Skip to content
SarvaKosh
सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

by पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य)

Source: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (origin)

Report a copyright issue

DevanagariSanskritpublished516 pages

Page 66 of 516

Read in context
Page 66
Page 66 scan

सज्जनप्रशंसा


जववशीकृतखिन्नदेहः पूर्वोपकारिषु खलोऽपि हि सानुकम्पः ॥ २१३ ॥ नान्तर्विचिन्तयति किंचिदपि प्रतीपमाकोपितोऽपि सुजनः पिशुनेन पापम् । अर्कद्विषोऽपि हि सुखे पतिताग्रभागास्तारापतेरमृतमेव करा. किरन्ति ॥२१४॥ हेतो कुतोऽप्यसदृशाः सुजना गरीयः कार्य निसर्गगुरव. स्फुटमारभन्ते । उत्थाय किं कलशतोऽपि न सिन्धुनाथमुद्वीचिमालमपिबद्भगवानगस्त्यः ॥ २१५ ॥ पात्रं पवित्रयति नैव गुणान्क्षिणोति स्नेहं न संहरति नापि मलं प्रसूते । दोषावसानरुचिरश्वलता न धत्ते सत्सङ्गमः सुकृतसद्मनि कोऽपि दीपः ॥ २१६ ॥ उदधिरवधिरुर्व्यास्तं हनूमांस्तेतार निरवधि गगन चेत्काण्डैकोशे विलीनम् । इति परिमितिमन्तो भान्ति सर्वेऽपि भावाः स तु निरवधिरेकः सज्ज नाना विवेकः ॥ २१७ ॥ नहि भवति वियोगः स्नेहविच्छेदहेतुर्जगति गुणनिधीना सज्जनाना कदाचित् । घनतिमिरनिवद्धो दूरसस्थोऽपि चन्द्रः किमु कुमुदवनाना प्रेमभङ्ग करोति ॥ २१८ ॥ धवलयति समग्र चन्द्रमा जीवलोक किमिति

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in