सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
by पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य)
Source: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (origin)
Page 131 of 516
Read in context| ११६ | सुभाषितरत्नभाण्डागारम् | [ ३ प्रकरणम् |
|---|
संविभाव्य सदय वैकुण्ठकण्ठीरव त्वन्नादावलिभिः सलीभिरिव किं तद्गर्भपातः कृतः ॥ ५२ ॥ स्नातस्त्वद्रिपुरक्तपाथसि यशोधौताम्बर धारयँल्लक्ष्मीश त्वदरातिवक्त्रकमलैर्भूदेवता पूजयन् । मुहुश्चैतदसूनप्रकोप दहने युष्मत्प्रतापोदयः शत्रुच्छत्रधरार्थदर्पणशसा प्राणाहूतीराददे ॥ ५३ ॥ कीर्तिः श्रीनरसिंह ते त्रिपथगा तत्रोदितं कैरव चान्द्रं मण्डलमत्र नीलमिव यत्तद्भृङ्गवृन्दं किमु । यद्वा त्वद्दलिता रिबृन्दतरुणोत्तंसोत्पले स्थलं चन्द्रस्तत्र विभाति नीलमिव यद्भृङ्गैः समन्ता- ॥ ५४ ॥ अन्तर्विष्णोखिलोकी निवसति फणिनामीश्वरे सोऽपि शेते सिन्धौ सोऽप्येकदेशे तमपि चुलुकया कुम्भयोनिष्चकार । धत्ते खद्योतलीलामयमपि नभसि श्रीनृसिंहक्षितीन्द्र त्वत्कीर्तेः कर्णनीलोत्पलमिदमपि च प्रेक्षणीय विभाति ॥ ५५ ॥ नृत्यद्दर्गाट्टहासप्रचयसहचरैस्तावकीनैर्यशोभिर्धावल्यं नीयमाने त्रिजगति परितः
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in