सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
by पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य)
Source: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (origin)
Page 145 of 516
Read in context| १३० | सुभाषितरत्नभाण्डागारम् | [ ३ प्रकरणम् |
|---|
न्हस्ती हृष्टरोमेव रेजे ॥ ७८ ॥ आताम्राभा रोषभाजः कटान्तादाशूत्खाते मार्गणे धूर्ततेन । निश्च्योतन्ती नागराजस्य जज्ञे दानस्याहो लोहितेनेव धारा ॥ ७९ ॥ कुर्वञ्ज्योत्स्नाविप्रुषा तुल्यरूपस्तारस्ताराजालसारामिव द्याम् । खड्गाघातैर्दारिताद्दन्तिकुम्भादाभाति स्म प्रोच्छलन्मौक्तिकौघः ॥ ८० ॥ दूरोत्क्षिप्तसाक्षिपचक्रेण कृत्तं मत्तो हस्तं हस्तिराजः स्वमेव । भीमं भूमौ लोलमानं सरोषं पादेनास्रक्पङ्केऽथ पिपेष ॥ ८१ ॥ आपस्कारालूनगात्रस्य भूमिं निःसाधारं गच्छतोऽवाङ्मुखस्य । लङ्घायामे दन्तयोर्युग्ममेव स्वं नागस्य प्रापदुत्तम्भनत्वम् ॥ ८२ ॥ हस्तेनाग्रे वीतभीतं गृहीत्वा कश्चिद्व्यालः क्षिप्तवानूर्ध्वमुच्चैः । आसीनानां व्योम्नि तस्यैव हेतोर्दिव्यस्त्रीणामर्पयामास नूनम् ॥ ८३ ॥ आक्रम्यैकामग्रपादेन जङ्घामन्यामुच्चैराददानः करेण । सोऽस्थिस्फाटं दारुवद्दारुणात्मा कंचिन्मध्यात्पाटयामास दन्ती ॥ ८४ ॥ उत्प्लुत्यागादर्धचन्द्रेण लूनॆ वक्त्रेऽन्यस्य क्रोधदष्टोष्ठदन्ते । सैन्यैः कण्ठच्छेदलीने कबन्धाद्व्योम्नि
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in