Skip to content
SarvaKosh
Back to the archive

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

by पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य)

Source: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (origin)

Report a copyright issue

DevanagariSanskritpublished516 pages

About this granth

Subhashita Ratna Bhandagara (सुभाषितरत्नभाण्डागार, 'Treasury of Gem-like Sayings') is a large anthology of Sanskrit subhashitas, the short, polished verses quoted for their wit and wisdom. It was compiled by Pandit Kashinath Sharma (Kashinath Pandurang Parab) and published by the Nirnaya Sagar Press, Bombay; the English title page describes it as a collection of more than ten thousand verses gathered from poems, plays, works on statecraft and stray stanzas.

The book opens with a subject index giving the page and verse numbers for each topic. The first section, of invocations, has verses on Parabrahman, Ganesha, Sarasvati, Shiva, the Ganga, Vishnu, Lakshmi, the ten avatars, Krishna, Radha and others, and later sections take up conduct, kingship, allegory, love and nature.

At about 516 pages, it remains a standard place to look for a fitting Sanskrit verse on a given theme.

Page 262
Page 262 scan

संकीर्णान्योक्तयः २४७

भूपाना भवनेषु किंच विमलक्षेत्रेषु गूढागया साधूनामभयो
वसन्ति कति नो त्वत्तुल्यकक्षा खलाः ॥ ४४ ॥
सर्वोद्वेगकर मृगादनममु सत्यज्य हा धिक्त्वया लोकस्या-
नपकारिणं गिरिनदीतीराटवीनिर्घृतम् । अश्रान्तं तृणमेण-
शावमदयं व्याध श्तामुं वृथा देवो दुर्बलघातकोऽयमिति
सा गाथा यथार्थीकृता ॥ ४५ ॥

विषमन्त्री

भेकेने॑ कणता सरोपपरुषं यत्कृष्णसर्पानने दातु
कर्णचपेटमुज्झितभिया हस्त समुल्लासित । यच्चाधोमुख-
मक्षिणी विदधता नागेन तूष्णी स्थित तत्मर्व विषमन्त्रिणो
भगवत कस्यापि लीलायितम् ॥ ४६ ॥

मालाकार.

तोयैरल्पैरपि करुणया भीमभानौ निदाघे मालाकार
व्यरचि भवता या तरोरस्य पुष्टि । सा कि शक्या
जनयितुमिह प्रावृषेण्येन वाग धारासारानपि विकिरता
विश्वतो वारिदेन ॥ ४७ ॥

कायस्थः

विप्रेभ्य.

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 263
Page 263 scan

२४८ सुभाषितरत्नभाण्डागारम् [ ५ प्रकरणम्

कुचतटीपटीपल्लवप्रकम्पनपरिस्फुरत्स्वेदनलेशपारं गतः ॥ ६६ ॥
रे रे दीप तिरस्कृताखिलतमःस्तोमारिवर्गस्य ते रात्रौ
गूढनिजाङ्गपातिशलभाघातेन किं पौरुषम् । तत्कर्माचर येन
तावदयशो भूयात्प्रभाते पुनर्न स्नेहो न च सा दशा नहि परं
ज्योतिः परं स्वास्यति ॥ ६७ ॥

तुला

गुरुषु मिलितेषु शिरसा प्रणमसि लघुषून्नता समेषु समा ।
उचितज्ञासि तुले किं तुलयसि गुञ्जाफलैः कनकम् ॥ ६८ ॥
प्राप्य प्रमाणपदवीं को नामास्ते तुलेऽवलेपस्ते । नयसि
गरिष्ठमधस्तात्तदितरमुच्चैस्तरां कुरुषे ॥ ६९ ॥

कुम्भः

दृढतरगलकनिबन्धः कूपनिपातोऽपि कलश ते धन्यः ।
यज्जीवनदानैस्त्वं तृषामर्षं नृणां हरसि ॥ ७० ॥
श्लाघ्यं नीरसंकाष्ठताडनशतं श्लाघ्यं प्रचण्डातपक्लेशं श्लाघ्यतरं
सुपक्वनिचये

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 264
Page 264 scan

संकीर्णान्योक्तयः २४९

॥ ९० ॥ यः कुन्तपानिरिह भूप इति प्रसिद्धो भूखण्ड-
मात्रविभवः परसेवकश्च । तस्यात्मज. सततमिच्छति राजशब्दं
क्रीडे जगज्जननि हन्त निराश्रयासि ॥ ९१ ॥ इन्द्रो
यमोऽसि वरुणोऽसि हुताशनोऽसि ब्रह्मा हरो हरिरसीत्य-
सकृद्यदुक्तिः । भूपालमौलिमणिरञ्जितपादपीठ तस्यानृतस्य
फलमिन्धनमुद्वहामि ॥ ९२ ॥ आः सर्वत. स्फुरतु कैरवमा-
पिबन्तु ज्योत्स्नाकरम्भमुदरंभरयश्चकोरा. । यातो यदेष
चरमाचलमूलचुम्बी पङ्केरुहप्रकरजागरणप्रदीप. ॥ ९३ ॥
खरनखरविमुक्ता रक्तरक्ताश्च मुक्ता परिणतबदराणा
विश्रमेणोपगृह्य

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 265
Page 265 scan

षष्ठं नवरसप्रकरणम्

शृङ्गाररसनिर्देशः

मनसिजप्रशंसा

अनङ्गेनावलासङ्गाज्जिता येन जगत्त्रयी । स चित्रचरित कामः सर्वकामप्रदोऽस्तु व ॥ १ ॥ एक वस्तु द्विधा कर्तु बहवः सन्ति धन्विन । धन्वी स मार एवैको द्वयोरैक्य करोति यः ॥ २ ॥ न कठोर न वा तीक्ष्णमायुधं पुष्प-धन्वनः । तथापि जितमेवासीदमुना भुवनत्रयम् ॥ ३ ॥ स एकस्त्रीणि जयति जगन्ति कुसुमायुधः । हरतापि तनुं यस्य शभुना न हृतं बलम् ॥ ४ ॥ कर्पूर इव दग्धोऽपि शक्तिमान्यो जने जने । नमोऽस्त्ववार्यवीर्याय तस्मै मकर-केतवे ॥ ५ ॥ बाणेष्वारोप्य गुणान्विधाय चापं वियोगि-नीनयने । स्वयमतनुर्जगदेतज्जयति सुमास्त्रो विचित्र-धामुष्कः ॥ ६ ॥ सपदमतरललम्भामनन्यसामान्यवहलदर्प-निधेः । पुष्णातु चित्तयोनेरघटितघटनापटीयसी विमुता ॥ ७ ॥ याभिरनङ्ग साङ्गीकृत.

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 266
Page 266 scan

स्त्रीप्रशंसा २५१

अग्निः सर्वाङ्गकान्तिस्त्वं तस्मान्निष्कसमाः स्त्रियः ॥ ३ ॥ स्त्रियः
पवित्रमतुलं नैता दुष्यन्ति कर्हिचित् । मासि मासि रजो
यासा दुष्कृतान्यपकर्षति ॥ ४ ॥ अमृतस्येव कुण्डानि
रत्नानामिव राशयः । रतेरिव निधानानि निर्मिताः केन
योषितः ॥ ५ ॥ प्राणाना च प्रियायाश्च मूढाः सादृश्य-
कारिणः । प्रिया कण्ठगता रत्यै प्राणा मरणहेतवः ॥ ६ ॥
अकृत्रिमप्रेमरसा विलासालसगामिनी । असारे दग्धसंसारे
सार सारङ्गलोचना ॥ ७ ॥ हरिणप्रेक्षणा यत्र गृहिणी न
विलोक्यते । सेवितं सर्वसंपद्भिरपि तद्भवन वनम् ॥ ८ ॥
यासामञ्चलवातेन दीपो निर्वाणता गतः । तासामालिङ्गने
पुसा नरके पतनं कुत ॥ ९ ॥ नामृत न विषं किचि-
देका मुक्त्वा नितम्बिनीम् । यस्या सङ्गेन जीव्येत म्रियेत
च वियोगत. ॥ १० ॥ यासा नाक्षापि कामः स्यात्सगम
दर्शनं विना । तासा दृक्सगमं प्राप्य यन्न द्रवति कौतुकम्
॥ ११ ॥ यावद्दृष्टिर्मृगाक्षीणा नो नरीनर्ति भङ्गुरा ।
तावज्ज्ञानवता चित्ते

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 267
Page 267 scan

२५२ सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्

च ॥ ४१ ॥ नूनं हि ते कविवरा विपरीतबोधा ये नित्य-
माहुरबला इति कामिनीस्ताः । याभिर्विलोलतरतारकदृष्टि-
पातैः शक्रादयोऽपि विजितास्त्वबला कथं ताः ॥ ४२ ॥
नान्दीपदानि रतिनाटकविभ्रमाणामाद्याक्षराणि परमाण्य-
थवा स्मरस्य । दृष्टेऽधरे प्रणयिना विधुताग्रपाणेः सीत्कार-
शुष्करुदितानि जयन्ति नार्याः ॥ ४३ ॥ अलमतिचपल-
त्वात्स्वप्नमायोपमत्वात्परिणतिविरसत्वात्सङ्गमेनाङ्गनायाः ।
इति यदि शतकृत्वस्तत्त्वमालोचयामस्तदपि न हरिणाक्षीं
विस्मरत्यन्तरात्मा ॥ ४४ ॥ द्रुतं यस्यालोकाद्विरहिजन-
शोकापनयनं यदङ्के सानन्दं नयनमरविन्दं विह्रति । न
यस्यापैति श्रीः कचनचयराहोरपि पुरः समे खेदं रामा-
वदनहिमधामा शमयतु ॥ ४५ ॥ श्रुतं दृष्टं स्पृष्टं स्मृत-
मपि नृणां ह्लादननं न रत्नं स्त्रीभ्योऽन्यत्क्वचिदपि कृतं
लोकपतिना । तदर्थं धर्मार्थौ विभववरसौख्यानि च ततो
गृहे लक्ष्म्यो मान्याः सततमबला मानविभवैः ॥ ४६ ॥
ललाटे

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 268
Page 268 scan

युववर्णनम्, बालावर्णनम् २५३

पमितौ दरिद्रता ॥ ५ ॥ खबालभारस्य तदुत्तमाङ्गजैः समं
चमयैंव तुलाभिलाषतः । अनागसे शंसति बालचापलं
पुनः पुनः पुच्छविलोलोनच्छलात् ॥ ६ ॥ निमीलनअ्रश-
जुषा दृशा भृशं निपीय तं यन्निदशीभिरर्जितम् । अमृतम-
भ्यासमर विवृण्वते निमेषैर्निःस्वैरधुनापि लोचनैः ॥ ७ ॥
विलोकयन्तीभिरजस्रभावमाबलादमु तत्र निमीलनेष्वपि ।
अलम्भि मर्त्याभिरमुष्य दर्शने न विग्नलेशोऽपि निमेष-
निर्मितः ॥ ८ ॥ न का निशि खमगतं ददर्श तं जगाद
गोत्रस्खलिते च का न तम् । तदात्मताध्यातथवा रते च
का चकार वा न खमनोभवोद्भवम् ॥ ९ ॥

बालावर्णनम्

अभ्यासः कर्मणा सम्यगुत्पादयति कौशलम् । विधिना
तावदभ्यस्त यावत्सृष्टा मृगेक्षणा ॥ १ ॥ न देवकन्यका
नापि गन्धर्वकुलसम्भवा । तथाप्येषा तपोभङ्गं विधातुं
वेधसोऽप्यलम् ॥ २ ॥ इयं व्याधायते बाला भ्रूरस्याः कार्मु-
कायते । कटाक्षाश्च शरायन्ते मनो मे हरिणायते ॥ ३ ॥

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 269
Page 269 scan
२५४सुभाषितरत्नभाण्डागारम्[ ६ प्रकरणम्

नवोढानामेभिर्वदनकमलैर्नेत्रचलितैः स्फुरल्लीलालीनाः प्रचुरपरिपूर्णा इव दृशः ॥ २९ ॥ अमुष्या लावण्यं मृदुलमृदुलानप्यवयवान्मनोलौल्यं धातुः करकठिनतां मे विमृशति । पदं चित्ते धत्ते मतिरिव पुरा पङ्कजभुवा ध्रुवं कल्याणीयैः कलितसुकृतैरेव रचिता ॥ ३० ॥ समीचीना चीनांशुकपरिवृताङ्गी प्रविलसत्कुचापीना हीना जघनघनभागेऽब्जवदना । न दीना दीनान्तःकलितमदना सेयमधुना नवीना मीनाक्षी व्यथयति मुनीनामपि मनः ॥ ३१ ॥ स्फुरन्नानारत्नारुणितवसना वृत्तमसृणस्तनापीना मत्ता तरलजघना हंसगमना । स्मराधीनासीना कविहृदि जिताशेषललना नवीना मीनाक्षी व्यथयति मुनीनामपि मनः ॥ ३२ ॥ उदासीनालीनामपि वचसि लीना तनुत्वमत्रपाधीना दीनालपनपदवीनायकमधुता । कवीनामासीना हृदि कुमुदिनीनाथवदना नवीना मीनाक्षी व्यथयति मुनीनामपि मनः ॥ ३३ ॥ निलीना वेश्मान्तः कथमपि सखीनामभिहितैः कृताधीना हीनाकृतिरपि मतीनामविषया ।

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 270
Page 270 scan

अथ वयःसंधिवर्णनम्

२५५

न्यञ्चति वयसि प्रथमे समुद्भवति तरुणिमनि सुदृशः । दधति स्म मधुरिमाणं वाचो गतयश्च विभ्रमाश्च भृशम् ॥ ६ ॥
यदवधि विलासभवनं यौवनमुदियाय चन्द्रवदनायाः । दहनं विनैव तदवधि यूनां हृदयानि दह्यन्ते ॥ ७ ॥
अधर किसलयरागः कोमलविटपानुकारिणौ बाहू । कुसुममिव लोभनीयं यौवनमङ्गेषु संनद्धम् ॥ ८ ॥
मृदुलवलिललितमध्यं पृथुलकुचं चारु विपुलभूरुहधनम् । पुंनागस्पृहणीयं स्फुरति वनं यौवनं च नारीणाम् ॥ ९ ॥
सन्निभयोरमुष्या वयसोः पयसोरिवाङ्गेषु । अनयो रसद्विभेदं मानसजन्मा परं वेद ॥ १० ॥
स्तनतटमिदमुत्तुङ्गं निम्नो मध्यः समुन्नतं जघनम् । विषमे मृगशावाक्ष्या वपुषि नवे क इव न स्खलति ॥ ११ ॥
उद्यति तरुणिमतरणौ शैशवशशिनि प्रशान्तिमायाते । कुचचक्रवाकयुगलं तरुणीतन्व्या मिथो मिलति ॥ १२ ॥
अचलं चलदिव चक्षु प्रकृतमपीदं समुद्यदिव वक्षः । अतदिव तदपि शरीरं संप्रति वामभ्रुवो जयति ॥ १३ ॥
अयमङ्कुरभाव एव तावत्कुचयोः कर्षति लोकलोचनानि ।

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 271
Page 271 scan

२५६ सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्

समुद्भ्रूभङ्गं प्रविहितधनुर्भङ्गमनिशं वयस्तत्पद्माक्ष्याः कथ-
मिव मनो न व्यथयतु ॥ ३४ ॥ मुखं विकसितस्मितं
वेशितवक्रिमप्रेक्षितं समुच्छलितविभ्रमा गतिरपास्तसंस्था
मतिः । उरो मुकुलितस्तनं जघनमसबन्धोर्द्धुरं बतेन्दु-
वदनातनौ तरुणिमोद्गमो मोदते ॥ ३५ ॥ न दन्तुरमुरःस्थलं
वचसि नाश्रिता चातुरी विकारि न विलोकितं भ्रुवि न
वक्रिमोपक्रमः । तथापि हरिणीदृशो वपुषि कापि कान्ति-
च्छटा पट्टावृतमहामणिद्युतिरिवात्र सलक्ष्यते ॥ ३६ ॥ इदं
परमसुन्दरं तनूपुरं कुरङ्गीदृशा निवार्य खलु शैशवं स्वय-
मनेन नीतं बलात् । तदागमनशङ्कया मकरकेतुना किं
कृतं पयोधरधराधरो त्रिवलिवाहिनीदुस्तरो ॥ ३७ ॥ स्थिर-
त्वमचिरद्युतौ तमसि कोऽपि बन्धग्रहो विधौ किमपि सौरभं
मधुनि कापि वर्णालता । शिरीषनवदामनि स्फुरति कोऽपि
शैलोदयो वयोऽभिनववेधसस्तदिह मन्महे कौशलम् ॥ ३८ ॥
क्षणं सरलवीक्षणं क्षणमपाङ्गसवीक्षणं क्षणं रजसि खेलनं
क्षणमतीव भूषादरः । क्षणं

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 272
Page 272 scan
वयःसंधिवर्णनम्, तरुणीपृथगवयववर्णनम्२५७

स्थितं यत्पुरा तच्चारुण्यघनोदयेन बहुधा संवर्धितं पद्मभूः ।
वीक्ष्य सन्दनाशङ्कितः कुचयुगव्याजान्नितम्बस्थलाच्चक्रे सेतु-
युगं न चेदिह कुतस्तदग्रसंस्थास्नुता ॥ ५७ ॥ विस्तारी
स्तनभार एष गमितो न स्वोचितामुन्नतिं रेखोद्भासि कृतं वलि-
त्रयमिदं न स्पष्टनिम्नोन्नतम् । मध्येऽस्या ऋजुरायतार्थकपिशा
रोमावली निर्मिता रम्यं यौवनशैशवव्यतिकरोन्मिश्रं वयो
वर्तते ॥ ५८ ॥ चाञ्चल्यं चरणौ विहाय नयनप्रान्तं प्रति-
ष्ठासते वस्तु वाञ्छति वाचि काचिदमृतस्पर्धाकरी माधुरी ।
कान्तिः काचन वक्षसो विजयते तन्व्या दुकूलाञ्चलं तन्मन्ये
दिवसैः कियद्भिरतनुर्जेता जगन्मण्डलम् ॥ ५९ ॥ आला-
पान्ध्रुविलासौ विरलयति लसद्बाहुविक्षिप्ति यातं नीविग्रन्थि
प्रथिम्ना प्रतनयति मनाञ्चाध्वनिग्नो नितम्बः । उत्पुष्यत्यार्श्व-
मूर्च्छत्कुचशिखरमुरो नूनमन्तः खरेण स्पृष्टा कोदण्डकोट्या
हरिणशिशुदृशो दृश्यते यौवनश्रीः ॥ ६० ॥

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 273
Page 273 scan
२५८सुभाषितरत्नभाण्डागारम्[ ६ प्रकरणम्

सम्यगावज्य वक्षोरुहकुम्भयुग्मम् । कासौ करालम्बिततैल-
पात्रा मन्दं समासीदति सुन्दरी ताम् ॥ २८ ॥ वक्षोजौ
निबिडं निरुध्य सिंचयेनाकुञ्च्य मध्यं शनैः कृत्वा चम्पक-
तैलसेकमवला संपीड्य मन्दं शिरः । पाणिभ्या चलकङ्क-
णोद्यतझणत्कारोच्चगम्या करोल्यभ्यङ्गं परिपश्यतः सकुंतुक
दोरन्तर प्रेयस. ॥ २९ ॥

सीमन्तरचनम्
स्नेहसंवर्धितान्वालानदृढं बध्नाति सुन्दरी । करुणा
हरिणाक्षीणा कुत कठिनचेतसाम् ॥ ३० ॥ संप्राप्तचिकुर-
भाव. कचयो वा युवा करे लग्न । स्त्रीभिर्दृढ निबध्यो
न चेत्परकैलत्रमनुसरति ॥ ३१ ॥ यथा यथाऽयं वलते
भुजोऽस्या उदश्चित सयमनै कचानाम् । तथा तथा वल्गति
काममेक स एव वक्षोरुह उपलाक्ष्या ॥३२॥ जानुभ्यामुप-
विश्य पाष्णिनिहितश्रोणीभग प्रोन्नमद्दोर्वल्ली नमदुन्नमत्कुचतटी
दीयन्नखाङ्कावलि । पाणिभ्यामवधूय

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 274
Page 274 scan

तरुणीपृथगवयववर्णनम् २५९

भ्रुवोरायतलेखयोर्या । ता वीक्ष्य लीलाचतुरामनङ्ग-
श्चचापसौन्दर्यमदं मुमोच ॥ ५७ ॥ भ्रूभ्या प्रियाया भवता
मनोभूचापेन चापे घनसारभाव । निजा यदल्पोपपदशाम
पेक्ष्य सप्रत्यनेनाधिकवीर्यतार्जि ॥ ५८ ॥ स्मारं धनुर्यद्विधु
नोद्धितास्या यास्वेन भूतेन च लक्ष्मलेखा । एतद्भ्रुवौ जन्म
तदाप युग्मं लीलाचलत्त्वोचितबालभावम् ॥ ५९ ॥

नेत्रद्वयम्

नूनमाज्ञाकरस्तस्या सुभ्रुवो मकरध्वज । यतस्तन्नेत्रे-
सचारसूचितेषु प्रवर्तते ॥ ६० ॥ नि सीमशोभासौभाग्यं
नताङ्ग्या नयनद्वयम् । अन्योन्यालोकनानन्दविग्हादिव
चञ्चलम् ॥ ६१ ॥ आमा व्रतमतीवाक्ष्णोर्यत्पुर परि-
सर्पणम् । सह यात मनस्तत्र त्यक्त्वा भूयो निवर्तनम्
॥ ६२ ॥ अर्जुन कृष्णसयुक्त कर्ण यत्नान्धधावति ।
तन्नेत्रं तु कुरुक्षेत्रमिति मुग्धे मृशामहे ॥ ६३ ॥ एक-
मेत्राक्षि वामाक्षि रञ्जयाञ्जनलेखया । जायतामैन्दवे बिम्बे
खञ्जनाम्बुजसगम ॥ ६४ ॥ अमुष्य मुषिता

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 275
Page 275 scan
२६०सुभाषितरत्नभाण्डागारम्[ ६ प्रकरणम्

चकितचकोरीकान्तिचौरं तदक्षि । त्रिभुवनयुवचेतोबन्ध-
संकेतहेतोः सहचरमिव कर्तुं पाशमाशङ्क्य याति ॥ ९६ ॥

कटाक्षः

यान्ती गुरुजने सार्धं त्रायमानमुखाम्बुजा । तिर्यग्ग्रीवं
यदद्राक्षीत्तन्निषेपत्राम्ररोजगत् ॥ ९७ ॥ क्वचित्कृष्णाऽर्जुनगुणा
क्वचित्कर्णान्तगामिनी । अपाङ्गश्रीस्तवाभाति सुभ्रूभारत-
गीरिव ॥ ९८ ॥ विशालाक्षीकटाक्षस्य साक्षी त्र्यक्षो
महेश्वर । नाद्यापि प्रकृतिं याति येन विद्धो दिगम्बरः
॥ ९९ ॥ यासा कटाक्षविशिखैः खरचौरैण ताडिताः ।
हृतचैतन्यसर्वस्वा मोहन्ते मुग्धकामुका ॥ १०० ॥ रे रे
घट्ट मा रोदी कं कं न भ्रामयन्त्यमू । कटाक्षवीक्षणादेव
कगकृष्टस्य का कथा ॥ १०१ ॥ हत्वा लोचनविशिखै-
र्गत्वा कतिचित्पदानि पद्माक्षी । जीवति युवा न वा कि भूयो
भूयो विलोकयति ॥ १०२ ॥ अस्याः कररुहखण्डित-
काण्डपटकटनिर्गता दृष्टि । पटविगलितनिःकलुषा स्वदते
पीयूषधारेव

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 276
Page 276 scan

तरुणीपृथगवयववर्णनम् | २६१

वामस्तम्भःदक्षिणस्तम्भः
श्रुतौ दध्रतुरर्धमर्धम् । कर्णान्तरुत्कीर्णगभीररेखः किं तस्य
सख्यैव न वा नवाङ्कः ॥ १२८ ॥ मन्येऽमुना कर्णलता-
मयेन पाशद्वयेन च्छिदुरेतरेण । एकाकिपाशं वरुण विजि-
ग्येऽनङ्गीकृतायामतती रतीशः ॥ १२९ ॥ आत्मैव तातस्य
चतुर्भुजस्य जातश्चतुर्दोरुचितः स्वगोऽपि । तच्चापयो कर्ण-
लते भ्रुवोर्ध्वं वशत्वगंणौ चिपिटे किमस्या ॥ १३० ॥
कर्णभूषणम्
मुक्ताताटङ्कयुगं प्रतिमुक्तं कर्णपार्श्वयोरस्या । मुखकमल-
मिव निषेवितुमागतममृतांशुबिम्बयुगम् ॥ १३१ ॥
ताटङ्कमस्यास्तग्लेक्षणाय मुक्ताफलैश्चारुरुचि विधत्ते ।
मुखश्रिया चन्द्रमिवाभिभूय बन्दीकृतं तारकचक्रवालम्
॥ १३२ ॥ शशी हर्तु लोभान्मुखकमलशोभा श्रुतिफलं
मिषेवै सातङ्कस्तव तरुणि ताटङ्ककपटात् । तदन्तःपीयूषं
निखिलमथ निक्षेपुमधरे मनोजन्मा मुष्णन्मुहुरहह तुच्छं
तमकरोत् ॥ १३३ ॥
कपोलौ
कपोलपालीं तव तन्वि मन्ये लावण्यधन्ये

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 277
Page 277 scan
२६२सुभाषितरत्नभाण्डागारम्[ ६ प्रकरणम्

मुखम्

जितेन्दुपद्मलावण्यं क्व कान्तावदनं जयेत् । मुक्त्वा
तदेव सुरतश्रमजिन्नितलोचनम् ॥ १६० ॥ चलद्भृङ्गमिवा-
म्भोजमधीगनयनं मुखम् । तदीयं यदि दृश्येत काम-
क्रुद्धोऽस्तु किं ततः ॥ १६१ ॥ विलसत्याननं तस्या
नासाग्रस्थितमौक्तिकम् । आलक्षितबुधाश्लेषं राकेन्दोरिव
मण्डलम् ॥ १६२ ॥ मुखं वहति बन्धूकबन्धुरेणाधरेण सा ।
पूर्णेन्दुमिव सौन्दर्यादङ्कलालितकौस्तुभम् ॥ १६३ ॥ विधा-
यापूर्वपूर्णेन्दुमस्या मुखमभूद्भवम् । धाता निजासनाम्भोज-
विनिमीलनदुःखितः ॥ १६४ ॥ शरत्कालसमुल्लासिपूर्णिमा-
शर्वरीप्रियम् । करोति ते मुखं तन्वि चपेटापातनाति-
थिम् ॥ १६५ ॥ राकायामकलङ्कं चेदमृताशोर्भवेद्वपुः ।
तस्या मुखं तदा साम्यपराभवमवाप्नुयात् ॥ १६६ ॥
आननं मृगशावाक्ष्या वीक्ष्य लोलालकावृतम् । भ्रमद्भ्रमर-
सङ्कीर्णं स्मरामि सरसीरुहम् ॥१६७॥ इयं सुनयना दासी-
कृतामरसप्रिया । आननेनाकलङ्केन जयतीन्दुं

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 278
Page 278 scan

तरुणीपृथगवयववर्णनम् २६३

मपि तद्गात्रा कान्तामुखे विनिवेशितम् । सुरसुमनस-
श्वासामोदे शशी च कपोलयोग्मृतमधरे तिर्यग्भूते विषं
च विलोचने ॥१९४॥ असावन्तश्चञ्चद्विकचनवलीलाब्ज-
युगलस्तलस्फूर्जत्कम्बुर्विलसदलिसंघात उपरि । विना दोषा-
सङ्गं सततपरिपूर्णाखिलकलः कुतः प्राप्तश्चन्द्रो विगलित-
कलङ्कः सुमुखि ते ॥ १९५ ॥ जगन्नेत्रानन्दं वदनमतुलं
पक्ष्मलदृशः कथंकारं पङ्केरुहमनुविधातु प्रभवति । अयं
छेदाकाङ्क्षी सहृ मदनकोदण्डलयता वराको राकेन्दु-
कुवलययुगं कि न वहति ॥ १९६ ॥ अनाकाशे चन्द्रः
सरसिजदलद्वन्द्वसहितो गृहीतः पश्चार्धे कुटिलकुटिलैः
सोऽपि तिमिरैः । सुधा मुञ्चत्युच्चैरशनिमथ संमोहनजनीं
किमुत्यातालीयं वदत जगतः कर्तुरुदिता ॥ १९७ ॥ सुधा-
बद्ब्यासैरुपवनचकोरैरनुसुता किरं¹श्चोत्स्नामच्छां नवलेवलि²-
पाकप्र³णयिनीम् । उपप्राकाराय प्रै⁴हिणु नयने तर्कय मै⁵नाग-
नाकाशे कोऽयं गलितहरिणः शीतकिरणः ॥ १९८ ॥

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 279
Page 279 scan

२६४ सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्

यद्वक्षाः सरखती वाद्यते विपञ्चीम् । तदेव वाग्भूय मुखे
मृगाक्ष्याः श्रोतुः श्रुतौ याति सुधारसत्वम् ॥ २२३ ॥
बाहू
दयिताबाहुपाशस्य कुतोऽयमपरो विधिः । जीवयत्यर्पितः
कण्ठे मारयत्यपवर्जितः ॥ २२४ ॥ शब्दवद्भिरलङ्कारैरु-
पेतमतिकोमलम् । सुवृत्तं काव्यबद्रेजे तद्द्वाहुलतिकाद्वयम्
॥ २२५ ॥ सरले एव दोर्लेखे यदि चञ्चलचक्षुषः ।
अमुग्धाभ्यो मृणालीभ्यः कथमाजहुतुः श्रियम् ॥ २२६ ॥
बाहू तस्याः कुचाभोगनिरुद्धान्योन्यदर्शनौ । मञ्चितं कथ-
मेताभ्या मृणालीकीर्तिलुण्ठनम् ॥ २२७ ॥ बाहू प्रियाया
जयता मृणालं द्वन्द्वे जयो नाम न विस्मयोऽस्मिन् । उच्चैस्तु
तच्चित्रममुष्य मध्यमालोक्यते निर्व्यथनं यदन्तः ॥ २२८ ॥
अजीयतावर्त्तशुभंयु नाभ्या दोर्भ्यां मृणालं किमु कोमला-
भ्याम् । निःसूत्रमास्ते घनपङ्कमृत्सु मूर्तासु नाकीर्तिषु
तन्निमग्नम् ॥ २२९ ॥
करौ
कुसुमायुधकोदण्डे हस्तौ विस्तीर्णचक्षुष । अशोकपल्ल-
वास्त्राणा

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 280
Page 280 scan

तरुणीपृथगवयववर्णनम् — २६५

चकास्ति त्रिवलीतटे । लीना तिमिरलेखेव वदनेन्दोरगोचरे ॥ २६३ ॥
स्वकीयं हृदय भित्त्वा निर्गतौ यौ पयोधरौ । हृदयस्यान्यदीयस्य भेदने का कृपा तयोः ॥ २६४ ॥
अल्पनिर्मितमाकाशमनालोच्यैव वेधसा । इदमेवंविधं भावि भवत्याः स्तनमण्डलम् ॥ २६५ ॥
उच्छ्वसन्मण्डलप्रान्तरेख- माबद्धकुङ्कलम् । अपर्याससुरो वृद्धेः शंसत्यस्याः स्तनद्वयम् ॥ २६६ ॥
मध्येन तनुमध्या मे मध्यं जितवतीत्ययम् । इभकुम्भौ भिनत्त्यस्याः कुचकुम्भनिभौ हरिः ॥ २६७ ॥
पटविघटितमपि कुचतटमकपटमनसः कुरङ्गनयनायाः । मणिभवमयूखपटलीपटीलीनतया न सम्यगालोचि ॥ २६८ ॥
प्रतिपक्षो यदि वक्षोरुहपरिणाहः कुरङ्गनयनायाः । आकाशवासतपसः श्रीफल विफलस्तवायामः ॥ २६९ ॥
चञ्चत्काञ्चन-शैलावस्या वक्षोरुहौ तन्व्याः । नो चेत्तावधिरूढा कथमनिमिषता भजेत मे दृष्टिः ॥ २७० ॥
करतलयुगपरिणद्धे कुचकलशे कुङ्कुमारुणे तस्याः । सिन्दूरिते करिपतेः कुम्भे

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 281
Page 281 scan

२६६ सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्

मध्यौवनगजस्यावैमि कुम्भद्वयम् ॥ २९५ ॥ उद्भेदं
प्रतिपद्य पक्वबदरीभावं समेत्य क्रमात्पुंनागाकृतिमाप्य
रत्पदवीमारुह्य बिल्वश्रियम। लब्ध्वा तालफलोपमा
च ललितामासाद्य भूयोऽधुना चञ्चत्काञ्चनकुम्भजृम्भणमि-
भावस्या स्तनौ बिभ्रत ॥ २९६ ॥ रँत्याप्तप्रियलाञ्छने
कठिनतावासे रँसालिङ्गिते प्रँह्लादैकरसे क्रमादुपचिते भूभृ-
द्गुरुत्वापहे । कोर्कस्पर्धिनि भोगभाजि र्जनितानङ्गे र्खेली-
नोन्मुखे भाति श्रीर्गमणावतारदशकं बाले भवत्या. स्तने
॥ २९७ ॥ मध्येऽय बलिसद्म दृष्टिरधिक पृथ्वौ सुपर्वा-
लयो बाहुस्तत्क्रमलेक्षणा त्रिजगतीमेकैव संरक्षति । इत्येव
स्तनयोर्मिषेण कनकक्षोणीभृता सधृतौ यस्यामात्मकिकोरकौ
पविभयव्यग्रेण जम्भद्विष ॥ २९८ ॥

कञ्चुकी

उपरि पीनपयोधरपातिता पटकुटीव मनोभवभूपतेः ।
विजयिनस्त्रिपुरारिजिगीषया तव विराजति भामिनि
कञ्चुकी ॥ २९९ ॥

हारः

घटीयन्त्रायते हारो नाभिकूपे मृगीदृश. । ससेक्तुमिव
लावण्यपयसा यौवनद्रुमम् ॥ ३०० ॥

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in