सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
by पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य)
Source: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (origin)
Page 82 of 516
Read in contextदरिद्रनिन्दा
शय्या वसनं च वल्कलं न बन्धुमध्ये धनहीनजीवनम् ॥ ४६ ॥
यदा तु भाग्यक्षयपीडिता दशां नरः कृतान्तोपहितां प्रपद्यते । तदास मित्राण्यपि यान्त्यमित्रतां चिरानुरक्तोऽपि विरज्यते जनः ॥ ४७ ॥
दानं न दत्तं न तपश्च तप्तं नाराधितौ शंकरवासुदेवौ । अग्नौ रणे वा न हुतश्च कायः शरीर किं प्रार्थयसे सुखानि ॥ ४८ ॥
फलाशिनो मूलतृणाम्बुभक्षा विवाससो निस्तरशायिनश्च । गृहे विमूढा मुनिवच्चरन्ति तुल्यं तपः किन्तु फलेन हीनम् ॥ ४९ ॥
अर्था न सन्ति न च मुञ्चति मा दुराशा दानान्न संकुचति दुर्ललितं मनो मे । याञ्चा च लाघवकरी स्ववधे च पापं प्राणाः स्वयं व्रजत किं हि विलम्बनेन ॥ ५० ॥
मग्ना वय परिभवासिभिरुग्रधारैर्दारिद्र्यचण्डदहनेन नितान्तदग्धाः । बन्धूपकारविषमिश्वमपीह मुक्तं जीवाम एव रविजस्य किमस्ति निद्रा ॥ ५१ ॥
धनं यदि गतं गतं चरणयुग्मरेणूत्तमं धरा यदि गता गता कथय मे किमेतावता । इदं पुनर्ररेन्तुदं धनिगणैरिदानीन्तनैर्दरिद्रगणनाविधौ यदहमङ्कपाते धृतः ॥ ५२
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in