षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
१. यमुनाष्टकम्, बालबोधः एवं सिद्धान्तमुक्तावली
१२ श्रीयमुनाष्टकम्।
ब्रजजनगोवृन्दादिविविधगतिभिस्तादृशीव । घोषः शब्दो व्रजो वा ।
अनतिस्थूलशिलासु गतिशोभया असमधिरूढेव समधिरूढदोलोत्तमा ।
श्रीहरिरायप्रणीतं टिप्पणम्।
साहित्येनेति ज्ञेयम् । घोषः शब्दो व्रजो वेति । 'घोष आभीरपल्ली स्याद्'इतिको-
षात् घोषो व्रजस्तेन सह वर्त्तन्ते, न कदाचिदपि तं विहायाऽन्यत्र प्रयान्ति निरोध-
स्थानत्वात्ते सघोषा व्रजजनादयस्तेषां तीरे गतिभिस्तथेत्यर्थः । शब्दपक्षे यथा प्रिया-
भिमुखं गच्छन्ती प्रिया अन्तरुद्गतरजोगुणजनितकामावेशेन गायन्ती तथोच्चैर्भाष-
माणा गच्छति तथेत्यर्थः । व्रजपक्षे तु भाववत्संसर्गे भाववतां भावोदयजनित-
विविधविकारवत्त्वं लोकसिद्धमिति श्रीयमुनायामपि तथा निरूपितमित्यर्थः ।
असमधिरूढेवेति, पदच्छेदे अकारस्यापि प्रतीयमानत्वादसमधिरूढत्वमपि व्याख्ये-
यम् । तथाचाऽसमधिरूढेव समधिरूढदोलोत्तमा । यतो दोलाधिरोहेऽपि न तथा
प्रतीतिः । भगवत्साम्मुख्यगमने तद्भाववैवश्येन गमनमात्रस्फूर्त्याऽऽरोहदोलास्फूर्ते-
श्रीपुरुषोत्तमप्रणीता विवृतिः ।
गौणत्वं तु व्रजजनसम्बन्धस्य समभूमौ सत्त्वेनाऽत्राऽभावात्स्वतस्तथात्वासिद्ध्या
मूलधामागमनगमकत्वाभावाच्च ज्ञेयम् । अनेनैवाऽस्वरसेन पक्षान्तरं वदिष्यन्तो
घोषपदस्याऽर्थावाहुः—घोषः शब्दो व्रजो वेति । शब्दपक्षे घोषेण सह वर्त्तमाना
सघोषा तादृश्या गत्या तथा । ससिञ्जिताभिसरणेनोत्कटानेकभावेत्यर्थः । अस्मिन्
पक्षे नोत्प्रेक्षेति यद्यपि तदपेक्षयाऽयमुत्तमस्तथापि लीलाया नित्यत्वेन मूलधाम्न्यपि
व्रजसम्बन्धस्य सार्वदिकत्वात्प्रथमपक्षस्याऽपि नाऽसम्भवः । स्वाभाविकत्वात्स्व-
पक्षश्चाऽऽवश्यक एवेति द्वयमपि सङ्ग्रहीतुं व्याख्यातविशेषणद्वयस्य द्वितीयविशेषणार्थ-
द्वयस्य च तात्पर्यमाहुरनतीत्यादि । 'गण्डशैलास्तु ते भग्नाश्च्युताः स्थूलोपला-
गिरेरि'ति कोशे गिरिच्युतानां तथात्वकथनादनतिस्थूलशिलासु या गतिरुच्चनीच-
भावेन गमनं तत्र घोषेण यत्सिञ्जितवत्ताव्यञ्जनं सैव शोभा तया स्वयमसमधिरूढेव
समानसौभाग्यानां साहित्यात्स्वयमपि पादचारिणीव । तथाच सेयमाधिदैविकी
यद्यपि दोलास्थानीये आधिभौतिके जलरूपे आरुह्य गच्छतीत्यग्रिमविशेषणे वक्तव्यं,
तथापि विलासगमनेत्यादिविशेषणद्वयवत्त्वादसमधिरूढेवेत्यर्थः । द्वितीयविशेषण-
प्रथमव्याख्याने घोषो व्रजसुन्दरीप्रभृतिवृन्दम् । तात्स्थ्यात्तद्व्यपदेशः । तेन सह वर्त्त-
माना सघोषा तादृश्या गत्या चरणचलनेन दन्तुरेव दन्तुरेति । "समासे पुंवत्कर्म-
धारयजातीयेष्वि"ति पुंवद्भावः । एवं शब्दपक्षव्याख्यानेऽपि ज्ञेयः । एवं सकल-
श्रीहरिरायश्रीपुरुषोत्तमचरणानां टिप्पणविवृत्तिभ्यां संवलितम् । १३
भुवं भुवनपावनीमधिगतामनेकस्वनैः
ततो भूमावागत्य मुकुन्दरतिवर्द्धिनी जाता । यतो रसाकरसखस्य सुता ।
अतः स्वयमपि रसात्मिकेति भावः ॥ २ ॥
- ततो भुव्यागताया धर्मानाहुर्भुवमिति । प्रयोजनम्-भुवनपावनीमिति ।
श्रीहरिरायप्रणीतं टिप्पणम् ।
रसमधिरूढेवेत्युक्तम् । ततो भूमावागत्येति, यथा भगवतो मथुरातो व्रजे समागत-
स्यैव स्वामिनीभाववर्द्धकत्वं तथा रविमण्डलादाविर्भूय कलिन्दपर्वतोपरि पतित्वा
ततः कालिन्दीं स्वप्रविष्टां विधाय व्रजभूमौ समागताया एव लीलासृष्टिस्थेष्वेव
मुकुन्दरतिवर्द्धिनीत्वमित्यर्थः । मुकुन्दरतिवर्द्धिनीत्यत्र षष्ठीसमासो ज्ञेयः ।
तथा च, मुकुन्दस्य भगवतः स्वामिनीषु रतिवर्द्धिनी । तस्या उभयसम्बन्धिनीत्वा-
दिति भावः । रतिवर्द्धिनीत्वे हेतुरेव यतो रसाकरसखस्य सुतेत्यादिना
निरूपितः ॥ २ ॥
भुव्यागताया धर्मानिति, भुव्यागमनं हि भगवतो रतिवर्द्धनाय । तत्र च
श्रीपुरुषोत्तमप्रणीता विवृत्तिः ।
सिद्धिहेतुत्वदार्थ्यार्थमाधिदैविकत्वमनेकधा समर्थयित्वा भूमौ लीलासम्बन्ध आधि-
भौतिकादिरूपद्वयविशिष्टायामस्तीत्यादिज्ञापनाय तदुभयसाहित्यं हृदिकृत्याऽग्रिमं
व्याकरिष्यन्तः प्रथममाधिभौतिकसाहित्यमाहुः समधीति । दोला शिबिका,
उत्तमत्वं तु तस्या अपि, अग्रे लीलासम्बन्धात् । समधिरूढा आविष्टा सा ययेत्यर्थः ।
अथाऽऽध्यात्मिकसाहित्यमग्रिमे विवृण्वन्ति ततो भूमावित्यादि । तत इति दोला-
रोहोत्तरम् । भूमावागत्येति, दूराद्गिरिमूर्द्धपातक्लेशसहनपूर्वकं भूमावागत्य । एव-
मुभयसाहित्यात् "कलिन्दतनयातटोन्मदे"त्यादीनां न विरुद्धत्वम् । तथा पद्मबन्धोः
सुतेत्यस्य 'जयति'क्रियाकर्त्तृत्वेन विशेष्यत्वेऽप्याधिदैविक्या नित्याया एव स्तुत्यत्वेन
विवक्षितत्वात्तद्विचारेणाऽस्याऽपि विशेषणत्वमेव । तेन 'कलिन्दगिरी'त्यारभ्य 'पद्म-
बन्धोः सुते'त्यन्तानि पञ्चाऽपि विशेषणानि भगवद्रतिवर्द्धकत्वस्यैवोपकारकाणीति
द्वितीयैश्वर्यवत्त्वमनेन श्लोकेन समर्पितम् । एतेन द्वितीयमैश्वर्यं रूपद्वयविशिष्टाया-
मित्यपि ज्ञापितम् ॥ २ ॥
अतः परं रतिवर्द्धकत्वस्य दृढीकरणाय रतिजनका धर्मा अग्रिमे उच्यन्त इत्याश-
येन तमवतारयन्ति ततो भुमीत्यादि । भुवनपावनीति श्रीयमुनाविशेषणम् । "सप्तद्वी- - ततो भूमीति पाठः श्रीपुरुषोत्तमचरणानाम् हस्ताक्षरग्रन्थे वर्तते ।
१४ श्रीयमुनाष्टकम् ।
प्रियाभिरिव सेवितां शुकमयूरहंसादिभिः ।
तरङ्गभुजकङ्कणप्रकटमुक्तिकावालुका-
अनेकस्वनैरिति शुकादिविशेषणम् । एतेन विभावादिसामग्र्युक्ता । यत्र
यथोचितं तत्र तथा कुर्वन्तीति प्रियापदम् । तीरस्य चाकचक्यवत्सिक्ततां-
कृतशोभां तत्स्वरूपमप्याहुस्तरङ्गेति । यदा तरङ्गास्तीरमागत्य प्रसृता
भवन्ति तदा तीरसिकता मुक्तावद्भासन्ते । ता न सिकताः । लोकप्रतीतिः
परं तथा । किन्तु तरङ्गा एव भुजास्तत्र यानि कङ्कणानि तत्र प्रकटा या
श्रीहरिरायप्रणीतं टिप्पणम् ।
ये धर्मास्तदनुकूला अपेक्ष्यन्ते विभावादिसामग्रीसेविकांसाहित्यस्वरूपसौन्दर्यादयस्ता-
नित्यर्थः । प्रयोजनमिति, रविमण्डलाद्गव्यागमनप्रयोजनमित्यर्थः । भुवनेति,
भुवनं लोकः सर्वोऽपि लीलासृष्टिस्थिततदतिरिक्त रूपस्तस्य भगवद्भावान्यभावराहित्य-
सम्पादनभगवत्सेवनार्हशरीरसम्पादनाभ्यां पावनीं शोधिकामित्यर्थः । शुद्धिरत्र
पुष्टिमार्गीयैव वाच्या । सा च पूर्वोक्तरूपैवेति तथेति भावः । भगवति स्नेहाति-
ऽशय इति, तरङ्गभुजेत्यादिविशेषणेनाऽप्राकृताखिलाकल्पभूषितत्वबोधकेन तथाविधे
भगवति सजातीयतया स्नेहातिशयो द्योतित इत्यर्थः । अप्राकृतानामप्राकृते वस्तुनि
प्रीतिभरसम्भवस्योचितत्वादिति भावः । नमन कृष्णतुर्यप्रियामिति मूले । तत्रा-
ऽयमाशयः । अत्र स्तोत्रे विविधलीलोपयोगिनी श्रीयमुना प्रस्तूयते । तत्र च कृष्ण-
तुर्यप्रियात्वमनुपपन्नम् । तस्य धर्मस्य कालिन्दीनिष्ठत्वात् । इयं च ततो भिन्ना,
श्रीपुरुषोत्तमप्रणीता विवृतिः ।
पान् सप्तराशींश्च वारामाग्राद्वित्वा प्राङ्मुखी पावयन्ती । यास्येऽस्ताद्रेरुद्रमाद्रिं विहर्तुं
खेलन्तीव स्वाश्रिताघापनुत्त्यै” इति तत्रैव यमं प्रति श्रीयमुनावाक्यात् । अनेक-
स्वनैरित्यस्योपलक्षकत्ववारणायाऽऽहुः शुकादीति । प्रियापदं प्रियसखीबोधक-
मित्याशयेनाऽऽहुर्यत्रेत्यादि । चाकचक्यवत्सिक्ततेति चाकचक्यवत्यो याः
सिकता इत्यर्थः । विशेषणेनेत्येकवचनेनेतरयोः स्नेहबोधकत्वं द्योतितम् । तथा
चेतराभ्यां स्नेहो बोध्यतेऽनेन त्ववस्थाविशेषकृतोऽतिशय इत्यर्थः । तेन यदि भग-
वति स्नेहो न स्यान्मूलधाम विहाय भगवद्विचारितभुवनपावनात्मककार्यार्थं भुवं
नेयान् । आगत्य च लीलार्थं ससामग्रीका न स्यात् । यदि तदतिशयो न स्यात्ता-
१ सेवकसाहित्येति च.
[Page Header]
श्रीहरिरायश्रीपुरुषोत्तमचरणानां टिप्पणविवृतिभ्यां संवलितम्। १५
नितम्बतटसुन्दरीं नमत कृष्णतुर्यप्रियाम् ॥ ३ ॥
मुक्तिका मुक्ताफलानि तान्येव वालुकावत्प्रतीयमानानि तद्युक्तो यो नितम्ब
एवोच्चदेशात्मकतटस्तेन तादृशीम्। भगवति स्नेहातिशयो विशेषणेनोक्तः ॥३॥
श्रीहरिरायप्रणीतं टिप्पणम्।
"वसामि यमुनाजल' इति वाक्यात् । यद्यप्यस्यामभेदेन भगवति देवकीपुत्रत्वव-
त्कालिन्दीत्वं वक्तुं शक्यम्, न तु तुर्यप्रियात्वम्, तदधिष्ठानत्वेन तद्रूपत्वोक्त्यौ-
चित्येऽपि तद्धर्मवत्त्वोक्तेरनुचितत्वात्, असाधारणधर्माणां तद्रूपमात्रनिष्ठत्वेनोपास-
कैरन्यत्राऽविभावनीयत्वात् । अन्यथा भावने "योऽन्यथा सन्तमात्मानम्"ति
वाक्याद्दोषश्च । न हि सीतापत्तिः पुरुषोत्तमोऽपि रसात्मकश्रीगोपीजनवल्लभत्वेनो-
पासकैर्विभाव्यते । अन्यधर्मवत्त्वेनाऽन्यरूपभावने "तं यथा यथोपासते तथैव भवति
तद्धैतान् भूत्वाऽवति"ति श्रुतेः स्वाभीष्टसाक्षात्काराभावेन फलासिद्धेः । १ ननु रूपा-
न्तरदर्शनोद्भूतभावस्य रूपान्तरेण कथं फलसिद्धिर्र्यथा रघुपतिवर्यवितीर्णवरस्य
श्रीव्रजनाथेनेति चेत् । सत्यम् । तत्र हि श्रीरघुनाथस्य गुरोरिवोपदेशद्वारा फल-
प्रापकत्वं स्वाविष्टमूलरूपत्वेन न तु साक्षाद्दातुत्वम्, मर्यादापुरुषोत्तमत्वात् । न हि
तेन पुष्टिमार्गाङ्गीकारस्तत्फलदानं च शक्यते विधातुम् । तत्त्वं च दाम्पत्यर-
सात्मकत्वेन तद्धर्मसहितत्वम् । तत्र मर्यादया फलदानाद्भगवन्मार्गीयगुरुणेव
श्रीपुरुषोत्तमप्रणीता विवृतिः ।
दृक्तवती न स्यादिति तर्का एतैर्बोधिताः । तावता रतिवर्द्धकत्वमनुमानेन दृढी-
कृतम् । किञ्चैतेनाऽऽधिदैविक्या भगवदवतारोत्तरमवतरणं तादृग्लीलादावेव च
तदाविर्भाव इत्यपि ज्ञापितम् । तेन "मघोनि वर्षत्यसकृद्यमानुजे"त्यत्र व्याख्या-
तदोषगुणयोर्न विरोधः । नमत कृष्णतुर्यप्रियामिति न व्याख्यातम् । नमनतात्पर्यस्य
पूर्वमुक्तत्वेनोपदेशमात्रस्य स्फुटत्वात् । "कालिन्दीति समाख्याता वसामि यमुना-
जल" इत्यत्र कालिन्दीयमुनयोर्भेदस्य श्रीभागवते मूल एव स्फुटत्वेन तयोराधिदै-
विकाधिभौतिकभावस्य तत्सुबोधिन्यां सोपपत्तिकं निरस्तत्वेन च श्रीरुक्मिण्या-
दित्रयसापेक्षस्य तुरीयत्वस्याऽशक्यवचनतया सात्त्विकादित्रयसापेक्षस्य गुणातीता-
त्मकस्य तस्य स्फुटत्वात् । न च महिषीष्वनन्तर्भावे प्रियात्वस्यैवाऽसिद्ध्या तुर्य-
प्रियात्वस्य सुतरामसिद्धिरिति शङ्क्यम्, यमुनामाहात्म्ये यमुनाभिषेकाध्याये पूर्वं
भगवत्कृतमाश्लेषमुक्त्वा "यमुनाऽप्यच्युतेनैवं सुसंस्कृताऽथ शिक्षिता । शङ्खाम्बुना-
[Footnotes]
१ तद्वैतानिति च. तद्वैनानिति ख.
१६ श्रीयमुनाष्टकम् ।
अनन्तगुणभूषिते शिवविरञ्चिदेवस्तुते
भगवत्समानधर्मत्वं ज्ञापयितुं तथा विशेषणैराहुरनन्तेति । प्रभौ
सप्तम्यन्तानि विशेषणानि । तत्प्रियायां सम्बुद्धिरूपाणि । घनाघनशब्दो
श्रीहरिरायप्रणीतं टिप्पणम् ।
तद्विधिनिरूपणेन । अतस्तदुक्त्यनुपपत्तिरिति चेत् । अत्र वदामः । व्रजे हि भगव-
द्भोग्याः स्वामिन्यश्चतुर्विधाः । तत्रैका मुख्या भगवतः स्वामिनी सर्वविलक्षणा । अस्यां
चाऽनन्यपूर्वाऽन्यपूर्वोभयरूपत्वाभावः । भगवतो रसात्मकस्य श्रुतिसिद्धस्याऽऽलम्बन-
विभावत्वेन तथात्वसम्पादकत्वात् । श्रुतिरूपा गोपगृहेषु स्थिताः सर्वात्मभाववत्यः
प्रौढा एकाः । तथा कुमारिका व्रजस्था अनन्यपूर्वा विवाहाभावेऽपि वसनादानेन
स्वकीयाः कृताश्चाऽपराः । चतुर्थी श्रीयमुना । तस्यामपि क्रीडाव्याजेन सर्वाङ्ग-
सम्बन्धसम्पादनेन स्वातन्त्र्येण तया सह क्रीडेति सा चतुर्थी । अत एवैतदभिप्रायेण
तत्र तुर्यप्रियात्वोक्तिर्न तु तुर्यभार्यात्वोक्तिरिति नाऽनुपपत्तिः काचित् ॥ ३ ॥
भगवत्समानधर्मत्वं ज्ञापयितुमिति । भगवान् हि षड्गुणैः स्वरूपेण च सप्त-
विधः । तत्र गुणाः षड् ऐश्वर्यादयः । तेऽपि पुष्टिमार्गीयमर्यादामार्गीयतद्भेदेन
विविधाः । तत्र पुष्टिमार्गीयाः षट् फलप्रकरणे वेणुगीते च-“धन्यास्त्वि”ति श्लोक-
श्रीपुरुषोत्तमप्रणीता विवृत्तिः ।
ऽभिषिच्यैनां त्वत्तो नाऽन्याऽस्ति पावनी”त्यादिकं चोक्त्वा “अपि ब्रह्मणः पाप-
मपनेष्यसि सेविता, सप्तरात्रात्तु सान्निध्यं न ते त्यक्ष्यामि कर्हिचिदि”ति भगवता
सर्वदा स्वसान्निध्यरूपवरदानात्तैरर्थैः प्रियात्वस्य सिद्धावुक्तरीत्या तुर्यप्रियात्वस्य
सुखेनैव सिद्धिरिति । साम्प्रदायिकास्तु केचन मुख्यस्वामिन्यग्निकुमारश्रुतिरूपसापे-
क्षत्वेनाऽऽहुः । केचन मुख्यतत्तत्सङ्गमुख्यसापेक्षत्वेनाऽऽहुः । ताभ्यामपि मदु-
क्तिर्न विरुध्यते । अत्र ध्रुवं समधिगतामिति विशेषणेन कर्मभूमिगतपापात्मक-
प्रतिबन्धनिवृत्तिसूचनाच्छेषाभ्यां विशेषणाभ्यां सखीभिराभरणैश्च भूषितत्वबोधनेन
भगवत्सान्निध्यसूचनाद्विवक्षितशुद्धिसम्पादकत्वरूपं तृतीयमैश्वर्यं दृढीकृतम् ॥ ३ ॥
अतः परं तुर्यत्वबोधितगुणातीतत्वसमर्थनाय भुवनपावनीत्वनिष्कर्षाय च तुरीयः
श्लोक इति ज्ञापयन्तस्तमवतारयन्ति भगवदित्यादि । साम्प्रदायिकोक्ततुर्यत्वपक्षस्त्वष्टमे
स्फुटीभविष्यति । तथा विशेषणैरिति । विशेष्यसहितैः षड्भिस्तैरित्यर्थः । समानधर्म-
१ तद्विधिनिरूपणेन फलदातृत्वमिति च. २ वसनदानेनेति क-ग-घ-ङ-च.
श्रीहरिरायश्रीपुरुषोत्तमचरणानां टिप्पणेविवृतिभ्यां संवलितम्। १७
घनाघननिभे सदा ध्रुवपराशराभीष्टदे ।
निपातरूपो घनसमुदायं वदति । श्यामे । तादृशीति वा । ध्रुवादेस्तत्तीर
श्रीहरिरायप्रणीतं टिप्पणम् ।
षट्केन निरूपिताः प्रभुचरणैः। तेऽत्राऽपि तत्समानसङ्ख्याकैर्विशेषणैः श्रीयमुनायां निरू-
प्यन्ते । तथाहि । सप्तम्यन्तप्रभुविशेषणपक्षे अनन्ता असङ्ख्याता नित्याश्च ये गुणास्तै-
र्भूषिते अलङ्कृते प्रभावित्यर्थः । सम्बुद्ध्यन्ततया श्रीयमुनापक्षे अनन्तस्य नित्यस्य रासो-
त्सवादिषु बहुरूपस्य वा भगवतो ये गुणा भक्तकार्यसाधकत्वादयस्तैर्भूषिते इत्यर्थः ।
एतेन सर्वसद्गुणसततसाहित्यान्न 'गुणाः सर्वत्र पूज्यन्त' इति वाक्यात् । “पूज्यो हि भग-
वान् तद्गुणाश्चे'त्याचार्यचरणवचनाच्च गुणानां पूज्यतावच्छेदकधर्मरूपत्वाद् “ईश्वरः
पूज्यते लोके मूढैरपि यदा तदे”ति श्लोकनिरूपितमैश्वर्यं निरूपितमिति भावः ।
शिवविरञ्चिदेवस्तुते इति विशेषणेन पक्षद्वयेऽपि “वीर्यं देवेष्वि”त्यत्र निरूपितं वीर्यं
निरूपितमित्यर्थः। घनाघननिभे इति विशेषणेन पक्षद्वयेऽपि स्वरूपसौन्दर्यं सर्वविस्मारकं
विश्वजीवनत्वादिकं च निरूपितमिति “यशो यदि विमूढानां प्रत्यक्षासक्तिवारणा-
दि”त्यत्रोक्तं यशो निरूपितमित्यर्थः । ध्रुवपराशराभीष्टदे इति विशेषणेन स्वसे-
वकानामप्यैश्वर्यज्ञानरूपाभीष्टप्रदानेन तेषामपि तद्भोगात् “श्रियो हि परमा काष्ठा
सेवकास्तादृशा यदी”त्यत्रोक्ता श्रीर्निरूपितेत्यर्थः ।
श्रीपुरुषोत्तमप्रणीता विवृतिः ।
वत्त्वमत्र न समानसङ्ख्यामात्रबोधितमपि तु पदार्थसाम्येनाऽपीत्याशयेनाऽऽहुः प्रभा-
वित्यादि । तथा च विभक्तिरेव विपरिणीयते न त्वर्थो भेद्यत इत्यर्थः । निपातरूप
इति, अव्युत्पन्न इत्यर्थः । यद्यपि कृदन्ते “हन्तेर्घत्वञ्चे”त्यनेन हन्तेः कर्तरि घनाघन-
शब्दो व्युत्पादितस्तथापि मेघे वाच्ये यौगिकोऽर्थो न विवक्षित इति तथोक्तम् ।
तादृशी इति वेति। भगवति श्यामवर्णस्य “श्यामाच्छबलं प्रपद्ये शबलाच्छ्यामं प्रपद्य”
इति श्रुतिसिद्धत्वात्तदर्थनिश्चायके 'अथवा शून्यवद्गाढमि'ति तत्त्वदीपश्लोके स्वरूपा-
भिन्नत्वेनोपपादनाद्भगवत्पक्षे घनाघननिभपदस्य विशेष्यत्वे स्फुटेऽपि तत्प्रियापक्षे
तन्न स्फुटमिति तत्रापि 'ततश्च कृष्णोपवने' 'कृष्णाया हस्ततरले'त्यादिश्रीभागवत-
वाक्ये कृष्णापदस्य नामत्वेन बोधनादस्य तत्स्मारकत्वेन तथात्वं बोध्यमित्या-
३
१८ श्रीमद्यमुनाष्टकम् ।
विशुद्धमथुरातटे सकलगोपगोपीवृते
एव प्रभुप्राकट्यात्तथा । विशुद्धा मथुरा तटे यस्याः । सा निकटे वा यस्य ।
निरवधिकृपायुक्तो हरिरस्तस्मिन् । अन्या नदी लौकिकं जलधिं सङ्गता
श्रीहरिरायप्रणीतं टिप्पणम् ।
विशुद्धमथुरातटे इति । अत्राऽयमर्थः । मथुरा हि विशुद्धा, सर्वदोष-
राहित्यात् । न हि तत्र भूम्यादिदोषाः सम्भवन्ति । तत्त्वान्युत्पाद्य "तत् सृष्ट्वा
तदेवाऽनुप्राविशदि"ति श्रुतेः कारणतया तेषु प्रविष्टस्य भगवतो भूमितत्त्वैक-
देशरूपमथुराया नित्यस्थितिस्थानत्वात् । अत एव जीवानां "काश्यादिपुर्यो यदि
सन्ती"ति वाक्यात्सा सर्वैः प्रकारैर्मोक्षदात्री । तादृश्या अपि श्रीमद्यमुनातटे सत्त्वेन
लीलास्थानतया यत्र भगवाँस्तल्लीलाविशिष्टः प्रकटस्तत्र सेत्येवं निरन्तरप्रभुसा-
न्निध्येन भक्तिदायकत्वात् "ज्ञानोत्कर्षस्तदैव स्यात्स्वभावविजयो यदी"त्यत्रोक्तं
ज्ञानं निरूपितम् । सकलगोपगोपीवृत इति । परोक्षेऽपि भक्तानां भग-
वत्सम्बन्धमाकाङ्क्षमाणानां तत्रैव भगवत्सम्बन्धोऽनुभूत इति तदाशया सततं तामावृत्य
स्थितिरिति तत्सङ्गः सर्वदा । सं च निरुपधिभगवत्सम्बन्धिभावेनैव भवतीति सर्वदा
भगवत्प्रीत्या भगवतोऽपि भक्तसम्बन्धसम्पादकतया व्रजभक्तानां च मानादिदोषनि-
वारकतया तापहारकत्वेन च "हरेश्चरणयोः प्रीतिः स्वसर्वस्वनिवेदनात् । उक्त-
श्रीपुरुषोत्तमप्रणीता विवृतिः ।
शयेनोक्तं विशुद्धेत्यादि । अत्र पद्मनाभादिपद इव गङ्गादित्वात्समासः । प्रभु-
पक्षे तटपदं लाक्षणिकमित्याशयेनाऽऽहुर्निकटे वा यस्येति । नैकट्यं च 'मथुरा
भगवान् यत्र नित्यं सन्निहितो हरिरि'तिवाक्योक्तनित्यसन्निधानात् । निरवधीति,
जलधिपदविवरणम् । 'न वै कामस्याऽन्तोऽस्ति न समुद्रस्ये'ति श्रुतेः । अनया
फक्किकया प्रभुपक्षे कृपाजलधिरिव कृपाजलधि तेन संश्रितस्तस्मिन्नित्युपमित-
समासोत्तरं 'कर्त्तृकरणे कृता बहुलमि'ति गतिपूर्वकसमासो बोधितः । तत्प्रियापक्षे
समासबोधनपूर्वकमस्य तात्पर्य्यमाहुरन्येत्यादि । इदमपि 'विश्रुत्योधेन सा-
ऽऽदित्यमि'ति पूर्ववाक्य एव सिद्धम् । इति भावः सृचिन इति । एतेन पूर्व-
श्लोकोक्तं भुवनपावनीत्वमेतावत्पर्यन्तं न तु पापनिवृत्तिमात्रेण चरितार्थमिति बोधि-
तम् । एवं च हे षड्विशेषणविशिष्टे घनाघननिभे तादृशे सदा घनाघननिभे मम
मनस्सुखं भावय उत्पादयेति मूलान्वयः । 'धुन्व्नुस्तस्याऽभवत्सुत' इत्यादौ भूव उत्प-
त्त्यर्थस्य प्रसिद्धत्वात् । यद्वा । सुखं यथा स्यात्तथा मम मनो भावय प्रापयेत्यर्थः ।
१ स च निरुपधिभावेनैवेति क. घ. अ. सर्वाननूपमभावेनेवेत्यादि ङ.
श्रीहरिरायश्रीपुरुषोत्तमचरणानां टिप्पणविवृतिभ्यां संवलितम् । १९
कृपाजलधिसंश्रिते मम मनस्सुखं भावय ॥ ४ ॥
भवति । इयं तु तादृशं श्रीव्रजशं संश्रिता । एतेन त्वत्सङ्गतो भगवत्सङ्गतो
भवतीति भावः सूचितः ॥ ४ ॥
श्रीहरिरायप्रणीतं टिप्पणम् ।
र्धश्चाऽपि वैराग्ये हरेरपि हरिर्यदी'त्यत्रोक्तं वैराग्यं निरूपितमित्यर्थः । एवं
षड्भिर्विशेषणैः षड् धर्मान्निरूप्य धर्मिस्वरूपं निरूपयन्ति कृपाजलधिसंश्रित
इति । प्रभुविशेषणपक्षे निरवधिकृपायुक्तत्वेन स्वरूपमेवाऽभिहितं न धर्मः । करुणा-
र्यास्तु नित्याविर्भूतधर्मत्वेन स्वरूपमध्यपातात् । अन्ये धर्मा नित्या अपि लीलोप-
योगिनस्तत्तल्लीलायां प्रकटीक्रियन्ते नाऽन्यदा । करुणा तु सर्वदाऽऽविर्भूतैव स्वरूप
इति सदा तद्युक्तत्वात्स्वरूपमेव सेति भावः । श्रीमद्यमुनापक्षे कृपाजलधिरपारकरुणो
भगवांस्तं सम्यगविच्छेदेन श्रितेति मुख्यस्वामिनीवर्द्धनारीनरवद्वा तत्स्वरूपमेवो-
क्तमिति भावः । मम मनस्सुखं भावयेति । पूर्वोक्तधर्मवति हरौ मम मनस्सुखं
भावेनाऽनुभूयमानानन्दस्तं भावय विचारय, कथं स भविष्यतीति । तद्विषयिणीं
चिन्तां कुर्वित्यर्थः । अनेन त्वच्चिन्तयैवाऽयमानन्दः प्राप्यो नाऽन्यसाधनैरिति भावो
निरूपितः । सम्बुद्धिपक्षे मम मनसि भगवत्स्वरूपानुभवजन्यं यत्सुखं तत् त्वं भावय
स्वमनस्यानयेत्यर्थः । अनेन त्वच्चेतसि समागतावेव तत्सुखं सर्वदाऽनुभवविषयो
श्रीपुरुषोत्तमप्रणीता विवृतिः ।
'भू व्याप्तौ' । क्रियाफलस्य कर्तृगामित्वाभावान्नाऽऽत्मनेपदम् । मनसः सुखं स्वामी-
ष्टरीतिकं भगवत्प्राप्त्येति तथा तां संपाद्य तदुत्पादयेति । आदित आप्राप्ति यथा
सुखं भवति तथा अनायासेन मनः प्रापयेति वा प्रार्थना । अत्राऽऽद्येन विशेषणेन
गुणेषु सङ्ख्याकालापरिच्छेदबोधनादतिसामर्थ्यरूपमैश्वर्यं बोधितम् । द्वितीयेन
"सवनशस्तदुपधार्य सुरेशाः शक्रशर्वपरमेष्ठिपुरोगा" इत्याद्युक्तदेवजेतृत्वरूपं वीर्यम् ।
तृतीयं तु विशेष्यमेव । तुरीयेण दातृत्वाद्यशः । पञ्चमेन ज्ञानम् । स्वसन्निधाना-
देव ज्ञानकार्यस्य विशुद्धत्वस्य मथुरायामाविर्भावात् । षष्ठेन श्रीः । 'चकास गोपी-
परिषद्गतोऽचितस्त्रैलोक्यलक्ष्म्यैकपदं वपुर्दधदि'ति तदावरणेनैव तत्प्रकाशात् । सकल-
पदेनाऽनीर्ष्याद्योतनाद्विवक्षितमपि गुणातीतत्वं स्फोरितम् । सप्तमेन वैराग्यम् ।
विरक्त एव हि कृपालुर्भवति, न तु रक्तः, रागस्य गर्द्धात्मकत्वात् । 'नाऽहमा-
१ करुणायाः स्वनित्याविर्भूतधर्मत्वेनेत्यादिः ङ.
२० श्रीयमुनाष्टकम् ।
यया चरणपद्मजा मुररिपोः प्रियम्भावुका
अथ भगवदीयानामप्युत्कर्षाधायिका या तदुत्कर्षं को वक्तुं शक्त
इति भावेनाऽऽहुर्ययेति । चरणपद्मजा गङ्गा । तेन भक्तिमार्गीया ।
श्रीहरिरायप्रणीतं टिप्पणम् ।
भवति । भगवताऽष्टविधैश्वर्यस्य त्वयि निक्षिप्तत्वात् स्वयं त्वदधीनः सर्वदाऽनीश्वर
इवेति त्वद्विचारेणैव तद्भवतीत्यभिप्रायः सूचितः । एतेनेत्यादिना तव सर्वदा तद्द्रवी-
भूतरसात्मकत्वेन लीलाविशिष्टप्रभुसङ्गतत्वाद्येन केनाऽपि सम्बन्धेन त्वत्सङ्गतौ तादृ-
क्प्रभुसङ्गतिरेव जातेत्याशयोऽत्र बोध्यः ॥ ४ ॥
अथेत्यार्थान्तरोपक्रमे । पूर्वं चतुर्भिः श्लोकैरूत्कर्षवर्णनेन स्तुतिः कृता । अतः
परमुत्कर्षवर्णनस्याऽशक्यत्वनिरूपणेन सा निरूप्यत इत्यर्थः । भगवदीयानाम-
पीति, भगवता भगवदीयत्वरूपपरमोत्कर्षं प्रापितानामपीत्यर्थः । चरणपद्मजेति,
चरणजेत्येतावर्तव चारितार्थ्येऽपि पद्मपदोपादानस्याऽयमाशयः । यथा पद्मजो ब्रह्मा
भगवतः पपञ्चे क्रीडार्थं भगवदाज्ञां च प्राप्य प्रपञ्चं सृष्टवान् स्वयं निरपेक्षस्तथेय-
मपि स्वगतभगवच्चरणरेणुभिः सेवौपयिकदेहसम्पादनेन भगवतो भक्तिमार्गप्रकटने-
च्छामवगत्य स्वयमनपेक्षैव भगवत्क्रीडार्थं भगवदीयजनान् सृष्टवतीति । अत्र ब्रह्म-
वदाज्ञाऽभावोऽस्या भगवति साक्षात्सम्बन्धत्वेन हार्दवित्त्या । न हि हार्दविदो
लोकेऽप्याज्ञाप्यन्ते, अतिचतुरत्वादिति भावः । तेनेति, चरणपद्मजातत्वेनेत्यर्थः ।
चरणं हि निर्दोषपूर्णगुणं भक्तिरूपं च तज्जातत्वेना श्यामपि तद्गुणसङ्क्रमः । तथौ-
चाऽन्येषामपि सेविनां तथा करणमुचितम् । 'कारणगुणा हि कार्यगुणानामारम्भका'
श्रीपुरुषोत्तमप्रणीता विवृतिः ।
त्मानमाशासे मद्भक्तैः साधुभिर्विने'ति भक्तान् विना स्वस्मिन्नपि वैराग्यबोध-
नाच्च । तत्संश्रितत्वेन श्रीयमुनाया अपि तथात्वाच्च । अत्र भगवत्समानधर्मवत्त्वा-
ज्जीवस्याऽनायासेन भगवत्सम्बन्धसम्पादकत्वं तुरीयमैश्वर्यं स्फुटमेव । एवं चतुर्भिः
श्लोकैः स्वरूपं गुणाश्चोक्ताः ॥ ४ ॥
अतः परं पूर्वोक्तस्य सर्वस्याऽसत्समारेपणत्ववारणाय गुणानामानन्त्या-
द्विशेषो वाग्विषय इति तत्सत्ता दिङ्मात्रेणोच्यत इति बोधयितुमग्रिमः श्लोक
इत्याशयेन तमवतारयन्त्यथेत्यादि । अत एव प्रक्रमान्तरबोधकपदोक्तिः ।
१ सम्बन्धत्वेनेति क-ख-ग-घ-च. २ तथाऽन्येषामिति ख.
श्रीहरिरायश्रीपुरुषोत्तमचरणानां टिप्पणविवृतिभ्यां संवलितम् । २१
समागमनतो भवतसकलसिद्धिदा सेवताम् ।
निर्दोषपूर्णगुणाऽपि यया त्वया सह समागमनतो मिलनतो हरेस्तथाऽभवत् ।
श्रीहरिरायप्रणीतं टिप्पणम् ।
इति न्यायादिति भावः । यया त्वयेति, त्वया पुष्टिमार्गीयया सर्वाङ्गसम्बन्धिन्या
मिलनतो मुररिपोर्भक्तप्रतिबन्धनिवर्त्तकस्याऽत एव तद्दुःखहर्त्तुः प्रियम्भावुका । यथा
श्रीयमुना साक्षात्सेवोपयोगिदेहसम्पादनेन सेवकसृष्टिककरणात्तत्कृतसेवया प्रियम्भा-
वुका, तथा गङ्गा श्रीयमुनासङ्गानन्तरं तद्गतसरश्रमजलाणुसम्बन्धे साक्षात्सेवो-
श्रीपुरुषोत्तमप्रणीता विवृतिः ।
मिलनत इति । सञ्ज्ञापूर्वकस्य विधेरनित्यत्वादुणाभावः । तथाऽभवदिति ।
प्रियम्भावुका अभवत् । 'भुवः खिष्णुच् खुकञावि'त्यनेनाऽऽख्यादिभ्यः परस्य
भूधातोरिच्छ्यर्थे खुकञि प्रियम्भावुकशब्दसिद्धिः । तथाचाऽप्रिया प्रिया सम्पन्ने-
त्यर्थः । अप्रियत्वं चरणक्षालनजलत्वाद्भौतिकत्वाभ्यां च । तेनेत्याद्युक्तगुणवत्त्वं
तु चरणस्यैव माहात्म्यमतो न चोद्यावसरः। सेवतामित्यनुदात्तेत्त्वलक्षणस्याऽऽत्मने-
पदस्याऽनित्यत्वेन शतृप्रत्ययः । अत एव 'त्वां सेवतां सुरकृता बहवोऽन्तराया'
इत्याद्यार्षप्रयोगः । यद्वा । क्विबन्तो नामधातुप्रयोगः । सेवेवाऽऽचरताम् । सेवा
यथा प्रसादिका तथा स्तोत्रपाठादिना प्रसादयतामित्यर्थः । ननु पूर्वार्द्धोक्तेऽर्थे
किं मानमित्याकाङ्क्षायां तद्वदन्त एवोत्तरार्द्धं विवृण्वन्ति पूर्वमित्यादि । अन्य-
सङ्गतिजनितमिति । कुटिलाजलावरणजलशिवजटादिसङ्गतिजनितम्। वामनपुराणे
उमातो ज्येष्ठा हिमवत्सुता ब्रह्मशापेन नदी भूत्वा सत्यलोके प्रवहन्ती आर्षे
रामायणे गङ्गापदेन निर्दिष्टा । पञ्चमस्कन्धे “साक्षाद्यज्ञलिङ्गस्य विष्णोर्विक्रमतो
वामपदाङ्गुष्ठनखनिर्भिन्नोर्ध्वाण्डकटाहविवरेणाऽन्तः प्रविष्टाया बाह्यजलधारे”त्यादि-
नैका गङ्गोक्ता । पुराणान्तरे गोदामाहात्म्ये विवाहसप्तपदीसामयिकपार्वतीदर्शन-
जातेरेतःपातलज्जया बहिर्निर्गतस्य ब्रह्मणः पापापनुत्तये शिवेन पृथिवीसारतः
कमण्डलुं निर्माय तत्र सकलजलसारमादाय तस्मै दत्तं तन्त्रिविक्रमचरणक्षालनेन
गङ्गात्वमापन्नं भगीरथगौतमाभ्यां शिवजटाजूटद्वाराभेदेनाऽऽनीतम् । एतदेव “या
वै लसच्छ्रीतुलसीविमिश्रपादाब्जरेण्वभ्यधिकाम्बुनेत्री”ति प्रथमस्कन्ध उक्तम् । तिसृ-
१ सेवकसृष्टिकर्तृत्वतादिति ग-घ. २ तत्कृतेसेवायांमिति च, अ.
२२ श्रीयमुनाष्टकम् ।
तया सदृशतामियात्कमलजा सपत्नीव यद्धरि-
सेवतां च तथा । पूर्वं गङ्गाया अन्यसङ्गतिजनितमुत्कर्षमुक्त्वा भगव-
त्सङ्गतिजनित उत्कर्षः पठितः " सा राजन् दर्शनादेव ब्रह्महत्यापहा-
रिणी " त्यादिरूपः । एतादृश्या त्वया सह सदृशतां किं काऽपीयादिति
श्रीहरिरायप्रणीतं टिप्पणम् ।
पयोगिदेहादिसम्पादनपूर्वकं सेवकसृष्टिकरणात्तथा जाता । सेवतां भवन्मिलितगङ्गा-
सेवकानां च पूर्वोक्तसकलसिद्धिदा जातेत्यर्थः । अयमुत्कर्षः स्वानुभवेनोक्तः । परं
नाऽत्र चित्रं किञ्चित् । यो हि यदाविष्टः स तदा तत्कार्यं करोति । भगवदाविष्टभक्त
इव । अत एव " कस्याश्चित्पूतनायन्त्या " इत्यादिवाक्यानीति नाऽनुपपत्तिः ।
पूर्वमिति, यद्यपि पूर्वमाचार्यवर्यप्राकट्यात्पूर्वं पुराणादिष्वपि सरस्वतीसङ्गतिजनित-
मुत्कर्षमभिधाय भवतीसङ्गतिज उत्कर्षः पठितः । परन्तु "सा राजन् दर्शनादेव
ब्रह्महत्यापहारिणी"त्यादिरूपो न तु पूर्वोक्तरूपः । श्रीयमुनाया निजाचार्यप्राकट्या-
त्पूर्वमेवंविधस्वरूपज्ञानात्तदन्निरूपणात् । अतोऽयमेवोत्कर्ष एतत्सङ्गत्त्यनन्तरं भावी
मन्तव्य इति भावः । एतादृश्येति, स्वसम्बन्धेन स्वसमानगुणसम्पादिकयेत्यर्थः ।
श्रीपुरुषोत्तमप्रणीता विवृतिः ।
णामेकीभावेन पातेऽपि "विष्णोः पादाच्छिशुमाराद्ध्रुवाच्च सोमात्सूर्यान्मेरुरूपाच्च
विष्णोः । समागता शिवमूर्ध्नो हिमाद्रिमि"ति महाभारतेऽवतरणक्रम उक्तः ।
एवमग्रे तत्तत्क्षेत्रसम्बन्धे तत्तत्पुराणेषु तत्तत्कृत उत्कर्षश्चेति तथा । आदिपदेन
"सितासिते सरिते यत्र सङ्गते तत्राऽऽप्लुतासो दिवमुत्पतन्ति । ये वै तन्वां
विसृजन्ति धीरास्ते जनासो अमृतत्वं भजन्त" इति श्रुतिरन्यच्च सङ्गृहीतम् ।
तेन श्रीयमुनासङ्गमात्सेवकसकलसिद्धिदातृत्वं स्पष्टमेवेति बोधितम् । भगव-
त्प्रियम्भावुकत्वं तु समागम एव माहात्म्याधिक्यबोधनाद्भगवत्प्रियत्व एव च
तथाभावात् । अन्यथा चर्मण्वत्यादिनद्यन्तरस्याऽपि तथात्वापत्तेः । अतस्तदेतैरेव
वाक्यैः सिद्धयतीति तत्र विशेषतः प्रमाणान्तरं नोपन्यस्तम् । यद्वा । "आकेस्तच्छी-
लतद्धर्मतत्साधुकारिष्व"त्यधिकारस्थितेन "लषपते"ति सूत्रेण भुञ् उक्तम् । तथा च
१ भवतीसङ्गति० पाठ. २ पूर्वकसेवाकारणादिति ग-घ. पूर्वकसेवाकरणादिति क. पूर्वकं सेवाकरणादिति ङ.
पूर्वकं तत्सेवाकरणादिति ख-च. पूर्वकं सेवाकारणादिति मुद्रितग्रन्थे स्वीकृतः । अ ग्रन्थे उपरि निर्दिष्टोन्वर्थः
पाठः वर्तते सोऽस्माभिः स्वीकृतः ३ भवत्सङ्गतिज इति च, भगवत्सङ्गतिज इति ग.
श्रीहरिरायश्रीपुरुषोत्तमचरणानां टिप्पणविवृतिभ्यां संवलितम् । २३
प्रियकलिन्दया मनसि मे सदा स्थीयताम् ॥ ५ ॥
काकूक्तिः । यदीयात् कमलजेयात् । तत्र हेतुमाहुर्यद्यस्मात्सा भगवत्पत्नी-
त्वात्सपत्नी भवति । तत्रा१पि भवती प्रियेति—इवेति । भक्तानुगुणत्वमाहु-
र्हरिप्रियाणां कलिं (दोषं) यति खण्डयति ॥ ५ ॥
श्रीहरिरायप्रणीतं टिप्पणम् ।
भगवत्पत्नीत्वादिति, पत्नीत्वादेव सपत्नीत्वं न तु पुष्टिमार्गीयलीलासम्बन्धित्व-
भक्तानुगुणत्वादिगुणैरित्यर्थः । तत्राऽपीति, पत्नीत्वेऽपीत्यर्थः । भक्तानुगुणत्व-
मिति, दोषनिवर्त्तकत्वेनेत्यर्थः । गुणस्तु हरिप्रियपदेनैव सिद्ध इति भावः । मनसि
मे सदा स्थीयतामिति मूले। मनसो भावाधिष्ठानत्वेन तत्र पूर्वोक्तधर्मवत्याः सतत-
स्थितौ भावस्याऽपि निर्दोषपूर्णगुणत्वं सेत्स्यतीति भावः ॥ ५ ॥
श्रीपुरुषोत्तमप्रणीता विवृतिः ।
मुररिपोः प्रियं यथा स्यात्तथा भावुका भवनसाधुकारिणी। भगवत्सेवायोग्यशरीरोत्प-
त्तिसाधिकेत्यर्थः । कमलजेति । लक्ष्म्याः कमलजत्वं विष्णुपुराणे "पुनश्च
पद्मादुद्भूता आदित्योऽभूद्यदा हरिरि"ति लक्ष्म्यवतारकथने । "नमस्ते सर्वभूतानां
जननीमब्जसम्भवामि"तीन्द्रस्तुतौ च स्फुटम् । अतिप्रियत्वे प्रमाणं कार्यलिङ्ग-
कानुमानमेवेति मूलाशयमुद्घाटयन्ति भक्तेत्यादि, कलिं यतीति । अत्र "तत्पुरुषे
कृति बहुलमि"ति बहुलग्रहणाद्वितीयाया अलुक् । एतेन लक्ष्म्यंशास्तदाविष्टाश्च
सापत्न्येनेर्ष्यावत्यो भवन्ति, भवती तु तासां तदपाकरोतीति गुणातीतत्वं
प्रियत्वबीजभूतं कार्यद्वारा निश्चायितम् । कलिन्देयेति भावप्रधानो निर्देशः ।
तथाचाऽनेन रूपेण मे मनसि सदा स्थीयतामिति तदावेशेन स्वस्य भगवत्प्रि-
यत्वफलिका द्वितीया प्रार्थना । पूर्वश्लोकोक्तसम्बुद्धिभिश्चारितार्थ्यान्न पुनस्तदुक्तिः ।
अत्र भगवत्प्रियकलिनिवारकत्वरूपं पञ्चममैश्वर्यं स्फुटमेव ॥ ५ ॥
१ तत्रापि प्रियेति वेतीति ख. तत्रापि भगवती प्रियातीवेतीति ग. दृष्टस्त्वेवम्.
२४ श्रीयमुनाष्टकम् ।
नमोऽस्तु यमुने सदा तव चरित्रमत्यद्भुतं
न जातु यमयातना भवति ते पयःपानतः ।
एतादृश्यां त्वयि नमनातिरिक्तं न वक्तुं शक्यमित्याशयेनाऽऽहु-
र्नमोऽस्त्विति । त्वयि नमनमपि दुर्लभमतः प्रार्थ्यते अस्त्विति । अद्भुत-
त्वमेवाऽग्रे उपपादितम् ॥ ६ ॥
श्रीहरिरायप्रणीतं टिप्पणम् ।
एतादृश्यामिति । भक्तोत्कर्षाधायिकायां भक्तानुगुणायां चेत्यर्थः । एते-
नैतादृगुपकर्त्र्या प्रत्युपकृत्यसम्भवेन यथाकथञ्चिन्नमनमेव माहात्म्यज्ञानात्सम्भवति
नाऽन्यदित्युक्तं भवति । नमनमपीति । भगवति नमनं सम्भवत्यपि । भगवन्माहा-
त्म्यस्य शास्त्रसिद्धत्वात् । भवत्यां तु लीलासृष्टिप्रवेशे तादृग्भावसम्पत्तौ तत एव तथा-
विधभावावगतौ तद्भवतीति दुर्लभमेवेत्यर्थः । अद्भुतत्वमेवेति । मूले अति-
१शब्दादद्भुतत्वमपि तथाविधं वाच्यम् । तत्राऽयं भावः । भगवानद्भुतकर्मा, “कृष्णा-
श्रीपुरुषोत्तमप्रणीता विवृतिः ।
एवं निरस्तसाम्यत्वबोधनेनाऽधिकवर्णनाशक्तिं समर्थयित्वा ‘नमामी’त्यादौ
नमनस्याऽग्रे ‘नमते’त्युपदेशे कैमुतिकेन हेतुतोक्त्याऽपि चारितार्थाद्यन्न पूर्वोक्त आचार्या-
शय इति शङ्कां वारयितुं भगवत्कृपाङ्कुरं विना श्रीयमुनानमनमपि कोऽपि कर्तुं न
शक्तः कुतस्तरां नमनातिरिक्तमित्याशयमग्रेिमे स्वयमेव प्रकाशयन्तीति नाऽस्मदुक्तं
विरुद्धमित्याशयेनाऽग्रिममवतारयन्त्येतादृश्यामित्यादि । एतादृश्यामिति वैषयिका-
धिकरणसप्तमी । दुर्लभमिति । भगवत्कृपाङ्कुरं विना तत्र तादृक्श्रद्धाया एवाऽनुदयात्त-
थेत्यर्थः । ननु प्रार्थनाव्यतिरिक्ताथ्र्थान्तरेऽपि तथा प्रयोगान्नेदं गमकमित्यत
आहुरद्भुतत्वमेवेत्यादि । अन्यथा चरित्रस्याऽद्भुतत्वं नोपपादयेयुः । इदमपि
तत्रैवोक्तम् । “गण्डूषमात्रमप्यम्बु पीत्वा भवति सोमपाः । सप्तकृत्वश्च सप्तैव
सोमसंस्थाः समाप्नुयादि”ति । “विनिग्राहास्त्वया आतर्ये नराः पापकारिणः ।
तानहं तारयिष्यामि प्राप्स्यामि च सुरालयमि”ति । तथा च यस्या ईदृशं
चरित्रं तस्या उत्कर्षज्ञानं न भगवत्कृपाङ्कुरं विना, तदभावे तदभावान्न नमनमपी-
त्यतिदुर्लभत्वात्तदर्थमपि कृपाऽपेक्षेतेति प्रार्थनैऽवार्थ इति भावः । मूले पयःपाने
१ अत्युपसर्गादिति ख-ग-घ. २ अद्भुततमपीति क-ग-घ.
श्रीहरिरायश्रीपुरुषोत्तमचरणानां टिप्पणविवृतिभ्यां संवलितम्। २५
यमोऽपि भगिनीसुतान्कथमु हन्ति दुष्टानपि
प्रियो भवति सेवनात्तव हरेर्यथा गोपिकाः ॥ ६ ॥
श्रीहरिरायप्रणीतं टिप्पणम् ।
याऽद्भुतकर्मण" इत्याचार्यैर्निरूपितत्वात् । तच्च "असाधनं साधनं करोति" इत्यादि-
रूपम् । यथाऽसाधनं कामादि प्रमेयबलप्राकट्येन साधनं भगवद्भावनाहेतुत्वेन । तत्र
विषयत्वेन स्वप्रवेशात् । अत एव 'गोप्यः कामादि'त्यादिवाक्यानि । उक्तं चाऽऽचार्यवर्यैः
'कामान्ता च कृतिः स्फुटा । कामोद्भूते तथा प्रीतिरि'ति । एवं सति भगवानसाधन-
मपि स्वरूपबलेन साधनं करोति । तथाविधस्वरूपप्रदर्शनेन तादृग्भावजननात् । अत्र तु
भावनाभावेऽपि असाधनं पयःपानं पिपासाहेतुकं तथा फलसाधकं साधनीकरणा-
भावेऽपीत्यत्यद्भुतत्वमेतच्चरित्रस्येति भावः । न हि पिपासया पानीयपाने काऽपि
तद्भावना सम्भवति । अतस्तदसाधनमेव । ननु यमयातनाभावस्तु भगवन्नाम्नाऽपि
भवतीति को विशेष एतच्चरित्र इति चेत्तत्राऽऽहुर्जातु इति मूले । कदाचिन्नामाप-
राधेपु सत्सु गुरुवैमुख्यदुःसङ्गवर्जनरूपाङ्गद्वयाभावे न फलत्यपि नाम, न तथा
प्रकृते । न हि पिपासया पाने नामग्रहण इव किञ्चिदङ्गमपेक्ष्यम् । अतो महानेव
विशेष इति भावः । नन्वत्र कोपपत्तिः पयःपानेन यमयातनाभावे । लौकिकेन
तेनाऽदृष्टाजननात् । नाऽपि दृष्टद्वारा, असम्भवात् । न हि पिपासाहेतुकपयःपानस्य
श्रीपुरुषोत्तमप्रणीता विवृतिः ।
युष्मदनुरोधेन यातनाभावेऽपि स्वस्याऽधिकृतत्वादल्पदण्डं तु दास्यत्येवेत्यत
आहुर्यमोऽपीत्यादि । उस्तर्के । इदमपि तत्रैव, "यमुने कृपया पापानवशं तार-
यिष्यसि । मयि त्वया दया कार्या निर्दये निगृहीतरी'ति यमेनोक्तम् । "एवमस्तु
मदम्भोभिः स्नात्वा त्वामादरान्नराः । दशभिश्च चतुर्भिश्च तर्पयिष्यन्ति नामाभिः । तेन
हिंसापरोऽपि त्वं धृतकल्पो भविष्यसि । निरातङ्का भविष्यन्ति भवतो येऽपि पापिन"
इति यमुनावाक्यैरेव सिद्धम् । उपपत्तिमात्रं परं तर्क्यत इत्यर्थः । यथा गोपिका इति ।
१ तच्चरित्रिति च. २ दर्शनेनेति क-ख-ग-घ. प्रदर्शने इति च. ३ पयःपानेन यमयातनाभावहेतुत्वं
क्विदपि लोके सिद्धमित्याशङ्कयाऽऽहुः - यमोऽपीति ख. पयःपानेन यमयातनाभावः । लौकिके पयःपाने कृते
अदृष्टे अलौकिको यमयातनाभावः । तस्याऽनुत्पत्तिः । नापि दृष्टद्वारा । असम्भवादित्यादिः च.
४
२६ श्रीयमुनाष्टकम्।
श्रीहरिरायप्रणीतं टिप्पणम्।
यमयातनाभावहेतुत्वं क्वचिदपि लोके सिद्धमित्याशङ्कयाऽऽहुर्यमोऽपीति मूले।
श्रीयमुना हि यमभगिनी, सूर्यापत्यत्वात्। तत्राऽपि कनिष्ठा, यमोत्पत्त्यनन्तरं तद्दो-
षपरिहाराय रविणा पश्चादुत्पादितत्वात्। अतो यमसन्माननीया। तस्याः पयःपाने
तत्सुतत्वम्। पयःशब्दस्य श्लिष्टार्थकत्वात्। वस्तुतोऽपि पयःपानेन तत् सुत-
त्वम्। पञ्च महाभूता तदपेक्षया जलस्यैव मुख्यत्वं, पयसैव
देहोत्पत्तेः। भूतान्तरापेक्षया पयस एव विशेषतो देहोत्पादकत्वात्। "पञ्च-
म्यामाहुतावापः पुरुषवचसो भवन्ती"ति श्रुतेः। तादृशेषु दोषसत्त्वेऽपि भागिनेय-
त्वेनाऽतिमान्यत्वात्स्वत एव कथं यमस्ताँस्तथा करोतीत्यर्थः। एवं दोषनिवारक-
मद्भुतचरित्रमुक्त्वा फलसम्पादकमद्भुतचरित्रमाहुः प्रियो भवतीति मूले। भग-
वदङ्गीकृतानां भगवदुक्तसाधनैर्भगवति प्रीतिसिद्धिर्भगवच्छास्त्रसिद्धा, न तु भगवतो
जीवेषु प्रीतिः, तेषामविद्यादिदोषग्रस्तत्वात्। न हि निर्दोषः सदोषेषु रमते प्रीणाति
च। तव पुष्टिमार्गीयायाः सेवनात्सर्वभावेन चेतसस्त्वदधीनत्वकरणात्त्वदीयत्वे सम्पन्ने
स्वसम्बन्धिसम्बन्धाद्धरेः सर्वदुःखहर्तुस्तादृक्स्वभावस्य स सेवकस्तदीयः प्रियो भव-
तीत्यर्थः। इदमपि तवाऽद्भुतचरित्रम्, शास्त्रासिद्धत्वात्, लोकेऽपीतरतोषहेतुकृते-
रितरतोषासाधकत्वाच्च। ननु किं प्रमाणमत्र कुत्राऽप्येवं फलस्याऽदृष्टत्वादित्याशङ्क्य
दृष्टान्तमाहुर्यथा गोपिका इति मूले। यथा व्रतप्रसङ्गे फलप्रकरणीयगुणगानप्रसङ्गे
च तव सेवनाद् गोपिका हरेस्तथा जाताः। तथाऽन्योऽपि भगवत्सेवकस्तथा भव-
तीति भावः। अथवा। यथा गोपिका इति दृष्टान्तेन न प्रीतिमात्रं किन्तु यथा ताः
सर्वभावेन प्रीतिविषया भगवतस्तथाऽयमपि भवतीति भावः॥ ६॥
श्रीपुरुषोत्तमप्रणीता विवृतिः।
प्रियत्वे उदाहरणम्। अन्यथा बहुषु भक्तेषु सत्स्वप्येकादशे तास्वेवैतानत्वेन
प्रियत्वं न वदेदतस्तथेत्यर्थः। प्रियभवने दृष्टान्तश्चाऽयम्। सेवनस्य हेतोस्तुल्यत्वात्।
तेन ब्रह्मत्वेन सेवने "रसो यः परमाधार"इति तथा सेवकस्य प्रियत्वं युक्तमेव। अतः
प्रतिबन्धकनिवृत्तिरर्थादेव सिद्ध्यतीति भावः। एतावदन्तं व्याख्यानं प्रभूणाम्।
अग्रे तदाज्ञप्तश्रीगोकुलनाथानाम्। अत्राऽपि स्वसेवनाद्गोपिकावद्भगवत्प्रियत्वसम्पाद-
कत्वरूपं षष्ठमैश्वर्यं स्पष्टम्॥ ६॥
१ स्वसेवकस्तदीय इति च. २ प्रतीतिमात्रमिति च.
श्रीहरिरायश्रीपुरुषोत्तमचरणानां टिप्पणविवृतिभ्यां संवलितम् । २७
ममाऽस्तु तव सन्निधौ तनुनवत्वमेतावता
न दुर्लभतमा रतिर्मुररिपौ मुकुन्दप्रिये ।
श्रीगोकुलनाथचरणानाम् विवृतिः ।
आवश्यकदैहिकधर्मेऽपि त्वत्सम्बन्धे मुक्त्यधिकभक्तिप्राप्तिर्यत्र, तत्र
का शङ्का यमयातनाभाव इत्याहुर्ममाऽस्त्विति । तव सन्निधौ तनोर्नवत्वं
लीलोपयोगिनूतनदेहसम्पत्तिरस्तु । एतेन पूर्वदेहनिवृत्तिः सूचिता । इद-
मपि त्वत्कृतमेव भवति न त्वन्यथेति ज्ञापनार्थं प्रार्थनमस्त्विति । एतावता
श्रीहरिरायप्रणीतं टिप्पणम् ।
आवश्यक्येति । देहस्य देहान्तरारम्भकत्वमावश्यको दैहिको धर्मः “प्रज्ञया
शरीरं समारुह्ये”१त्यादिश्रुतेः । किं बहुना । मुक्तावपि भगवच्छास्त्रे सेवोपयोगि
वैकुण्ठादिषु देहान्तरम् । अत एवोक्तमाचार्यैः सेवाफलग्रन्थे—“सेवोपयोगिदेहो
वैकुण्ठादिष्वि”ति । तस्मिन्नपि त्वत्सम्बन्धे सान्निध्यसम्पादिते दै२शिकेऽपि सम्ब-
न्धे यत्र तथाविधभक्तिसिद्धिस्तत्र तत्र जातानां यमयातनाभावे का शङ्केति कैमुतिक-
न्यायो निरूप्यत इत्यर्थः । तव सन्निधाविति । एतेन दुष्टसन्निधानकृतत्वच्चिरो-
भावाभावस्थल एव तथात्वमित्याशयो ज्ञेय इति बोधितम् । पूर्वदेहनिवृत्तिरिति ।
घटस्य पाकेन३ मृत्त्वनिवृत्तिवन्निवृत्तिरत्र वाच्या । अन्यथा पूर्वतनोर्नवत्वमिति न
व्याख्यातं स्यादिति भावः ।
श्रीपुरुषोत्तमप्रणीता विवृतिः ।
तत्र च, एवमनेन स्वरूपसामर्थ्यं निश्चाययित्वा प्रियत्वोपयोगि यदभिप्रेतं
तत्रार्थयितुमग्रिमः श्लोक इत्याशयेन तमवतारयन्त्यावश्यकेत्यादि, आवश्यक-
दैहिकधर्मपदेन तीरवासात्मकं सेवनं पानं चेत्युभयमपि सङ्गृह्यते । पूर्वत्र सेवनपानयोः
फलस्योपपादितत्वेऽपि व्याख्यानाभावादत्राऽनुवादः । तथाच तीरवासात्मकत्वत्सेवन-
त्वज्जलपानरूपावश्यकदैहिकधर्मेऽपि त्वत्सम्बन्धे यत्र मुक्त्यधिकभक्तिप्राप्तिस्तत्र का
आशङ्का यमयातनाभाव इत्याशयेन पूर्वं प्रार्थनमाहुरित्यर्थः । तद्व्याकुर्वन्ति तवेत्यादि ।
तवे आधिदैविक्याः सन्निधौ भौतिकीमध्ये सन्निधाने तनोर्नवत्वं सिद्धिरूपलीलोपयो-
गिनूतनदेहसम्पत्तिरस्तु । अत्र तनुनवत्वं नैतच्छरीरेऽतिशयाधानमात्रपर्यवसायि,
किन्तु, पूर्वशरीरनिवृत्तिपूर्वकाभीष्टदेहान्तरप्राप्तिपर्यन्तमित्याशयं स्फुटीकुर्वन्ति एतेने-
त्यादि । एतेन नवत्वस्य नूतनदेहसम्पत्तिपर्यन्तत्वकथनेन पूर्वशरीरनिवृत्तिः सूचिता,
१ शरीरमारुह्येति ख. २ दैहिकेऽपीति ग. युक्तन्तु यथानिवेशमिति न प्रस्मार्थ्यम् । ३ परिपाके नामरूप-
निवृत्तिवद् इति पाठः अ.
२८ श्रीयमुनाष्टकम् ।
अतोऽस्तु तव लालना सुरधुनी परं सङ्गमात्
तवैव भुवि कीर्तिता न तु कदापि पुष्टिस्थितैः ॥ ७ ॥
शरीरपरिवर्त्तमात्रेणैव मुररिपौ रतिर्दुर्लभतमा न भवतीत्यर्थः । किन्तु तनु-
नवत्वेन सुलभव । कदाचित्प्रतिबन्धके विद्यमानेऽपि यथा जलदोषरूपमुरस्य
निवारकस्तथा त्वत्सम्बन्धात्सर्वदोषनिवारकत्वं मुररिपुपदेनोक्तम् । अतः
कारणाद्यावदाधुनिकशरीरनिवृत्तिस्तावत्तव लालना स्तुतिरूपा अस्तु । साऽपि
श्रीहरिरायप्रणीतं टिप्पणम् ।
दुर्लभतमा नेति । त्वत्सम्बन्धस्यैव दुर्लभत्वेन सा भगवति दुर्लभा तु
भवत्येवेति तमप्प्रत्ययाशयो बोध्यः । प्रतिबन्धक इति । भक्त्युत्पत्तावित्यर्थः ।
त्वत्सम्बन्धादिति । यथा नरकासुरनिरुद्धकन्याऽनुग्रहाय तत्सम्बन्धाज्जलदोष-
रूपमुरस्य निवारकस्तथा त्वत्सम्बन्धात्तदीयसर्वसेवकदोषनिवारक इति भावः ।
एतेन त्वत्सम्बन्धिनां भगवद्रतिप्रतिबन्धनिरसनायाऽपि यत्नो न विधेय इत्युक्तम् ।
मुकुन्दप्रिय इति मूले । पदतात्पर्यं तु-भगवान् मुकुन्दो मोक्षदाता गृह
एव चतुर्विधपुरुषार्थं भावेन स्वयमाविर्भूयाऽनुभावयन् तादृशसमाजसत्यसम्पादनेन
स्वतन्त्रभक्त्या भगवदीयत्वसम्पादकस्तादृशस्य प्रियात्वेन तद्धर्मवत्त्वात् भगवदीयत्व-
सम्पादकत्वमस्या इति स्वतन्त्रभक्तिदायिकात्वेन परमोत्कर्षो निरूपितो भवतीति तथा
सम्बोधनमिति । अतः कारणादिति । यतो यथाकथञ्चित्त्वत्सम्बन्धे प्रतिबन्ध-
निवृत्तिपूर्वकभक्तिप्राप्तिसौलभ्यमतः कारणादित्यर्थः । यावदाधुनिकेति । नवीने
श्रीपुरुषोत्तमप्रणीता विवृत्तिः ।
अर्थबलादेव बोधितेत्यर्थः । इदमिति । पूर्वोक्तमुभयम् । ननु किमिति द्वयं प्रार्थ्यते
एतस्य शरीरस्यैव कुतो नवत्वं न प्रार्थ्यत इत्यत आहुरेतावतेत्यादि । शरीरस्य
यः परिवर्त्तः पूर्वधर्मनिवृत्तिपूर्विका धर्मान्तरवत्ता, तन्मात्रेणैव मुररिपौ दोषनिवर्त्तके
भगवति रतिर्दुर्लभतमा न भवति, तथापि लीला तु दुर्लभतमा भवत्येव । अतो न
प्रार्थ्यत इत्यर्थः । तदेतत्स्फुटीकुर्वन्ति कदाचिदित्यादि उक्तमित्यन्तम् । श्रीहरि-
रायास्तु लीलोपयोगिदेहप्राप्तिं परमभक्तिप्राप्तिमात्रसाध्यां मन्वानाः पूर्वदेहनिवृत्तिं
मृद्धटपाकदृष्टान्तेनैतद्देहेऽतिशयाधानमात्रपर्यवसितामङ्गीकुर्वन्ति । तदपि पूर्वपक्षावि-
श्रान्तमिति न विरोधः । मुकुन्दप्रिय इति तु न व्याख्यातम् । मोक्षदातृत्वस्य
१ दुर्लभा न भवत्येवेति ग, २ चतुर्विधपुरुषार्थभावेनेति ख, ३ स्वतन्त्रभक्तदायकत्वेनेति ख च,
श्रीहरिरायश्रीपुरुषोत्तमचरणानां टिप्पणविवृतिभ्यां संवलितम् । २९
त्वत्कृपयैव नाऽन्यथेति प्रार्थ्यतेऽस्त्विति । गङ्गाया अपि फलसाधकत्वं
त्वत्सम्बन्धादेवेत्यत आहुः, सुरधुनी तव सङ्गमात् परं अत्यर्थं भुवि की-
र्तिता स्तुतेत्यर्थः, न तु कदापि त्वद्रहिताऽपीत्यर्थः । ननु क्वचित्पुराणादौ
केवलाया अपि स्तुतिर्दृश्यत इति स्तुतौ विशेषमाहुः पुष्टिस्थितैरिति । मर्यादा-
मार्गीयैः केवलाऽपि स्तूयते त्वत्स्वरूपाज्ञानात् । पुष्टिमार्गीयास्तु त्वत्स्वरूपं
जानन्तीति त्वत्सम्बन्धादेव स्तुवन्तीत्याहुः पुष्टिस्थितैरिति ॥ ७ ॥
श्रीहरिरायप्रणीतं टिप्पणम् ।
अलौकिके तु शरीरान्तरे सम्पन्ने लीलारसानुभव एव त्वत्तीरे भवेदिति भावः ।
लालना स्तुतिरूपेति । यथा जननी लालनसमये प्रेम्णा बालकं स्तौति । सा
स्तुतिरपि लालनैव न तु गुणकीर्त्तनम् । लालनमध्यपातित्वात् । तथैषाऽपि स्तुति-
र्लालनैवेति स्तुतिरूपेत्युक्तमित्यर्थः । फलसाधकत्वमिति, पुष्टिमार्गीयफलसाधकत्व-
मित्यर्थः । पुष्टिमार्गीयं फलं तु साक्षात्पुरुषोत्तमलीलासम्बन्धोऽलौकिकदेहसिद्ध्या,
तत्सम्पादकत्वं तु गङ्गायास्त्वत्सम्बन्धादेव । अन्यथा "स्रोतसामस्मि जाह्नवी"ति
वाक्येन तस्या विभूतिरूपत्वेन निरूपणादेतत्फलसाधकत्वमुच्यमानं बाधितं स्यात् ।
श्रीपुरुषोत्तमप्रणीता विवृतिः ।
स्वाभाविकत्वेऽपि भवदनुरोधेनाऽलौकिकं देहं दास्यतीत्याशयस्य प्रियापदादेव स्फुटं
स्फुरणात् । प्रियत्वं तु तत्रैव "विष्णुदयिते"ति नाम्नोक्तम् । अतःकारणादिति ।
यतो भवती प्रिया । तथाच तदवधि लालनारूपं तदनुकूलमिदं द्वितीयं प्रार्थितं देय-
मिति भावः। ननु तनुभवत्वरूपं फलमन्यथा सिद्धं गङ्गायाऽपि सम्भवादतस्तदर्थं तत्स्तु-
तिरेव कार्येत्याशङ्कायां तन्निरासाय श्लोकशेष इत्याशयेन तमवतारयन्ति गङ्गाया
इत्यादि । इदमपि "सितासिते"इति मन्त्रोत्तराद्धू एव सिद्धम् । अस्याऽपि मन्त्रस्य-
कृत्वेन "गोप्यो गावः ऋचस्तस्ये"ति श्रुत्यन्तरे तासां गोपीत्वेन पुष्टिस्थितत्वात्केव-
लगङ्गाया एव माहात्म्यस्य तत्राऽस्फुटत्वाच्च । अत्र पुष्टिस्थितपदेन तदुक्तिराधिदैविक-
सङ्ग्रहाय । व्रजस्थकृतस्य केवलगङ्गाकीर्त्तनस्य श्रीभागवते अदर्शनादिति । आहु-
रिति । स्वपूर्वोक्तेऽर्थेऽभियुक्तसंमतिमाहुरित्यर्थः । व्याख्यानं तूत्तानार्थम् । इदं चाऽ-
र्थादेव सिद्धम् । पुष्टिमार्गीयाणां भजनानन्दाभिलाषुकत्वेन तदुपयोगिन एव स्तुत्य-
त्वात् । लोकादपि तथा निश्चयात् । योजना तु—सुरधुनी भुवि कीर्तिता, परं तवैव
१ तत्तीरे इति क-ग-घ-ङ-च.
३० श्रीयमुनाष्टकम् ।
स्तुतिं तव करोति कः कमलजासपत्नि प्रिये
यत्र त्वत्सम्बन्धात्सर्ववन्द्यगङ्गास्तुतिस्तत्र त्वत्स्तुतौ को वा समर्थ
इत्याहुः स्तुतिं तवेति । अशक्यस्तुतित्वे हेतुमाहुः कमलजासपत्नीति ।
श्रीहरिरायप्रणीतं टिप्पणम् ।
अत एव पुष्टिस्थितैरित्युक्तम्, अन्येषामेतन्माहात्म्यानवगतेः । पद्यपदलापनिका तु,
पुष्टिस्थितैः निःसाधनानुग्रहमार्गनिष्ठैः सुरधुनी लोकान्तरनदी भुवि तु पुनर्न कदाऽपि
कीर्त्तिता तादृक्पुष्टिमार्गीयफलसाधकत्वेनेति । परं किन्तु सर्वदैव तवैव सङ्गमात्
सा तथा कीर्त्तिता। अतः सर्वदा तव लालना पूर्वोक्तरूपाऽस्त्विति सम्बन्धो ज्ञेयः ॥७॥
अशक्यस्तुतित्व इति। वाग्गोचरमाहात्म्यसत्त्वाद्यथा रसस्वरूपानन्देऽशक्य-
स्तुतित्वम् । “यतो वाच” इति श्रुतेः । तथाऽत्राऽपीति भावः । कमलजासपत्नीति
हेतुनिरूपणम् । सपत्नीत्वेन लक्ष्मीविरुद्धस्वभावत्वादित्यर्थः । अयमभिप्रायः ।
लक्ष्मीर्हि प्रमाणसिद्धब्रह्मानन्दस्वरूपा । अतः प्रमाणभूतैर्वेदादिवाक्यैर्लक्ष्मीमाहात्म्य-
निरूपणमुपपद्येताऽपि । त्वं तु पुष्टिलीलास्थत्वेन तदतीताप्रमेयानन्दरूपेति 'यतो वाच'
श्रीपुरुषोत्तमप्रणीता विवृतिः ।
सङ्गमात् । तत्र गमकं, पुष्टिस्थितैस्तु कदापि नेति । केवला न कीर्त्तितेत्यर्थ इति
समीची भाति। तथाच सेवोपयोगिदेहसम्पादकत्वं गङ्गाया अस्ति, परं नाऽभीष्टसेवो-
पयोगिदेहसम्पादकत्वम् । तेन नाऽन्यथा सिद्धिः । यदि तया सा स्यादभियुक्तैः साऽपि
स्तूयेत । तदभावा'द्यया चरणपङ्कजे'त्यर्द्धेनोक्तोऽर्थ उपपन्नतर इति भावः । अत्राऽपि
तनुभवत्वरूपं सप्तमैश्वर्यं स्पष्टमेव ॥ ७ ॥
नन्वस्तु गङ्गापेक्षया स्तुत्यत्वम् । सम्बन्धाधिक्यात्, न तु लक्ष्म्यपेक्षयाऽपि । तथा
सति तनुभवत्वार्थं सैव स्तोतव्या । यत्पुनस्तया सदृशतामित्यर्द्धेनोक्तमतिप्रियत्वं तत्तु
भक्तमानापनोदकेषु गुणातीतभक्तान्तरेष्वपि । कलिनिवारकत्वधर्मस्य साधारणत्वान्न
तेनाऽनुमातुं शक्यमिति मानाभावान्नोपपन्नमित्याशङ्कायां, लक्ष्म्यपेक्षया जीवोप-
कारकत्वं गङ्गायां सुप्रसिद्धमिति । तत आधिक्ये लक्ष्म्यपेक्षयोपकाराधिक्यं
कैमुतिकादेव सिद्ध्यतीति न लक्ष्म्यास्तदर्थं स्तोतव्यत्वमित्याशयेनाऽष्टमश्लोकमव-
तारयन्ति यत्रेत्यादि । उक्तार्थसूचनायाऽत्र सर्ववन्द्यपदम् । अतः परं कार्येणाऽतिप्रियत्व-
साधकोऽग्रिमग्रन्थ उक्तेऽर्थे हेतुत्वमपि भजत इत्याशयेन तमवतारयन्त्यशक्यैत्यादि ।
१ सा पूर्वोक्तरूपेति ग-घ. २ रसरूपेति ख. ३ ब्रह्मानन्दरूपेति च.
श्रीहरिरायश्रीपुरुषोत्तमचरणानां टिप्पणविवृतिभ्यां संवलितम्। ३१
हरेर्यदनुसेवया भवति सौख्यमामोक्षतः ।
सर्वत्र स्तुत्यत्वं भगवत्सम्बन्धात् । स सर्वत्र लक्ष्म्यपेक्षया न्यून एव । त्वं
तु तस्या अपि सपत्नी तत्समानसौभाग्यवती । ननु लक्ष्मीस्तुतिस्तु लोके
दृश्यते । तर्हि तत्साम्यं चेत्कथं स्तुतिरशक्येत्याहुः प्रिये इति । साम्यमात्रे
कर्त्तुं शक्यत एव । अत्र तु ततोऽप्यधिकं प्रियत्वमस्तीति स्तुतिकरणमशक्यम्।
ननु कथं ज्ञायते लक्ष्म्यपेक्षयाऽऽधिक्यमस्तीति, तत्र हेतुमाहुर्हरेर्यदनुसेवयेति ।
श्रीहरिरायप्रणीतं टिप्पणम् ।
इति श्रुतेरशक्यस्तवेति विरुद्धस्वभावत्वात्सपत्नीति । लक्ष्म्याः स्तुत्यत्वमुपपादय-
न्ति सर्वत्रेति । लोके वेदे च स्तुत्यत्वं भगवत्सम्बन्धात् । तदभावे निन्द्यत्वमेव ।
“ मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिमि”ति वचनात् । सम्बन्धतारतम्येन
स्तुत्यत्वतारतम्यम् । तथाच सम्बन्धस्तु लक्ष्म्या निरतिशय एव, उरसि सर्वदा
निवासात् । अतः स्तुत्यत्वं तत्रोपपन्नमिति भावः । तत्समानसौभाग्यवतीति ।
अन्यासां भगवत्पत्नीनां लक्ष्म्यंशत्वेन तदधीनत्वम् । तव तु तत्समानसौभाग्यवत्त्वेन
लक्ष्मीवत्स्वातन्त्र्यमिति भावः । ननु लक्ष्मीस्तुतिस्त्विति । स्वातन्त्र्येऽपि साम्य-
सत्वे लक्ष्मीस्तुतिरिव कथमेतत्स्तुतिरशक्येत्याक्षेपार्थ इत्यर्थः । प्रिय इति सम्बोध-
नम् । स्वातन्त्र्येण साम्येऽपि प्रियत्वेन ततोऽप्याधिक्यसत्वान्न लक्ष्मीदृष्टान्तेन शक्य-
स्तुतित्वमस्या उपपद्येतेति भावः । अत एव “ श्रियं चाऽऽत्यन्तिकीं ब्रह्मन् येषां
गतिरहं परे”ति दुर्वाससं प्रति प्रभुरेवैतादृशानां ततोऽपि प्रियत्वमाहेत्याधिक्यं
प्रमाणसिद्धमेव । फलतोऽप्याधिक्यं वक्तुमाहुर्हरेर्यदनुसेवयेति । हरेः सम्बन्धिनी
या यदनुसेवा हरिसाहित्येन तत्रापि अनु पश्चाद्भगवत्सेवां विधाय गौणभावेन यस्याः
सेवा तया मोक्षं पुरुषोत्तमसायुज्यं मर्यादीकृत्य सालोक्यादिसुखं भवति । पुरुषोत्तम-
सायुज्यस्य भक्तिमार्गेण केवलभगवत्सेवासाध्यत्वात् । अत एवोक्तमाचार्यवर्यैः—
“ आदिमूर्त्तिः कृष्ण एव सेव्यः सायुज्यकाम्यये”ति निबन्धे । तत्रापि कृष्णपदेन
भक्तिप्राप्यः प्रभुरेवकारेण इतरनिरासश्चोक्तः । मोक्षप्राप्तिर्भवतीति । सालोक्या-
दिमोक्षप्राप्तिर्भवतीत्यर्थः । अत एव वैकुण्ठे लक्ष्मीसखीनां सालोक्यादिसुखं, न
१ तत्स्वातन्त्र्येऽपीति ख. २ प्रमाणप्रसिद्धमेवेति क. ग. घ. ङ. च. ३ केवलमिति ख.