सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
by पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य)
Source: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (origin)
Page 317 of 516
Read in context३०२ सुभाषीतरत्नभाण्डागारम् [ ६ प्रकरणम् ]
कन्दीयति ॥ ९४ ॥ अद्यापि स्तनशैलदुर्गविषमे किं मानिनीनां हृदि स्थातुं वाञ्छति मान एष झगिति क्रोधादिवालोहित । उच्चन्दूरतरप्रसारितकरः कर्षत्यसौ तत्क्षणात्फुल्लत्कैरवकोशनिःसरदलिश्रेणीकृपाणं शशी ॥ ९५ ॥ कैलासायितमद्रिभिर्विटपिभिः श्वेतातपत्रायितं मृत्पङ्केन दधीयितं जलनिधौ दुग्धायितं वारिभिः । मुक्ताहारलतायितं व्रततिभिः शङ्खायितं श्रीफलैः श्वेतद्वीपजनायितं जनपदेर्जाते शशाङ्कोदये ॥ ९६ ॥ पीयूषाश्रपणं जगत्त्रयदृगामालानलेखालवो विश्वोन्माथहुताशनस्य ककुभामुद्घाटिनी कुञ्चिका । वीरेषु प्रथमा च पुष्पधनुषो रेखा मृगाक्षीमुखश्रीणां च प्रतिराजबीजमधिकानन्दी नवश्चन्द्रमाः ॥ ९७ ॥ दिग्बालाकरकन्दुकः स्मरवधूस्रीमन्तमुक्तामणिः कामक्षोणिपतेर्विहारवलभीनिर्यूहपारावतः । हृद्योम्नि विकीर्णतारकमणिः श्यामा वणिक्सुध्रुवः स्फारः स्फाटिकसम्पुटः कुमुदिनीकान्तोऽयमुन्मीलति ॥ ९८ ॥ यातस्यास्तमनन्तरं दिनकृतो वेषेण रागान्वितः स्वैरं शीतकरः करं
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in