Skip to content
SarvaKosh
सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

by पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य)

Source: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (origin)

Report a copyright issue

DevanagariSanskritpublished516 pages

Page 166 of 516

Read in context
Page 166
Page 166 scan

राजनीतिः १५१


नाङ्कुरितं शौर्य जयाय न तु केवलम् । अन्ययुक्तं विषं भुक्तं पथ्यं स्यादन्यथा मृतिः ॥ ३५९ ॥ मृदुभिर्बहुभिः शूर पुंभिरेको न बाध्यते । कपोतपोतकैरैकः श्येनो जातु न बाध्यते ॥ ३६० ॥ विपक्षमनिखिलीकृत्य प्रतिष्ठा खलु दुर्लभा । अनीत्वा पङ्कता धूलिमुदकं नावतिष्ठते ॥ ३६१ ॥ म्रियते यावदेकोऽपि रिपुस्तावत्कुतः सुखम् । पुरः क्लिश्नाति सोमं हि सैहिकेयोऽसुरद्रुहाम् ॥ ३६२ ॥ रिक्ताः कर्मणि पटवस्तृप्तास्त्वलसा भवन्ति भृत्या ये । तेषां जलौकसामिव पूर्णीनां रिक्तता कार्या ॥ ३६३ ॥ गन्तव्या राजसभा द्रष्टव्या राजपूजिता लोकाः । यद्यपि न भवन्त्यर्थास्तथाप्यनर्था विनश्यन्ति ॥ ३६४ ॥ अतितेजस्यपि राजा पानासक्तो न साधयत्यर्थान् । तृणमपि दग्धुमशक्तो वडवाग्निः सपिबत्यब्धिम् ॥ ३६५ ॥ अचिराधिष्ठितराज्यः शत्रुः प्रकृतिष्वरूढमूलत्वात् । नवसरोपणशिथिलस्तरुख सुखकरः समुद्धर्तुम् ॥ ३६६ ॥ सप्रतिबन्धं कार्यं प्रभुरधिगन्तुं सहायवानेव । दृश्यं तमसि न पश्यति दीपेन विना

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in