहत्वेव । ग्लपयति यथा
शशाङ्क न तथा हि कुमुद्वती दिवस ॥ ५ ॥ किमकारि
मन्दमतिना रतिपतिना कामतन्त्रनिपुणेन । स्यूतासि हरि-
णनयने हन्त हृदि स्नेहन्तुना न तनौ ॥ ६ ॥ कृष्णा ते
कचसंहतिरम्बुजनयने तवाधरः शोण । त्व सुरतरङ्गिणी
कथमभितस्तापी न ते वियोग स्यात् ॥ ७ ॥ दूर मुक्ता-
लतया बिससितया विप्रलोभ्यमानो मे । हंस इव दर्शि-
ताशो मानसजन्मा त्वया नीत. ॥ ८ ॥ स्निग्धमालप
सुरूक्षमेव वा त्वत्कथैव सखि मे रसायनम् । शीतलं
सलिलमुष्णमेव वा पावक हि शमयेदसशयम् ॥ ९ ॥
स्वप्नेऽपि देवि रमसे न मया विना त्वं स्वापे त्वया विर-
हितो मृतवद्भवामि । दूरीकृतासि विधिदुर्ललितैस्तथापि
जीवत्यवेहि मन इत्यसवो दुरन्ता ॥ १० ॥ वल्गत्कचानि
वलनासहमध्यमानि कण्ठोदयत्कलरुतानि गल्त्कुचानि ।
आस्वादताधरदलान्यलसेक्षणानि तान्येव तन्वि सुरतानि
तव स्मरामि ॥ ११ ॥ अद्यापि सुन्दरि तवाननचन्द्रबिम्बं
बन्दीकृताम्बुजयुगं परिचुम्ब्य चेतः । त्वत्सगमोद्भवसुखं
तनुते तथापि वैर करोति करुणाविकलो विवेकः ॥ १२ ॥
त्वदीयमुखपङ्कज यदि विवोरलं वार्तया तवाधरसुधा यदा
भवति कि सुधा नो सुधा । त्वदङ्कपरिरम्भण भण
कृतं सुधागाहनैस्त्वदीयदृगनुग्रहस्तदपि धिग्धिगैन्द्र पदम्
॥ १३ ॥ भवतु विदित व्यर्थालापैरलं प्रिय गम्यता तनु-
रपि न ते दोषोऽस्माक विधिस्तु पराङ्मुख. । तव यदि
तथाभूतं प्रेम प्रपन्नमिमा दशा प्रकृतिसरले का न पीडा
गते हृतजीविते ॥ १४ ॥ यदिन्दोर्लक्ष्मीस्ते वदनकमले
वासमकरोत्तम् स्तोमस्थेमा तव तरुणि धम्मिल्लमभजत् ।
अनुप्राप्ता हारावलिमपि च तारावलिरुचि शरण्यायाः कस्ते
१ सायङ्काले २ कोमलाङ्गि
१९२ सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्
मम शरणदाने परिभव. ॥ १५ ॥ भवत्या विश्लेषे गुरुहृदय-
खेदेन तनुता तनुर्नित्य धत्ते मद्दशामिति मत्तेभगमने ।
इदं तावच्चित्र कमलमुखि सर्वैरवयवै सुरूपा त्व लोके
नियतमसुरूपा भवसि न ॥ १६ ॥ सुमध्ये वाग्भङ्गेर्वचन-
विधिमङ्गीकुरु न वा स्मितज्योत्स्नाकान्त कुरु वदनमेत-
न्मयि न वा । त्रिलोकीमूर्धन्या यदि विविधपुण्याधिकतया
मया दृष्टासि त्व तदिह सफल मेऽजनि जनु. ॥ १७ ॥
यदि प्राणा एव प्रणयपरिणाह कथमयं विभिन्ना तेभ्य-
श्चेत्कथमियमभेदव्यवसिति । न भिन्ना नाभिना यदि
भवसि किं नाम तदपि त्वमेकासि त्वं मे कुवलयदलश्रेणि-
नयने ॥ १८ ॥ यदेकः कासार रचयति तथा कूपम-
थवा तदाकाङ्क्षा देवो वितरतितरा श्रीपतिरपि । मया तु
त्वद्धेतो कमलमुखि सान्द्राश्रुसलिलै कृताः पारावारास्त
दपि गणना ते न हृदये ॥ १९ ॥ इतो विद्युत्पुञ्जस्फुरितम-
सकृद्वाययतु मामित. केकानेका हरतु हृदय निर्दयमिदम् ।
इत. कामो वाम प्रहरतु मुहु. पुङ्खितशरो गतासि त्व दूर
चपलनयने प्राप्स्यसि कुत ॥ २० ॥ हिमांशुश्चण्डांशुर्नव-
जलधरो दावदहन. सरिद्दीर्घावात. कुपितफणिनि. श्वासपवन. ।
नवा मल्ली भल्ली कुवलयवन कुन्तगहन मम त्वद्विश्लेषा
त्सुमुखि विपरीतं जगदिदम् ॥ २१ ॥ आस्ता तावद्रचन-
रचनाभाजनत्वं विदूरे दूरे चास्ता तव तनुपरीरम्भसभाव-
नापि । भूयो भूय. प्रणतिभिरहं किंतु याचे विधेया स्मार
स्मार स्वजनगणने कापि लेखा ममापि ॥ २२ ॥ श्यामा-
स्वङ्गं चकितहरिणीप्रेक्षणे दृष्टिपातं वक्त्रच्छाया शशिनि
शिखिना बर्हभारेषु केशान् । उत्पश्यामि प्रतनुषु नदीवीचिषु
भ्रूविलासान्हन्तैकस्मिन्क्वचिदपि न ते चण्डि सादृश्यमस्ति
॥ २३ ॥ त्वामालिख्य प्रणयकुपिता धातुरागैः शिलाया-
मात्मानं ते चरणपतितं यावदिच्छामि कर्तुम् । अस्रैस्ता-
वन्मुहुरुपचितैर्दृष्टिरलुप्यते मे क्रूरस्तस्मिन्नपि न सहते
संगमं नौ कृतान्त. ॥ २४ ॥ मामाकाशप्रणिहितभुजं
निर्दयाश्लेषहेतोर्लब्धायास्ते कथमपि मया स्वप्नसंदर्शनेषु ।
पश्यन्तीना न खलु बहुशो न स्थलीदेवताना मुक्ता-
स्थूलास्तरु किसलयेष्वश्रुलेशा. पतन्ति ॥ २५ ॥ भित्त्वा
सद्य. किसलयपुटान्देवदारुद्रुमाणा ये तत्क्षीरस्स्रुतिसुर-
भयो दक्षिणेन प्रवृत्ता. । आलिङ्ग्यन्ते गुणवति मया ते
तुषाराद्रिवाता पूर्वं स्पृष्ट यदि किल भवेदङ्गममेभिरस्त्वेति
॥ २६ ॥ सक्षिप्येत क्षण इव कथ दीर्घयामा त्रियामा
सर्वावस्थास्वरपि कथ मन्दमन्दातप स्यात् । इत्थं चेत-
श्श्रुतुलनयने दुर्लभप्रार्थन मे गाढोष्माभिः कृतमशरणं त्वद्वि-
योगव्यथाभि. ॥ २७ ॥ कस्याख्याय व्यतिकरममम मुक्त-
दुःखो भवेय को जानीते निभृतमुभयोरावयो. स्नेहसारम् ।
जानात्येकं शशधरमुखि प्रेमतत्त्वं मनो मे त्वामेवैतच्चि-
रमनुगत तन्प्रिये कि करोमि ॥ २८ ॥ त्वद्रूपामृतपान-
दुर्ललितया दृष्ट्या क्व विश्रम्यता त्वद्वाक्यश्रवणाभियोग-
परयोः श्रव्यं कुत. श्रोत्रयो । एभिस्त्वत्परिरम्भनिर्भररसैैरङ्गेः
कथ स्थीयता कष्ट त्वद्विरहेण सप्रति वयं कष्टामवस्था गताः
॥ २९ ॥ यत्त्वन्नेत्रसमानकान्ति सलिले मग्नं तदिन्दीवर
मेघैरन्तरित प्रिये तव मुखच्छायानुकारी शशी । येऽपि
त्वद्गमनानुकारिगतयस्ते राजहंसा गतास्त्वत्सादृश्यविनोद-
मात्रमपि मे दैवेन न क्षम्यते ॥ ३० ॥ गूढालिङ्गनगण्ड-
चुम्बनकुचस्पर्शादिलीलायितं सर्व विस्मृतमेव विस्मृतवतो
बाले खलेभ्या भयात् । संलोपस्त्वधुना सुदुर्घटनामस्त-
त्रापि नातिव्यथा यत्त्वद्दर्शनमप्यभूद्सुलभ तेनैव दूये भृशम्
॥ ३१ ॥ धन्यस्तन्वि स एष पाण्डिमवरश्वम्बन्कपोलस्थलं
धन्य तन्वि तदेव कार्श्यमिह यत्प्रत्यङ्गमोलिङ्गति ।
धन्योऽय विरहानलस्तव मनो यस्यानुवृत्तेः पदं दूरे हन्त
तया तु पातितया मादृग्जन सीदति ॥ ३२ ॥ न स्नानं
न च भोजन न पठनं नान्यत्र सौख्य धृतिर्नान्यस्त्रीजन-
सेवन न च कथानिद्राविलासोधमः । किंतु त्वा परिचिन्त-
यामि सततं ध्यानेन चेतःस्थिता स्वमालोकनकामिकेलि-
विधिना जीवामि कान्ते तव ॥ ३३ ॥ रात्रिः कालयुगोपमा
मलयजो गन्धानिल. कि विष सोमः सूर्य इवाभवन्मलय-
जालेपः स्फुलिङ्गोपम. । तिक्त. सुस्वरगीतवाद्यपरभृत्याराव-
तादिध्वनिर्वज्रस्वाहतिरेव कर्णयुगले विच्छेदतो मे तव
॥ ३४ ॥ चन्द्रो द्वादश भास्कराः समभवन्ग्रात्रिर्युगाना
शत मिष्ट तिक्तरस विलेपनमहो दीप्तानलो मे तव ।
विच्छेदान्मलयानल प्रियतमे किं कालकूटः श्रुतौ गीतादि-
ध्वनिरेव वज्रसदृशोऽरण्यं विचित्रं गृहम् ॥ ३५ ॥ स्थाना-
न्निर्गत्य दूर व्रजति मयि चिर मुक्तकण्ठ रुदित्वा पश्चादु-
न्मृज्य नेत्रे प्रणतिमुपगता वेपमानाङ्गयष्टिः । कान्ते यन्मा-
मवोच. प्रलयघनघटाटोपबद्धान्धकारे काले कापालिकोऽपि
प्रवसति न गृहात्तन्मनो मे दुनोति ॥ ३६ ॥
दूतीं प्रति नायिकाप्रश्नाः
उल्लापयन्त्या दयितस्स दूती वध्वा विभूषा च निवेश-
यन्त्या । प्रसन्नता कापि मुखस्स जज्ञे वेषश्रिया तु प्रिय-
वार्तया नु ॥ १ ॥ अलमलमधृणस्स तस्स नाम्ना पुनरपि सैव
कथा गत' स कालः । कथय कथय वा तथापि दूति
प्रतिवचनं द्विषतोऽपि माननीयम् ॥ २ ॥ कथय निपुणे
१ छादित
२ भाषणम्