सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
by पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य)
Source: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (origin)
Page 181 of 516
Read in context| १६६ | सुभाषितरत्नभाण्डागारम् | [ ३ प्रकरणम् |
|---|
लिकाः ॥ ५६५ ॥ क्षन्तव्यो मन्दबुद्धीनामपराधो मनीषिणा । नहि सर्वत्र पाण्डित्यं सुलभं पुरुषे क्वचित् ॥ ५६६ ॥ राजा पश्यति कर्णाभ्यां युक्त्या पश्यन्ति पण्डिताः । पशुः पश्यति गन्धेन भूतैः पश्यन्ति बर्बराः ॥ ५६७ ॥ प्रत्यूहः सर्वसिद्धीनामुत्तापः प्रथमः किल । अतिशीतलमप्यग्निः किं भिनत्ति न भूभृतः ॥ ५६८ ॥ अव्यापारेषु व्यापारं यो नरः कर्तुमिच्छति । स तत्र निधनं याति कीलोत्पाटीव वानरः ॥ ५६९ ॥ हतं ज्ञानं क्रियाहीनं हताश्चाज्ञानिनो नराः । हतं चानायकं सैन्यमभर्तारो हताः स्त्रियः ॥ ५७० ॥ कन्या निष्कासिता श्रेष्ठा वधूः श्रेष्ठा प्रवेशिता । अन्नं संकलितं श्रेष्ठं धर्मः श्रेष्ठो दिने दिने ॥ ५७१ ॥ सत्यं सत्यं सुनेर्वाक्यं नादत्तमुपतिष्ठते । अम्बुभिः पूरिता पृथ्वी चातकस्य मरुस्थली ॥ ५७२ ॥ न स्वप्नेन जयेन्निद्रां न कामेन स्त्रियं जयेत् । नेन्धनेन जयेद्वह्निं न पानेन सुरां जयेत् ॥
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in