सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
by पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य)
Source: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (origin)
Page 212 of 516
Read in contextअन्तरालापाः १९७
च हसतो हसन्ति हरिणाक्ष्याः । अधरं पल्लवमङ्गी हंसौ चन्दस्य कोरकान्दन्ताः ॥ १६ ॥ का शंभुकान्ता किमु कुन्दकान्तं कान्तामुखं किं कुरुते भुजंग. । कः श्रीपति का विषमा समस्या गौरीमुखं चुम्बति वासुदेवः ॥ १७ ॥ का लोकमाता किमु देहमुख्यं रतेः किमादौ कुरुते मनुष्यः । को दैत्यहन्ता वद वै क्रमेण गौरीमुख चुम्बति वासुदेवः ॥ १८ ॥ का शैलपुत्री किमु नेत्ररम्यं शुकार्भक. किं कुरुते फलानि । मोक्षस्य दाता स्मरणेन को वा गौरीमुखं चुम्बति वासुदेवः ॥ १९ ॥ के भूषयन्ति स्तनमण्डलानि कीदृग्द्युमा चन्द्रमसः कुतः श्रीः । किमाह सीता दशकण्ठनीता हारामहादेवरतातमातः ॥ २० ॥ खेः कवे. कि समरस्य सारं कृषेर्भय किमिषन्ति भृङ्गाः । खलाद्वयं विष्णुपदं च केषा भागीरथीतीरसमाश्रितानाम् ॥ २१ ॥ व्रजन्ति पद्मानि कदा विकास प्रिया गते भर्तरि किं करोति । रात्रौ च नित्यं विरहाकुला का सूर्योदये रोदिति चक्रवाकी ॥ २२ ॥ सन्तश्च लुब्धाश्च महर्षिसंघा विप्राः कृषिस्याखलु माननीयाः । किं किं
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in