Skip to content
SarvaKosh
सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

by पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य)

Source: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (origin)

Report a copyright issue

DevanagariSanskritpublished516 pages

Page 62 of 516

Read in context
Page 62
Page 62 scan

सज्जनप्रशंसा । ४७


सत्यं न साधुवृत्तस्य दृश्यते पुनरुक्तता ॥ ७८ ॥ सत्पक्षा ऋजवः शुद्धाः सफला गुणसेविनः । तुल्यैरपि गुणैश्चित्रं सन्तः सन्तः शराः शराः ॥ ७९ ॥ लाभप्रणयिनो नीचा मानकामा मनस्विनः । मङ्गुः सरसि मत्स्यार्थी हंसस्येष्टा प्रसन्नता ॥ ८० ॥ परदुःखं समाकर्ण्य स्वभावसरलो जनः । उपकारासमर्थत्वात्पामोति हृदये व्यथाम् ॥ ८१ ॥ वित्ते त्यागः क्षमा शक्तौ दुःखे दैन्यविहीनता । निर्दम्भता सदाचारे स्वभावोऽयं महात्मनाम् ॥ ८२ ॥ न कदाचित्सता चेत प्रसरत्यधकर्मसु । जलेषु द्रुतमप्यन्तः सर्पिराश्योनता व्रजेत् ॥ ८३ ॥ सांगसेऽपि न कुप्यन्ति कृपया चोपकुर्वते । बोध स्वस्यैव नेच्छन्ति ते विश्वोद्धरणक्षमाः ॥ ८४ ॥ साभिमानमसम्भाव्यमौचित्यच्युतमप्रियम् । दुःखवामवानदीन वा न वदन्ति गुणोन्नताः ॥ ८५ ॥ आपत्स्वेव हि महता शक्तिरभिव्यज्यते न सपत्सु । अगुरोस्तथा न गन्धः प्रागस्ति यथाग्निपतितस्य ॥ ८६ ॥ शून्येऽपि च गुणवत्तामातन्वानः

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in