Skip to content
SarvaKosh
सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

by पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य)

Source: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (origin)

Report a copyright issue

DevanagariSanskritpublished516 pages

Page 319 of 516

Read in context
Page 319
Page 319 scan
३०४सुभाषितरत्नभाण्डागारम्[ ६ प्रकरणम्

काकः ॥ १४३ ॥ कृष्णवर्णहृदय सितदीप्ति दुर्धियः किल कलङ्किनमाहुः । कृष्णवर्णसमुदीरणमात्रादेव यद्गलति दृश्यकलङ्कः ॥ १४४ ॥ आयताग्रसितरश्मिनिबद्धा लाञ्छनच्छविमभीरसदिग्धम् । चन्द्रकैतवमरुत्पटचक्रं क्रीडयोत्सृजति किं खरबालः ॥ १४५ ॥ शम्बरारिरमृतं विषगर्भ चन्द्रबिम्बकपटात्प्रयुनक्ति । यद्वहिः सितमथासितमन्तः प्रोषितान्दहति दर्शनमात्रात् ॥ १४६ ॥ अयं पुरः पार्वणशर्वरीशः किं दर्पणोऽयं रजनीरमण्या । यतस्तदीयं प्रतिबिम्बमस्मिन्सल्लक्ष्यते लाञ्छनकैकैतवेन ॥ १४७ ॥ प्रदोषमातङ्गममञ्जदेवस्तुङ्गं समारुह्य समागतोऽयम् । सिन्दूरिते तस्य सुधांशुकुम्भे किमङ्कुशो लक्ष्ममिषेण दत्तः ॥ १४८ ॥ मम प्रियां कैरविणीं करेण संतापयामास दिनाधिनाथः । इतीव दुःखैर्विकलः कलावान्यपौ विषं लक्ष्ममिषेण सद्यः ॥१४९॥ कलाधिनाथानयनाय सायं कुमुद्वतीप्रेषित एष भृङ्गः । किमिन्दुनालिङ्ग्य सरागमङ्के कृतः कलङ्कभ्रममातनोति

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in