सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
by पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य)
Source: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (origin)
Page 238 of 516
Read in contextव्योमचरान्योक्तयः २२३
चम्पकबकुलकुलेषु । तस्यालेर्यदि निम्बे वासः कथय कथं न भवत्युपहासः ॥ ६३ ॥ आलिङ्गसे चारुलता लवङ्गीमा-चुम्बसे चाम्बुजिनी क्रमेण । तां चूतवल्लीं मधुप प्रकामं सताडयस्येव पदैः किमेतत् ॥ ६४ ॥ वेत्रत्वचा तुल्यरुचा वधूनां कर्णाग्रतो गण्डतलागतानि । भृङ्गाः सहेलं यदि नापतिष्यन्कोऽवेदयिष्यन्नवचम्पकानि ॥ ६५ ॥ किं न पश्यसि महेन्द्रदिक्सुखे शीतदीधितिरसावुदञ्चति । मीलितैव नलिनीह मा वृथास्तन्मधुव्रत मुधा गता-गतम् ॥ ६६ ॥ चञ्चरीक चतुरोऽसि चन्द्रि-कावैभवे कुमुदिनीं निषेवसे । भास्करे जयिनि पुष्करे नवे प्रोन्मिषन्नवदलेऽनुरज्यसि ॥ ६७ ॥ नीरजान्याप निषेव्य निर्भरं नीरसानि कुटजानि वाञ्छसि । चञ्चलत्वमिह चञ्चरीक ते साहसं कथमिदं विमोक्ष्यसि । ॥ ६८ ॥ पीतमत्र मधु यापिताः क्षपा भृङ्ग सर्वमचिरेण विस्मृतम् । हीनमानसुषमा हिमागमे पद्मिनी यदिह नाव-लोकसे ॥ ६९ ॥ कुन्दकुञ्जलमुपासता त्वया यत्र शीत-समयोऽतिवाहितः । चञ्चरीक
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in