सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
by पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य)
Source: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (origin)
Page 92 of 516
Read in context| तृष्णानिन्दा, धीरप्रशंसा | ७७ |
|---|
विशीर्णा दन्तालिः श्रवणविकलो श्रोत्रयुगलम्। शिरः शुक्ल
चक्षुस्तिमिरपटलैरावृतमहो मनो मे निर्लज्ज तदपि विषयेभ्यः
स्पृहयति ॥ ४२ ॥ खलोल्लापा सोढाः कथमपि तदाराधन-
तया निगुह्यान्तर्बाष्पं हसितमपि शून्येन मनसा। कृत-
श्चित्तस्तम्भः प्रतिहतधियामञ्जलिरपि त्वमाशे मोघाशे किमु
परमितो नर्तयसि माम् ॥ ४३ ॥ निवृत्ता भोगेच्छा बहु-
पुरुषमानो विगलितः समानाः खर्याततः सपदि सुहृदो जीवित-
समाः । शनैर्यष्ट्युत्थानं घनतिमिररुद्धे च नयने अहो
दुष्टः कायस्तदपि मरणापायचकितः ॥ ४४ ॥ अमीषां
प्राणानां तुलितबिसिनीपत्रपयसा कृते किं नास्माभिर्विगलित-
विवेकैर्यवसितम् । यदाढ्यौनामग्रे द्रविणमदनिःसङ्गमनसा
कृतं वीतव्रीडैर्निजगुणकथापातकमपि ॥ ४५ ॥ समारम्भा
भग्नाः कति कति न वारास्तव पशो पिपासोस्तुच्छेद्सिन्द्र-
विणमृगतृष्णार्णवजले । तथापि प्रत्याशा विरमति न ते मूढ
शतधा न दीर्णं यच्चेतो नियतमशनिग्रावघटितम् ॥ ४६ ॥
विवेकव्याकोशे विकसति शमे
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in