सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
by पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य)
Source: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (origin)
Page 55 of 516
Read in context४० सुभाषितरत्नभाण्डागारम् [२ प्रकरणम्
॥ २१ ॥ केषांचिद्वाचि शुकवत्परेषां हृदि मूकवत् । कस्याप्या हृद्याद्वक्त्रे वल्गु वल्गन्ति सूक्तयः ॥ २२ ॥ बहूनि नरशीर्षाणि लोमशानि बृहन्ति च । ग्रीवासु प्रतिबद्धानि किंचित्तेषु सकर्णकम् ॥ २३ ॥ कवीनां महतां सूक्तैर्गूढार्थान्तरसूचिभिः । विध्यमानश्रुतेर्मा भूद्दुर्जनस्य कथं व्यथा ॥ २४ ॥
अज्ञः सुखमाराध्यः सुखतरमाराध्यते विशेषज्ञः । ज्ञानलवदुर्विदग्धं ब्रह्मापि नरं न रञ्जयति ॥ २५ ॥ गुणिगणगणनारम्भे न पतति कठिनी सुँसम्भ्रमाद्यस्य ॥ तेनाम्बा यदि सुँतिनी वद वन्ध्या कीदृशी भवति ॥ २६ ॥ निर्गुण इति मृत इति च द्वावेकार्थाभिधायिनौ विद्धि । पश्य धनुर्गुणशून्यं निर्जीवं यदिह शमन्ति ॥ २७ ॥ अन्तर्भूतो निवसति जडे जडः शिशिरमहसि हरिण इव । अजडे शशीव तपने स तु प्रविष्टोऽपि न सरति ॥ २८ ॥ जीवितं इव कण्ठगते सूक्ते दुःखासिका कवेस्तावत् । नयनविकासविधायी सचेतनाम्यागमो यावत् ॥ २९ ॥ साहित्यसंगीतकलाविहीनः साक्षात्पशुः पुच्छविषाणहीनः । तृणं न खादन्नपि जीवमानस्तद्भागधेयं
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in