सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
by पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य)
Source: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (origin)
Page 175 of 516
Read in context१६० सुभाषितरत्नभाण्डागारम् [ ३ प्रकरणम्
रेण नाहारे न च मैथुने ॥ २९७ ॥ अतिदूरपथश्रान्ता-
श्छायां यान्ति च शीतलाम् । शीतलाञ्च पुनर्यान्ति का
कस्य परिदेवना ॥ २९८ ॥ अपमानं पुरस्कृत्य मानं
कृत्वा च पृष्ठतः । स्वकार्यमुद्धरेत्प्राज्ञः कार्यध्वंसो हि मूर्खता
॥ २९९ ॥ कृतस्य करणं नास्ति मृतस्य मरणं तथा ।
गतस्य शोचनं नास्ति ह्येतद्वेदविदां मतम् ॥ ३०० ॥
नाकाले म्रियते जन्तुर्विद्ध शरशतैरपि । कुशकण्टक-
विद्धोऽपि प्राप्तकालो न जीवति ॥ ३०१ ॥ निमग्नस्य पयो-
राशौ पर्वतात्पतितस्य च । तक्षकेणापि दष्टस्य आयुर्मर्माणि
रक्षति ॥ ३०२ ॥ नानृषि कुरुते काव्यं नारुद्र क्रम-
पाठकः । नादेवांशो ददात्यन्नं नाविष्णु पृथिवीपतिः
॥ ३०३ ॥ कवयः किं न पश्यन्ति किं न भक्षन्ति
वायसाः । मद्यपाः किं न जल्पन्ति किं न कुर्वन्ति योषितः
॥ ३०४ ॥ वह्निज्वालेव गृहिणी रक्षणीया प्रयत्नतः ।
बुद्धिक्षयविकाराभ्यां स्वाश्रयक्षेममिच्छता ॥ ३०५ ॥
ददाति प्रतिगृह्णाति
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in