सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
by पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य)
Source: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (origin)
Page 68 of 516
Read in contextसज्जनप्रशंसा | ५३
जन करोति सुखिनं आसावशेषैः करैः^१ ॥ २५८ ॥ वाञ्छा सज्जनसंगमे परगुणे प्रीतिर्गुरौ नम्रता विद्याया व्यसनं स्वंयोषिति^२ रतिर्लोकापवादाद्भयम् । भक्ति शूलिनि^३ शक्तिरात्मदमने संसर्गमुक्ति खलेष्वेते येषु वसन्ति निर्मलगुणास्तेभ्यो नरेभ्यो नमः ॥ २५९ ॥ दृश्यन्ते भुवि भूरि निम्बतरव. कुत्रापि ते चन्दना. पाषाणै. परिपूरता वसुमती वंज्रो^५ मणिर्दुर्लभः । श्रूयन्ते करटारवाश्च^६ सतत चैत्रे कुँहूकूजित^७ तन्मन्ये खलसंकुल जगदिद द्विंत्राः क्षितौ सज्जना. ॥ २६० ॥ घर्मातं न तथा सुशीतलजलै. स्नान न मुक्तावलिर्न श्रीखण्डविलेपन सुखयति प्रत्यङ्गमप्यर्पितम् । प्रीत्ये सज्जनभाषित प्रभवति प्रायो यथा चेतस. सद्युक्त्या च पुरस्कृत सुकृतिनामाकृथिमंप्रोपमम्^४ ॥ २६१ ॥ धर्मे तत्परता मुखे मधुरता दाने समुत्साहिता मित्रेऽवञ्चकता गुरौ विनयिता चित्तेऽतिगम्भीरता । आचारे शुचिता गुणे रसिकता शास्त्रेऽतिविज्ञानिता रूपे सुन्दरता हरौ भजनिता सत्स्वेव संदृश्यते ॥ २६२ ॥
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in