सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
by पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य)
Source: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (origin)
Page 178 of 516
Read in contextसामान्यनीतिः १६३
मृतं तदपि मृत्यवे ॥ ४३३ ॥ न संशयमणारुह्य नरो भद्राणि पश्यति । संशयं पुनरारुह्य यदि जीवति पश्यति ॥ ४३४ ॥ गतानुगतिको लोक. कुट्टनीमुपदेशिनीम् । प्रमाणयति नो धर्मे यथा गोघ्नमपि द्विजम् ॥ ४३५ ॥ प्राणा यथात्मनोऽभीष्टा भूतानामपि ते तथा । आत्मौपम्येन भूतेषु दया कुर्वन्ति साधवः ॥ ४३६ ॥ प्रत्याख्याने च दाने च सुखदुखे प्रियाप्रिये । आत्मौपम्येन पुरुष प्रमाणमविगच्छति ॥ ४३७ ॥ अवश्येन्द्रियचित्ताना हस्तिस्नानमिव क्रिया । दुर्भगाभरणप्रायो ज्ञान भार. क्रिया विना ॥ ४३८ ॥ शङ्काभि सर्वमाक्रान्तमन्न पानं च भूतले । प्रवृत्तिः कुत्र कर्तव्या जीवितव्यं कथं नु वा ॥ ४३९ ॥ सुमहन्त्यपि शास्त्राणि धारयन्तो बहुश्रुताः । छेत्तारः संशयाना च क्लिश्यन्ते लोभमोहिता. ॥ ४४० ॥ षड्दोषा. पुरुषेणेह हातव्या भूतिमिच्छता । निद्रा तन्द्रा भय क्रोध आलस दीर्घसूत्रता ॥४४१॥ माता मित्र पिताचेति स्वभावान्त्रितय हितम् ।
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in