सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
by पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य)
Source: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (origin)
Page 216 of 516
Read in contextबहिरालापाः २०१
कीदृशं हृदयहारि कूजितं कः सखा यशसि भूपतेर्मतः। कस्त-
वास्ति विपिने भयाकुलः कीदृशश्च न भवेन्निशाकरः॥ ५६॥
कीदृशी निरयभूरनेकधा सेव्यते परमपापकर्मभिः। प्रेतराक्षस-
पिशाचसेविता कीदृशी च पितृकाननस्थली ॥ ५७ ॥ केसर-
द्रुमतलेषु संस्थित कीदृशो भवति मत्तकुञ्जरः। तत्त्वतः शिव-
मपेक्ष्य लक्षणैरर्जुनः समिति कीदृशो भवेत् ॥ ५८ ॥ निर्जित-
सकलारातिः पृच्छति को नैको मृत्योर्भयमुच्छति । मेघा-
त्ययकृतरुचिराशायाः किं तिमिरक्षयकारि निशायाः ॥ ५९ ॥
विहगपतिः कं हतवानहितं कीदृग्भवति पुर जनमहितम् । कि
कठिनं विदित वद धिमन्पादःपतिरपि कीदृग्मयकृत् ॥ ६० ॥
अनुकूलविधायिदैवतो विजयी स्यान्ननु कीदृशो नृपः। विरहि-
ण्यपि जानकी वने निवसन्ती सुदमादधौ कुतः ॥ ६१ ॥
कुसुमं पतदेत्य नाकतो वद कस्मै स्पृहयन्ति भोगिनः । अधि-
गम्य रतं वराङ्गना क नु यत्न कुरुते सुशिक्षिता ॥ ६२ ॥
कवयो वद कुत्र कीदृशाः कठिनं किं विदितं समन्ततः ।
अधुना तव वैरियोषिता हृदि तापः प्रबलो विहाय का-
॥ ६३ ॥ वसति कुत्र सरोरुहसंततिर्दिनकृतो ननु के तिमिर-
च्छिदः। पवनभक्तसपत्नरणोत्सुकं पुरुषमाह्वय को जगति
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in