सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
by पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य)
Source: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (origin)
Page 159 of 516
Read in context| १४४ | सुभाषितरत्नभाण्डागारम् | [ ३ प्रकरणम् |
|---|
नृपः॥ ६५ ॥ शतमेकोऽपि सधत्ते प्राकारस्थो धनुर्धरः । तस्माद्दुर्गं प्रशंसन्ति नीतिशास्त्रविदो जनाः ॥ ६६ ॥ एकः शतं योधयते प्राकारस्थो धनुर्धरः । शतं सहस्राणि तथा सहस्रं लक्षमेव च ॥ ६७ ॥ दुर्गाणि राज्ञा कार्याणि सजलानि दृढानि च । द्रव्यमन्नं च तेष्वेव स्थापनीयं प्रयत्नतः ॥ ६८ ॥
दूतः
मेधावी वाक्पटुः प्राज्ञः परचित्तोपलक्षकः । धीरो यथोक्तवादी च एष दूतो विधीयते ॥ ६९ ॥ उच्यतेष्वपि शस्त्रेषु दूतो वदति नान्यथा । सदैवविध्यभावेन यथार्थस्य हि वाचकः ॥ ७० ॥ भक्तो गुणी शुचिर्दक्षः प्रगल्भोऽव्यसनी क्षमी । ब्राह्मणः परमर्मज्ञो दूतः स्यात्प्रतिभानवान् ॥ ७१ ॥ साकारो निःस्पृहो वाग्मी नानाशास्त्रविचक्षणः । परचित्तावगन्ता च राज्ञो दूतः स इष्यते ॥ ७२ ॥ नियोगिभिर्विना राज्यं नास्ति भूपे हि केवले । तस्मादमी विधातव्या
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in