सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
by पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य)
Source: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (origin)
Page 64 of 516
Read in contextसज्जनप्रशंसा | ४९
यया ॥ १५१ ॥ वचनैरसता महीयसो न खलु व्येति गुरुत्वमुद्धतैः । किमपैति रजोभिरौर्वरैरवकीर्णस्य मणेर्महार्घता ॥ १५२ ॥ प्रकटान्यपि नैपुण महत्तरैर्वाच्यानि चिराय गोपितुम् । विवरीतुमथात्मनो गुणान्भृशमाकौशलमार्यचेतसाम् ॥ १५३ ॥ किमिवाखिललोककीर्तितं कथयत्यात्मगुणं महामनाः । वदिता न लघीयसोऽपरः स्वगुणं तेन वदत्यसौ स्वयम् ॥ १५४ ॥ विसृजन्त्यन्तैर्विविधिनः परे विषमाशीविषवन्नराः क्रुधम् । दधतोऽन्तरसाररूपतां धनिसाराः पटहा इवेतरे ॥ १५५ ॥ जितरोषतया महाधियः सपदि क्रोधजितो लघुर्जनः । विजितेन जितस्य दुर्मतेर्मतिमद्भिः सह का विरोधिता ॥ १५६ ॥ इयमुन्नतसत्त्वशालिनां महतां कापि कठोरचित्तता । उपकृत्य भवन्ति दूरतः परत प्रत्युपकारशङ्कया ॥ १५७ ॥ सावलेपमुपलििप्सते परैरभ्युपैति विकृति रजस्यपि । अर्थितस्तु न महान्समीहते जीवितुं किमु धनं धनायितुम् ॥ १५८ ॥ आदिमध्यनिधनेषु मोहदं सज्जने भवति नेतरे जने । छेदतापनविघर्षताडनैर्हेन्येभावमुपयाति
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in