सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
by पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य)
Source: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (origin)
About this granth
Subhashita Ratna Bhandagara (सुभाषितरत्नभाण्डागार, 'Treasury of Gem-like Sayings') is a large anthology of Sanskrit subhashitas, the short, polished verses quoted for their wit and wisdom. It was compiled by Pandit Kashinath Sharma (Kashinath Pandurang Parab) and published by the Nirnaya Sagar Press, Bombay; the English title page describes it as a collection of more than ten thousand verses gathered from poems, plays, works on statecraft and stray stanzas.
The book opens with a subject index giving the page and verse numbers for each topic. The first section, of invocations, has verses on Parabrahman, Ganesha, Sarasvati, Shiva, the Ganga, Vishnu, Lakshmi, the ten avatars, Krishna, Radha and others, and later sections take up conduct, kingship, allegory, love and nature.
At about 516 pages, it remains a standard place to look for a fitting Sanskrit verse on a given theme.
विविधराजप्रशंसा | १२१
न्तिकथा तुरगमकथा कोदण्डदीक्षाकथा । एकैवास्ति परं
पलायनकथा त्वद्वैरिभूमीभुजा देव श्रीरघुनाथ नाथ जगति
त्वमेऽपि नान्या कथा ॥ १५१ ॥ त्वं चेत्कल्पतरुर्वयं सुम-
नसस्त्वं चेत्सुधात्मा कलाः संपूर्णा वयमीश्वरो यदि भवान्
स्वच्छा विभूतिर्वयम् । संपूर्णः कमलाकरो यदि भवान्
श्रीराजहंसा वय स्वामिंस्त्वं शृणु रामचन्द्र नृपते किं कि
न तेऽङ्ग वयम् ॥ १५२ ॥ बालकीडनमिन्दुशेखरधनुर्भ-
ङ्गावधि प्रह्वता ताते काननसेवनावधि कृपा सुग्रीवमरुत्या-
र्पथे । आज्ञा वारिधिबन्धनोवधि यशो लङ्केशेनाशावधि
श्रीरामस्य पुनातु लोकवशता जानक्यपेक्षायधि ॥ १५३ ॥
त्वत्कीर्तिर्धनिका धनं मधुरिमा तस्याधमर्णा सुधा शीतांशुः
प्रतिभूस्तदर्थनकृते सैषा दिव धावति । सा लीना तत्र
वाचि रामनृपते चन्द्रो निरस्तध्वनिः शङ्कातङ्कभृदंशुका-
वृततनुर्नक्तं समुत्सर्पति ॥ १५४ ॥ अञ्चामास तृण प्रिया-
दुहि तृणामास स्मरारेर्धनुर्द्वारामास सुनेः शिलापि नृव-
रामाम स्वयं पादुका । कुल्यामास महार्णवोऽपि कपयो
योधावभूवुस्तदा पौलस्त्यो मशकीबभूव भगवंस्त्वं मानु-
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in१२२ सुभाषितरत्नभाण्डागारम् [ ३ प्रकरणम्
भूणालमौलेरुद्वेलदुग्धवीचीबहलधवलिमाबद्धकक्षाः कटाक्षाः ॥ १६६ ॥ बीजं चिन्तामणिश्चेत्कनकगिरितटीजन्मभूमिर्भवेच्चेत्सेक्री चेत्कामधेनुर्विधिकुलमखिलं मूलसस्कारञ्चेत् । वित्तेशो रक्षिता चेत्सरसिजनिलया मञ्जरी चेत्तदा स्याद्राम क्ष्मापालमौले तव भुजलयता कल्पवृक्षः सदक्षः ॥ १६७ ॥ मन्ये मृत्योः सपत्नी जगति सुविदिता कालकूटस्य कन्या धात्री कर्कटकस्य स्मरणभयकरी कि च वज्रस्य माता । कल्पान्ताग्नेः पुरन्ध्री प्रभवति भगिनी भीषणा कालरात्रेर्दूतीयं ते कृपाणी सुगपुरसुदृशा रामचन्द्रक्षितीश ॥ १६८ ॥
रामजामः
क्षुभ्यत्प्रत्यर्थिपृथ्वीपतिहृदयसरस्तोषशोषं दधाने त्वद्दोषणा सुप्रतापे तपति बहुगुणे रामजाम क्षितीन्द्र । सूर्यो मित्रत्वमायात्समजनि दहनः कृष्णवर्त्मा निमज्जन्पारावाराश्मपूरे निवमति वडवावह्निरन्यत्किमु द्याम् ॥ १६९ ॥
रामनाथः
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inविशिष्टराजप्रशंसा, राजविभूषावर्णनम्, गजप्रशंसा, तुरगप्रशंसा १२३
दरवता यश्च दूरीकृतार्ति. स श्रीमान्वीरसिंह त्वमिव तव रिपुस्तत्र दम्भं प्रतीमः ॥ १८८ ॥ वैकुण्ठामप्रकामः कमलयुतशिराः कुञ्जराकृष्टदृष्टिः कोदण्डोदारनामाप्यमितपरिजनो विश्वविख्यातकीर्तिः । सुन्दर्यासक्तचित्तः समरणविजयी कङ्कणाहारयुक्तो वीर श्रीवीरसिंह त्वमिव तव रिपुः किन्तु मुक्तादिवर्णः ॥ १८९ ॥
वेङ्कटपतिः
अत्र मन्मथमिवातिसुन्दरं दैनवारिमिव दिव्यतेजसम् ।
शैलैराजमिव धैर्यशालिनं वेद्मि वेङ्कटपतिं महीपतिम् ॥ १९० ॥
शाहिजहानः
भूभृन्मौलितटीषु वर्षति महाधाराधरेऽस्मिन्नसौ जाता भूप सरस्वती विजयिनी कल्लोलिनी पावनी । श्रीमच्छाद्दिजहा ब्रवीमि तदिदं माहात्म्यमस्या. कथं यस्या मज्जति पङ्कजीयति शिवस्तन्मूर्द्धजो लीयति ॥ १९१ ॥
सिन्धुराधीश्वरः
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in१२४ सुभाषितरत्नभाण्डागारम् [ ३ प्रकरणम्
भ्रमिता नमिता न न यामिति याति हयः । वियदङ्गणरिङ्गण-
रङ्गणभूर्विमृशन्निव नर्तनमातनुते ॥ ५ ॥ किमङ्गारबद्धा खुरैः
स्पर्शयन्त, कुरङ्गा इवाङ्गानि संकोचयन्त । अटन्तो
नटन्तो भट तोषयन्तस्तुरगाः सुरङ्गाः पुर गाहयन्ति
॥ ६ ॥ अलक्षितगतागतै कुलवधूकटाक्षैरिव क्षणानुवय-
शीतलैः प्रणयकेलिकोपैरिव । सुवृत्तमसृणोन्नर्तर्मुगद्गशा-
मुरोजैरिव त्वदीयतुरंगरैरिदं धरणिचक्रमाक्रम्यते ॥ ७ ॥
निर्भास मुखमण्डले परिमित मध्ये लघुं कर्णयो स्कन्धे
बन्धुरमप्रमाणमुरसि स्निग्ध च रोमोद्गमे । पीन पश्चिम-
पार्श्वयोः पृथुतर पृष्ठे प्रधानं जवे राजा वाजिनमारुरोह
सकलैर्युक्तं प्रशस्तैर्गुणैः ॥ ८ ॥ धूलीभिर्दिवमन्धयन्नबधिरय-
न्नाशा. खुराणा रवैर्वातं सयति खञ्जयञ्जवजयै. स्तोतृन्गृ-
णैर्मूकयन् । धर्माराधनसनियुक्तजगता राज्ञामुनाधिष्ठित.
सान्द्रोत्फालमिषाद्विगायति पदा स्प्रष्टुं तुरगोऽपि गाम् ॥९॥
वात
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inखड्गप्रशंसा, राजयात्रावर्णनम् १२५
वर्धयन्ती । यस्य स्फारासिधारा तडिदिव तरला वैरिकण्ठोप-
पकण्ठं प्राप्ता सद्यो नटीव प्रणयकुतुकिनी मोहमावि-
ष्करोति ॥ १७ ॥ चूडापीडाभिरामः स्फुरदुरुमणिभिर्मुद्रि-
ताकल्पभूतैर्दोर्दण्ड. कुण्डलीन्द्रस्तव जयति जगन्मण्डलाधार
एष । क्षीराब्धान्यारिकीर्तिं सपदि समुदिता पातुकाम.
प्रसर्पञ्जिह्वासुच्चैः किमेना चपलयति चमत्कारिणी खड्ग-
धाराम् ॥ १८ ॥
राजयात्रावर्णनम्
प्रयाणे तव राजेन्द्र मुक्ता वैरिदृगीदृशाम् । राजहंस
गति. पद्यामाननेन शशिद्युतिः ॥ १॥ दिङ्नारीणा स्पृशत्यर्को
रज.सन्दूषिताम्बरम् । प्रस्थाने नृपते सन्तोऽपधैर्य्यान्ति रजो-
वृताः ॥ २ ॥ त्वद्वाजिराजिनिर्यूतधूलीपटलपङ्किलाम् । न
धत्ते शिरसा गङ्गा भूरिभारभिया हर. ॥ ३ ॥ यात्रासु यस्य
ध्वजिनीभरेण दोलायमाना सकला धरित्री । आर्द्रव्रणाधि-
ष्ठितपृष्ठपीठमकर्मठं कूर्मपति चकार ॥ ४ ॥ अस्य प्रया-
णेषु समग्रशक्तेरग्रेसरैर्वाजिभिरुत्थितानि । कुर्वन्ति सीमन्त-
शिखामणीना
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in| १२६ | सुभाषितरत्नभाण्डागारम् | [ ३ प्रकरणम् |
|---|
दृशैसान्द्रेन्धनैतद्दोरुद्दामप्रतापज्वलदनलमिलद्धूमभूमभ्रमाय । एतद्दिग्जैत्रयात्रासमसमरभरं पश्यतः कस्य नासीदेतच्चेसी-रवाजिब्रजखुरजरजोजाजिंरङ्गिस्थलीषु ॥ १९ ॥ तत्तद्दिग्जैत्रयात्रोद्धुरतुरगखुरोद्गाढतैरन्धकारं निर्वाणारिप्रतापानलजमिव सृजत्येष राजा रजोभिः । भूगोल्लंघायमैयामर्यगणितविदुज्ञेयकायो भिँयाभूदेतत्कीर्तिप्रतानैर्विधुभिरिव युधे राहुराहूयमानः ॥ २० ॥ गान्धारा गुप्तदारास्त्वयि चलति गलद्वाष्पधारा विहारा रागखासान्नगाराः क्षितिपकुलमणे गुर्जरा जर्जराशाः । तैलङ्गास्त्यक्तलिङ्गास्त्रिभुवनतिलक क्लिष्टवङ्गा कलिङ्गा मोरङ्गा मुक्तकङ्गाः सपदि समभवन्वीर गङ्गाविहङ्गाः ॥ २१ ॥ काचित्कीर्णा रजोभिर्दिवमनुविदधौ मन्दवक्त्रेन्दुलक्ष्मीर्श्रीका काश्चिदन्तर्दिश इव दधिरे दाहमुद्धान्तसत्त्वाः । भ्रेमुर्वात्या इवान्याः प्रतिपदमपरा भूमिवत्कम्पमानाः प्रस्थाने पार्थिवाना मशिवमिति पुरोभावि
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inरणसामग्री, रणवर्णनम् १२७
रणसामग्री
अथोच्चकैर्जरठकपोतकन्धरातनूरुहप्रकरविपाण्डुरुद्युति । बलैश्चलच्चरणविधूतमूच्छरद्धनावलीरुदचरत् क्ष्मारज ॥ १ ॥
विष्वङ्गिभिर्भृशमितरतर क्वचित्तुरंगमौरुपरि निरूद्धनिर्गमा । चलाचलैरनुपदमाहता. खुरैर्विबभ्रुमुश्रिरमध एव धूलय. ॥ २ ॥
गरीयस. प्रचुरमुखस्य रागिणो रजोऽभवद्भवहितसत्त्वमुत्कटम् । सिसृक्षत. सरसिजजन्मनो जगद्वलस्य तु क्षयमपनेतुमिच्छत ॥ ३ ॥
पुरा शरक्षतिजनितानि सयुगे नयन्ति न. प्रसभमसृञ्जि पङ्कताम् । इति ध्रुव व्यवधिधुरत्तभीतय खमुच्चकैरनलसखस्य^१ केतवः ॥ ४ ॥
क्वचिल्लसद्धननिकुरम्बकर्बुर. क्वचिद्धिरण्मयकणपुञ्जपिञ्जर. । क्वविच्छरच्छशधरखण्डपाण्डुरः खुरक्षतक्षितितलरेणुरुद्ययौ ॥ ५ ॥
महीयसा महति दिगन्तदन्तिनामनीकजे रजसि मुखानुषङ्गिणि । विसारितामजिहत कोकिलावलीमलीमसा जलदमदाम्बुराजयः ॥ ६ ॥
शिरोरुहैरलिकुलकोमलैरमी सुधा मृधे म्रियत युवान एव
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in| १२८ | सुभाषितरत्नभाण्डागारम् | [ ३ प्रकरणम् |
|---|
शोणितसंदिग्धा नृत्यन्तो वीरपाणिषु । रजोधने रणेऽनन्ते
विद्युता विश्रमं दधु ॥ ७ ॥ शस्त्रभिन्नकुम्भेभ्यो मौक्ति-
कानि च्युतान्यधुः । आहवक्षेत्रमभ्युसत्कीर्तिबीजोत्कराश्रियम्
॥ ८ ॥ वीराणा विषमँधैर्यैर्विदृता वारणा रणे । शास्यमाना
अपि त्रासाद्भेजुर्धूताङ्कुशा दिशः ॥ ९ ॥ रणे बाणगणै-
र्भिन्ना भ्रमन्तो भिन्नयोधिनः । निममज्जर्गलद्रक्तनिमग्नासु
महागजाः ॥ १० ॥ खड्गनिर्दलनमूर्धानो निपतन्तोऽपि
वाजिनः । प्रथम पातयामासुरसिना दारितानरीन् ॥ ११ ॥
वीराणा शस्त्रभिन्नाना शिरासि निपन्त्यपि । अधावन्दन्त-
दष्टौष्ठभीषणान्यरिषु क्रुधा ॥ १२ ॥ त्रिगासि वरयोधनानामर्ध-
चन्द्रहृतान्यपि । आदढाना भृश पादै श्येना व्यानशिरे
दिशः ॥ १३ ॥ उत्क्षिप्ता अपि हस्तीन्द्रैः कोपने पत्तय
करैः । ते रिपूनहनन्खड्गपातैः स्वस्य पुरः प्रभोः ॥ १४ ॥
उत्क्षिप्य करिभिर्दूर मुक्ताना योधिना दिवि । प्रार्पि
जीवात्मभिर्दिव्याङ्गनाकण्ठपरिग्रह ॥ १५ ॥ क्रुद्धस्य
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in| रणवर्णनम् | १२९ |
|---|
त्काञ्चनकिंकिणीकुलैरमज्जि धूलीजलधौ नभोगतै ॥ ४७ ॥
घण्टारवै रौद्रतरैर्निरन्तरैर्विस्त्वैरर्गर्जरवै सुभैरवैः । मदद्वि-
पाना प्रत्यावभूविरे न वाहिनीना पटहस्य नि स्वना.॥४८॥
करालवाचालमुखैश्चमूरवै. सस्तम्बरा वीक्ष्य रजस्वला
दिशः । तिरोबभूवे गगने दिनेश्वरो रजोऽन्धकारे परित
कुतोऽप्यसौ ॥ ४९ ॥ आक्रान्तपूर्वा रमसेन सैनिकैर्दिगङ्गना
व्योमरजोभिदूषिता । भेरीरवाणा प्रतिशब्दितैर्घनैर्जगर्ज गाढ
गुरुमत्सरादिव ॥ ५० ॥ गुरुसमीरसमीरितभूधरा इव गजा
गगन विजगाहिरे । गुरुतरा बहुवारिभराधना भुबमतीय
नमन्त इवाभवन् ॥ ५१ ॥ सजग्माते तावपायानपेक्षौ
सेनाम्भोधी धीरनादौ रयेण । पक्षच्छेदात्पूर्वमेकत्र देशे
वाञ्छन्तौ वा विन्ध्यसह्यौ निलेतुम् ॥ ५२ ॥ पत्ति. पत्ति
वाजिमेयाय वाजी नाग नाग. स्यन्दनस्थो रथस्थम् । इत्थ
सेना वल्लभस्येव रागादङ्गेनाङ्ग प्रत्यनीकस्य भेजे ॥ ५३ ॥
रथ्याघोषैर्बृंहणैर्वारणानामैक्य गच्छन्वाजिना हेषया च ।
व्योमव्यापी सतत दुन्दुभीनामव्यक्तोऽभूद्धीशितेव प्रणाद
॥ ५४ ॥ रोपावेशाद्वच्छता प्रत्यमित्र
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in| १३० | सुभाषितरत्नभाण्डागारम् | [ ३ प्रकरणम् |
|---|
न्हस्ती हृष्टरोमेव रेजे ॥ ७८ ॥ आताम्राभा रोषभाजः कटान्तादाशूत्खाते मार्गणे धूर्ततेन । निश्च्योतन्ती नागराजस्य जज्ञे दानस्याहो लोहितेनेव धारा ॥ ७९ ॥ कुर्वञ्ज्योत्स्नाविप्रुषा तुल्यरूपस्तारस्ताराजालसारामिव द्याम् । खड्गाघातैर्दारिताद्दन्तिकुम्भादाभाति स्म प्रोच्छलन्मौक्तिकौघः ॥ ८० ॥ दूरोत्क्षिप्तसाक्षिपचक्रेण कृत्तं मत्तो हस्तं हस्तिराजः स्वमेव । भीमं भूमौ लोलमानं सरोषं पादेनास्रक्पङ्केऽथ पिपेष ॥ ८१ ॥ आपस्कारालूनगात्रस्य भूमिं निःसाधारं गच्छतोऽवाङ्मुखस्य । लङ्घायामे दन्तयोर्युग्ममेव स्वं नागस्य प्रापदुत्तम्भनत्वम् ॥ ८२ ॥ हस्तेनाग्रे वीतभीतं गृहीत्वा कश्चिद्व्यालः क्षिप्तवानूर्ध्वमुच्चैः । आसीनानां व्योम्नि तस्यैव हेतोर्दिव्यस्त्रीणामर्पयामास नूनम् ॥ ८३ ॥ आक्रम्यैकामग्रपादेन जङ्घामन्यामुच्चैराददानः करेण । सोऽस्थिस्फाटं दारुवद्दारुणात्मा कंचिन्मध्यात्पाटयामास दन्ती ॥ ८४ ॥ उत्प्लुत्यागादर्धचन्द्रेण लूनॆ वक्त्रेऽन्यस्य क्रोधदष्टोष्ठदन्ते । सैन्यैः कण्ठच्छेदलीने कबन्धाद्व्योम्नि
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inरणवर्णनम्, अरिपलायनम् | १३१
निष्ठुरक्षुरदृढव्रणैराचिता क्षणात्समरविच्युतप्रतिनृपालचेला-
ञ्चिता । इयं रणधरा भवद्विरददानधाराजलैः किमु व्रण-
तलेऽर्पितं वसनपट्टमासिञ्चति ॥ १११ ॥ कृपाणकिरणानलं
रुधिरनीरपूरच्छटाजटाग्रततिसंकुलं भटतिमिङ्गिलैराकुलम् ।
प्रमथ्य समरार्णवं वरमकषि लक्ष्मीस्त्वया विधाय गदमन्थरं
मथनमन्दरं सिन्धुरम् ॥ ११२ ॥ झणज्झणितकङ्कणक्वाणि-
तकिङ्किणीकं धनुर्ध्वनद्गुरुगुणाटनीकृतकरालकोलाहलम् ।
वितत्य किरतो शरानविरतस्फुरत्कुण्डयोर्विचित्रमभिवर्धते
भुवनभीममायोधनम् ॥ ११३ ॥ प्रतीक्ष्यन्ते वीराः प्रतिमु-
खमुरोभिः सरभसं विपक्षाणां हेतिः प्रतिनियतधैर्यानुभवतः ।
विदीर्णत्वग्भारादलितपिशितच्छिन्नधमनिप्रकाण्डस्थास्थ्नायु-
स्फुटतरविलक्ष्याग्रनिवहाः ॥ ११४ ॥ शितैर्बाणैरैके मृध-
भुवि परे तीक्ष्णनखरैः क्रियामातत्यैनाप्यहमहमिकामान्त-
मनसः । मिथो विन्ध्यन्ति स्म प्रबलतमसमर्दविदलक्षिति-
क्षोदपिधातकसुरभिवक्षस्तटभृतः ॥ ११५ ॥ भलैर्भिन्नाः
प्रतिनृपतयः
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in| १३२ | सुभाषितरत्नभाण्डागारम् | [ ३ प्रकरणम् |
|---|
हरिणीनामुन्नतो भ्रूलतानां प्रसरति रतिजानिग्नानिजन्मा
विवर्तः ॥ १३ ॥ वर्षासु भीतमवशाद्विभुजं भुजगेमेकं निगृ-
ह्य शिरसि स्थितमञ्जनाभम् । शून्ये तवारिनगरे शबरी
सशङ्कमादित्सते कनकमुष्टिकृपाणलोभात् ॥ १४ ॥ स्फुट-
तरमटवीनां प्रान्तरे पर्यटन्ती हरितगजकुम्भोन्मुक्तमु-
क्ताफलानि । परिकरयति हस्ताम्भोजशोणप्रभाभिः परिहरति
च दृगन्मक्षु गुञ्जाभ्रमेण ॥ १५ ॥ ये कन्दरासु निवसन्ति
सदा हिमाद्रेस्त्वत्पातशङ्कितधियो विवशा द्विषस्ते । अप्यङ्ग-
मुत्पुलकमुद्वहता सकम्पं तेषामहो बत भिया न बुधोऽप्य-
भिज्ञः ॥ १६ ॥ कुरूबक कुचाघातक्रीडासुखेन वियुज्यसे
बकुलविटपिन्स्मर्तव्यं ते मुखासवसेचनम् । चरणघटनाबन्धो
यास्यत्यशोक सशोकतामिति निजपुरत्यागे यस्य द्विषां जगदुः
स्त्रियः ॥ १७ ॥ अनारतपरिखलन्नयनवारिधाराशतप्रवृद्ध-
पथनिम्नगासलिलरुद्धयानोद्यमा । त्वदीयरिपुकामिनी बहुविदे-
शयानैषिणी विनिन्दति वलदृशा गुरुरूपाश्रुप प्रावृषम् ॥ १८ ॥
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inअरिपलायनम्, प्रतापवर्णनम् १३३
मतिम् । तावत्तत्र निपातित भुवि भवन्नामाङ्कसेलोहत दृष्ट्वा केसरिण करङ्कमैसमत्रासो मुहुर्मूर्च्छति ॥ ३७ ॥ का त्व पुनि नरेन्द्र लुब्धकवधूर्हस्ते किमेतत्पलं क्षाम कि सहजं ब्रवीमि नृपते यद्यस्ति ते कौतुकम् । गायति त्वदरिप्रिया- श्रुतटिनीतीरेषु सिद्धाङ्गना गीतान्या न तृण चरन्ति हरि- णास्तेनामिव दुर्बलम् ॥ ३८ ॥ स्वप्नेऽपि क्षितिपावतम भवतो भीत्या व्रजन्ती वन निर्भया प्रतिपक्षवैरिरमणी कलो- लिनीपाधसि । उक्षिसाननमुन्नत्तश्च चरणव्यासक्तमुक्तताफल भूय स्फारितबाहुवल्लि शयनादुद्धान्तमुत्तिष्ठति ॥ ३९ ॥ ता- दृग्दण्डविवर्तनर्तितममी चक्रादपक्रामिता कापि कापि च काटकैरुपगता रेखोपरेखाश्रमम् । यस्य प्रौढतरप्रतापदहन- ज्वालाभिग्न्ते दिशामान्धाके निपतन्ति पार्थिवघटाः शीर्यन्ति वीर्यन्ति च ॥ ४० ॥ आगच्छागच्छ सज्जं कुरु वरतुरंग सन्निवेहि द्रुतं मे खङ्गं कासौ कृपाणीमुपनय धनुषा कि किमङ्गप्रविष्टम् । सरम्मोन्निद्रिताना
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in| १३४ | सुभाषितरत्नभाण्डागारम् | [ ३ प्रकरणम् |
|---|
मन्ये देव तया क्रमेण जनितो युष्मत्प्रतापानलो येनाराति-
वधूविलोचनजलैः सिक्तोऽपि $^१$संवर्धते ॥ १५ ॥ देव त्वद्भु-
जदण्डदर्पगरिमोद्गीर्णप्रतापानलज्वालापङ्किमकीर्तिपारदघटी-
विस्फारिता बिन्दवः । शेषाद्रिः कति तारकाः कति कति क्षीरो-
दधिः कत्यपि प्रालेयाचलशङ्खशुक्तिकरका कर्पूरकुन्देन्दव
॥ १६ ॥ भैङ्गाकीर्तिमषीमलीमसतया प्रत्यर्थिसेनाभटश्रेणी-
तिन्दुककाननेषु विलसत्यस्य प्रतापानलः । अस्मादुत्पतिताः
स्फुरन्ति जगदुत्सङ्गे स्फुलिङ्गाः स्फुटं भालोद्भूतमैवाक्षि-
भानुहुतभुग्जम्भारिदम्भोलयः ॥ १७ ॥ तादृग्दीर्घविरिञ्चि-
वासरविधौ जानामि यत्कर्तृता शङ्के यत्प्रतिबिम्बमम्बुधि-
पयःपूरोदरे वाडवः । व्योमव्यापिविपक्षराजयशस्तारापरा-
भावुक कासामस्य न स प्रतापतपनः पारं गिरा गाहते
॥ १८ ॥ शंभुर्मानससन्निधौ सुरधुनीं मूर्ध्ना दधानः स्थितः
श्रीकान्तश्चरणस्थितामपि वहन्नेता निलीनोऽम्बुधौ । मग्नः
पङ्करुहे कमण्डलुगतामेना
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inकीर्तिवर्णनम् १३५
पीत हासक्षीर व्यक्तीकृतमश्रुनीर च ॥ ७ ॥ कुचकलशेष्व-
बलानामलकायामथ पयोनिधेः पुलिने । क्षितिपाल कीर्त-
यस्ते हारन्ति हरन्ति हीरन्ति ॥ ८ ॥ रजनीषु विमलभानोः
करजालेन प्रकाशितं वीर । धवलयति भुवनमण्डल-
मखिलं तव कीर्तिसंततिः सततम् ॥ ९ ॥ दूरेऽपि श्रुत्वा
भवदीयकीर्तिं कर्णौ हि तृप्तौ न च चक्षुषी मे । तयोर्वि-
वाद परिहर्तुकामः समागतोऽहं तव दर्शनाय ॥ १० ॥
आकर्ण्य भूपाल यशस्त्वदीय विधूनेयन्तीह न के शिरांसि ।
विश्वंभराभङ्गमयेन धात्रा नाकारि कर्णौ भुजंगेश्वरस्य ॥११॥
यस्याञ्जनश्यामलबद्धपट्टजातानि जाने धवलत्वमापुः ।
अरातिनारीशरकाण्डपाण्डुगण्डस्थलीनिर्लुठनाथशसि ॥१२॥
यः कोटिहोमानलधूमजालैर्मलीमसीकृत्य दिशा मुखानि ।
तत्कीर्तिभिः क्षालयति स्म शश्वत्खण्डतारापतिपाण्डुरा-
भिः ॥ १३ ॥ इयं यशांसि द्विषतः सुधारुचः किमुङ्कमेतद्वि-
षतः किमाननम् । यशोभिरस्याखिललोकधाविभिर्विभूषिता
धावति तामसी मसी ॥ १४ ॥ अदः समित्सुम्लवीरयौवत-
त्रुटद्गजाकैम्बुमृणालहारिणी ।
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in| १३६ | सुभाषितरत्नभाण्डागारम् | [ ३ प्रकरणम् |
|---|
दीये ॥ ३२ ॥ कि वृत्तान्ते परगृहगते किंतु नाहं समर्थस्तूर्णीं स्थातु प्रकृतिमुखरो दाक्षिणात्यस्वभावः । गेहे गेहे विपणिषु तथा चत्वरे पानगोष्ठ्यामुन्मत्तेव भ्रमति भवतो वल्लभा देव कीर्तिः ॥ ३३ ॥ कैलासस्य प्रथमशिखरे वेणुसमूर्च्छनाभिः श्रुत्वा कीर्ति विबुधरमणीगीयमाना यदीयाम् । संस्तापाङ्गा सरसबिसिनीकाण्डसजातशङ्का दिङ्मातङ्गा श्रवणपुलिने हस्तमावर्तयन्ति ॥ ३४ ॥ अध्याहार खरहरशिरश्चन्द्रशेषस्य शेषस्याहेर्भूय फणसमुचित काययष्ठीनिकायं । दुग्धाम्भोवेर्मुनिचुलकनत्रासनाशाभ्युपायः कायव्यूह क्व जगति न जागर्त्यदं कीर्तिप्रप ॥ ३५॥ कथमननिप दर्पो यन्निघातात्मिवागद्दलर्नगलितमृता विद्विषा स्वीकृता श्री । ननु तव निहताशेषगर्वस्य कि न नीता त्रिदिवमपगताङ्गेनिहभा कीर्तिरभी ॥ ३६ ॥ समितिपतिनिपाताकर्णनद्रागदीर्णप्रतिनृपतिमृगाक्षीलक्षनक्षःशिलासु ।
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inकीर्तिवर्णनम् १३७
कैरवीयति कुलं नीलोत्पलाना वने । कर्पूरीयति कज्जलं
पिककुलं लीलामरालीयति स्वे कुम्भीयति कुम्भिनामपि घटा
त्वत्कीर्तिसङ्घट्टतः ॥ ५४ ॥ पूर्णेन्दुः करकन्दुको हिमगिरिः
क्रीडाविहारस्थली क्षीराब्धिर्गृहदीर्घिका प्रियसखी वाचा पति-
र्देवता । शय्या दिग्गजराजदन्तवलभी त्वत्कीर्तिकन्याकृते
पाञ्चालीमिथुन व्यधाथि विधिना गौरीगिरीशावपि ॥ ५५ ॥
शत्रुक्षत्त्रकलत्रनेत्रसलिलैर्जम्बालजालस्पृशि भ्रान्त्वा भूपति
भालभूषण भवत्कीर्तिर्भुवो मण्डले । यद्यान्ती विबुधा-
लयं प्रति सुधाकुण्डे सुधाशोर्ध्वपादंक्षिक्षालनमित्ययं किल
मलस्तस्मिन्गत स्मेरताम् ॥ ५६ ॥ एतत्कीर्तिविवर्तधौत-
निखिलत्रैलोक्यनिर्वासितैर्विश्रान्ति. कलिता कथासु जरता
ईयौमै. समग्रैरपि । जज्ञे कीर्तिमयादहो भयमभैरत्साद-
कीर्तिः पुनः सा यन्नास्य कथापथेऽपि मलिनच्छाया
बबन्ध स्थितिम् ॥ ५७ ॥ त्वत्तेजःप्रतिभाभयादप-
सुताः प्रत्यर्थिभूमृत्स्त्रियः कान्तारे घनकण्टकिद्रुम-
वनव्यस्तप्रयुक्ताम्बरा । आर्याणा पुरतस्त्रपापरवशा
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in| १३८ | सुभाषितरत्नभाण्डागारम् | [ ३ प्रकरणम् |
|---|
स्तारिणी । आस्ते ते कलिकालकल्मषमषीप्रक्षालनैकक्षमा
कीर्तिः सन्निहितेव सप्तभुवनस्वच्छन्दमन्दाकिनी ॥ ७४ ॥
क्षीरोदीयन्ति सद्यः सकलजलधयो वासुकीयन्ति नागा
कैलासीयन्ति शैला दिवि च दिविषदः शकरीयन्ति सर्वे ।
यौष्माकीणे समन्ताच्चलति धवले चारुकीर्तिप्रताने मद्यो-
पाकाचम्भूषा किमिति न सहसा मौक्तिकीयान्ति देव ॥७५॥
उद्यद्बालाङ्कुरश्रीर्दिशि दिशि दशनैरेभिरागाग्रजानां रोह-
न्मूलासुगौरैरुरगपतिफणैरत्र पातालकुक्षौ । अस्मिन्नाकाश-
देशे विकसितकुसुमा राशिभिस्तारकाणां नाथ त्वत्कीर्तिवल्ली
फलति फलमिदं बिम्बमिन्दोः सुधाब्धिम् ॥ ७६ ॥ वापी
पातालमूलं जलमुरगनदी कच्छपः स्वच्छकन्दः शेषो
नालं दलानां विततिरपि फणाः कर्णिका शैवशैलः । तारा-
स्तारा परागा मधु च मधुमती केसरा दन्तिदन्तास्त-
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inकीर्तिप्रतापौ, राज्याधिकारगर्हणम्, राजसेवकः रथवेगवर्णनम् १३९
विमलयति जगन्ति देव कीर्तिस्ते । मित्रौह्लादं कर्तु मित्रौय^१
द्रुह्यति प्रतापोऽपि ॥ २ ॥ सिन्दूर सीमन्तात्स्मित मुखा-
द्वैरिराजवनितानाम् । यस्य प्रतापयशसी हरतः स्व सह-
ग्गुणासहने ॥ ३ ॥ तदोजसस्तद्यशस. स्थिताविमौ वृथेति
चित्ते कुरुते यदा यदा । तनोति भानो. परिवेषकैतवात्तदा
विधिः कुँण्डलना विधोरपि ॥ ४ ॥ कीर्त्यास्य चन्द्रकरको-
मलयोतिशुभ्रं शोणं नवार्ककिरणप्रतिमप्रतापैः । श्यामद्युति
द्विषदकीर्तिमषीभिरित्थ चित्र तदम्बरमराजत दिग्वधू-
नाम् ॥ ५ ॥ क्षितिप किमपि चित्र जागरूकेऽपि युष्म-
द्यशसि शशिकदम्बे त्वत्प्रतापेऽर्कबिम्बे । नयनकुवलयानि
त्वद्द्विषत्कामिनीनामपि च वदनपद्मान्याशु यत्सङ्कुचन्ति॥६॥
गुणागारे गौरे यशसि परिपूर्णे विलसति प्रतापो वा
भिन्नान्दहति तव भूमीन्द्रतिलक । नवैव द्रव्याणीत्यकथ-
यदहो मूढतमधीश्चतुर्था तेजोऽपि व्यभजत
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in| १४० | सुभाषितरत्नभाण्डागारम् | [ ३ प्रकरणम् |
|---|
पांसुपटलानुमितप्रबन्धधावत्खुराग्रचयचुम्बितभूमिभागा । निर्मध्यमानजलधिध्वनिघोरघोषमेते रथं गगनसीम्नि वहन्ति वाहाः ॥ २ ॥ मुक्तेषु रश्मिषु निरायतपूर्वकाया निष्कम्पचामरशिखा निभृतोर्ध्वकर्णा । वातोद्धतैरपि रजोभिरलङ्घनीया धावन्त्यमी मृगजवाक्षमयेव रथ्याः ॥ ३ ॥ यदालोके सूक्ष्मं व्रजति सहसा तद्विपुलतां यदन्तर्विच्छिन्नं भवति कृतसंधानमिव तत् । प्रकृत्या यद्वक्रं तदपि समरेखं नयनयोर्न मे दूरे किंचित्क्षणमपि न पार्श्वे रथजवात् ॥ ४ ॥ विच्छिन्ना रथचक्रपद्धतिरियं हेलाप्लुतैर्वाजिनामायान्तीव जवेन संमुखममी मार्गस्थिताः शाखिनः । खेदं पादतलेहतेरिव पुरो गन्तुं गतो नेहते पादानामनुकूलमारुतभरोद्भूतोऽपि धूलिव्रज ॥ ५ ॥ अग्रे यान्ति रथस्य रेणुवदमी चूर्णीभवन्तो घनाश्चक्रभ्रान्तिरन्तरान्तरेषु जनयत्यन्यामिवा-रावलिम् । चित्रन्यस्तमिवाचलं
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in