सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
by पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य)
Source: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (origin)
Page 79 of 516
Read in context| ६४ | सुभाषितरत्नभाण्डागारम् | [ २ प्रकरणम् |
|---|
स्त्येन तातश्चरणतलहतो वल्लभोऽन्येन रोषाद्बाल्याद्विप्रवर्यैः स्ववदनविवरे धारिता वैरिणी मे । गेह मे छेदयन्ति प्रतिदिवसमुमाकान्तपूजानिमित्तं तस्मात्खिन्ना सदाह द्विजकुलसदन नाथ नित्य त्यजामि ॥ ४३ ॥
धनप्रशंसा
अहो कनकमाहात्म्य वक्तु केनापि शक्यते । नामसाम्यादहो चित्र धत्तूरोऽपि मदप्रदः ॥ १ ॥ न वित्त दर्शयेत्प्राज्ञः कस्यचित्स्वल्पमप्यहो । मुनेरपि यतस्तस्य दर्शनाच्चलते मनः ॥ २ ॥ धनमर्जय काकुत्स्थ धनमूलमिद जगत् । अन्तर नैव पश्यामि निर्धनस्य मृतस्य च ॥ ३ ॥ ब्रह्मघ्नोऽपि नरः पूज्यो यस्यास्ति विपुल धनम् । शशिना तुल्ययशोऽपि निर्धनः परिभूयते ॥ ४ ॥ कुत आगत्य घटते विघट्य क्व नु याति च । न लक्ष्यते गतिश्चित्रा धनस्य च घनस्य च ॥ ५ ॥ स्त्रीरूप मोहक पुसो यून एव भवेत्क्षणम् । कनक क्लीबालवृद्धषण्ढानामपि सर्वदा ॥ ६ ॥ न नरस्य नरो दासो दासश्चार्थस्य भूपते । गौरव
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in