Skip to content
SarvaKosh
सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

by पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य)

Source: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (origin)

Report a copyright issue

DevanagariSanskritpublished516 pages

Page 368 of 516

Read in context
Page 368
Page 368 scan

असतीचरित्रम्

३५३


धन्या नवजलदविन्यासचतुरा पराधीनं चेतः सखि किमपि कर्तुं मृगयते ॥ ३५ ॥ स्थितिर्गेहोपान्ते परिजनपरीहासकलना मुहुर्यातायाते सकृदपि गृहे व्याजगमनम् । मुहुस्तद्योग्येऽपि क्षणपरिचयो वस्तुनि दृशः समुत्पन्ने प्रेम्नः सकलमिदमापातसुखदम् ॥ ३६ ॥ नितम्बिन्यो नित्यं विनयपथविन्यस्तमनसः पताकाः स्युः पुत्रि प्रतिनियतमेताः स्वकुलयोः । गुरोरित्यादेशं सदसि सुदृशामङ्गीकृतवती गतातङ्कं राधा हरिमुखमगाङ्कं मृगयते ॥ ३७ ॥ अये को जानीते निजपुरुषसङ्गो नहि तथा यथा स्त्रीणां चेतः परपुरुषसङ्गो रमयति । अपि स्वैरं भुक्ता दिवसमखिलं वासरकृता करस्पर्शादिन्दोर्मुकुलयति नेत्राणि नलिनी ॥ ३८ ॥ ताम्बूलाक्तं दशनमसकृद्दर्शयन्तीह चेटी घोटीहेषा विकृतविरुतं हेतुहीनं हसन्ती । स्थानस्थानस्खलितपदविन्यासमाभासमाना यूनामग्रे वसति कुटिलं नर्तितोश्चैर्नितम्बम् ॥ ३९ ॥ ज्ञाता मैत्री सहजमधुरापातिमिलोचितान्तैः कर्णार्कर्णि प्रथितमयशो बन्धुवर्गेरभाणि । सप्रत्येवं तदपि न मनाङ्मुञ्चति प्राणनाथं

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in