सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
by पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य)
Source: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (origin)
Page 363 of 516
Read in context३४८ सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्
गन्धाविलं सद्यो गोघृतपाचिता न वटका. शीतं कथं गम्यते ॥ १४ ॥ चुलीसीमनि गोरसार्द्रमशनं भुक्त्वा परीत्याऽर्भकैरभ्याशे ख्रुक्पूषीक्षुयन्त्रनिनदं हर्षात्समाकर्णयन् । शेते संहतगोगणोष्मणि गृहे स्रस्ताम्बरां गेहिनीमालिङ्गयागणयन्नि॒िशासु तुहिनं प्रौढामरः पामरः ॥ १५ ॥
दृङ्मीलनक्रीडा
न पाणिप्रच्छाद्य नयनयुगमत्यायतमइदं नितम्बसौंदार्यात्त्वरितगतियोगोऽप्यसुलभः । अतिकल्पौ पाणी स्तनभरनिरोधान्न मिलितौ निमीलत्क्रीडाया कलुषयसि मुग्धे किमिति न. ॥ १६ ॥ नैतस्याः प्रसृतिद्वयेन सरले शक्ये विधातुं दृशौ सर्वत्रैव विलोक्यते मुखशशिज्योत्स्नावितानैरियम् । इत्थं बालतया सखीभिरसकृद्दृङ्मीलनाकेलिषु व्याषिद्धा रजनीमुखे च नयने स्वे गर्हते कन्यका ॥ १७ ॥
शिशिरवायवः
केशानाकुलयन्दृशौ मुकुलयन्वासो बलादाक्षिपन्नान्वन्पुलकोद्गमं प्रकटयन्नावेगकम्प गतेः । वारंवारमुदारसीत्कृतभरैर्दन्तच्छदं पीडयन्प्रायः शैशिर एष संप्रति
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in