सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
by पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य)
Source: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (origin)
Page 345 of 516
Read in context३३० सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्
पादान्तः प्रत्याख्यानपराङ्मुख. प्रियतमो गन्तुं प्रवृत्तो-
ऽधुना । सन्नीडैररसैर्निरन्तरलुठद्बाष्पाकुलैर्लोचनैः श्वासोत्कम्प-
कुचं निरीक्ष्य सुचिरं जीवाशया वारित. ॥ २३ ॥
कान्तो यास्यति दूरदेशमिति मे चिन्ता परं जायते लोका-
नन्दकरो हि चन्द्रवदने वैरायते चन्द्रमा । किं चायं
वितनोति कोकिलकलालापो विलापोदय प्राणानेव हरन्ति
हन्त नितरामाराममन्दानिला. ॥ २४ ॥
सखीं प्रति नायिकावाक्यम्
व्यो नव्यं स्वान्तं विषयतरलं हन्त सततं प्रियो दूरे देशे
जनकनगरं दुर्लभतरम् । जनश्चायं दुष्टो भृशमिदमनर्थाय
सततं कथंकारं पारं कथय सखि यामोऽस्य वयस. ॥ १ ॥
आयाता जलदावली सरभसं विद्युत्समालङ्गिता शैलाना
परितः सशब्दमहिभुक्श्रेणी नरीनृत्यति । एवं सत्यपि हन्त
सप्रति पतिर्देशान्तरं प्रस्थितस्तद्दुःखं विनिवेद्यता सखि
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in