षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 32, कुल 408 में से
संदर्भ में पढ़ें१८ श्रीमद्यमुनाष्टकम् ।
विशुद्धमथुरातटे सकलगोपगोपीवृते
एव प्रभुप्राकट्यात्तथा । विशुद्धा मथुरा तटे यस्याः । सा निकटे वा यस्य ।
निरवधिकृपायुक्तो हरिरस्तस्मिन् । अन्या नदी लौकिकं जलधिं सङ्गता
श्रीहरिरायप्रणीतं टिप्पणम् ।
विशुद्धमथुरातटे इति । अत्राऽयमर्थः । मथुरा हि विशुद्धा, सर्वदोष-
राहित्यात् । न हि तत्र भूम्यादिदोषाः सम्भवन्ति । तत्त्वान्युत्पाद्य "तत् सृष्ट्वा
तदेवाऽनुप्राविशदि"ति श्रुतेः कारणतया तेषु प्रविष्टस्य भगवतो भूमितत्त्वैक-
देशरूपमथुराया नित्यस्थितिस्थानत्वात् । अत एव जीवानां "काश्यादिपुर्यो यदि
सन्ती"ति वाक्यात्सा सर्वैः प्रकारैर्मोक्षदात्री । तादृश्या अपि श्रीमद्यमुनातटे सत्त्वेन
लीलास्थानतया यत्र भगवाँस्तल्लीलाविशिष्टः प्रकटस्तत्र सेत्येवं निरन्तरप्रभुसा-
न्निध्येन भक्तिदायकत्वात् "ज्ञानोत्कर्षस्तदैव स्यात्स्वभावविजयो यदी"त्यत्रोक्तं
ज्ञानं निरूपितम् । सकलगोपगोपीवृत इति । परोक्षेऽपि भक्तानां भग-
वत्सम्बन्धमाकाङ्क्षमाणानां तत्रैव भगवत्सम्बन्धोऽनुभूत इति तदाशया सततं तामावृत्य
स्थितिरिति तत्सङ्गः सर्वदा । सं च निरुपधिभगवत्सम्बन्धिभावेनैव भवतीति सर्वदा
भगवत्प्रीत्या भगवतोऽपि भक्तसम्बन्धसम्पादकतया व्रजभक्तानां च मानादिदोषनि-
वारकतया तापहारकत्वेन च "हरेश्चरणयोः प्रीतिः स्वसर्वस्वनिवेदनात् । उक्त-
श्रीपुरुषोत्तमप्रणीता विवृतिः ।
शयेनोक्तं विशुद्धेत्यादि । अत्र पद्मनाभादिपद इव गङ्गादित्वात्समासः । प्रभु-
पक्षे तटपदं लाक्षणिकमित्याशयेनाऽऽहुर्निकटे वा यस्येति । नैकट्यं च 'मथुरा
भगवान् यत्र नित्यं सन्निहितो हरिरि'तिवाक्योक्तनित्यसन्निधानात् । निरवधीति,
जलधिपदविवरणम् । 'न वै कामस्याऽन्तोऽस्ति न समुद्रस्ये'ति श्रुतेः । अनया
फक्किकया प्रभुपक्षे कृपाजलधिरिव कृपाजलधि तेन संश्रितस्तस्मिन्नित्युपमित-
समासोत्तरं 'कर्त्तृकरणे कृता बहुलमि'ति गतिपूर्वकसमासो बोधितः । तत्प्रियापक्षे
समासबोधनपूर्वकमस्य तात्पर्य्यमाहुरन्येत्यादि । इदमपि 'विश्रुत्योधेन सा-
ऽऽदित्यमि'ति पूर्ववाक्य एव सिद्धम् । इति भावः सृचिन इति । एतेन पूर्व-
श्लोकोक्तं भुवनपावनीत्वमेतावत्पर्यन्तं न तु पापनिवृत्तिमात्रेण चरितार्थमिति बोधि-
तम् । एवं च हे षड्विशेषणविशिष्टे घनाघननिभे तादृशे सदा घनाघननिभे मम
मनस्सुखं भावय उत्पादयेति मूलान्वयः । 'धुन्व्नुस्तस्याऽभवत्सुत' इत्यादौ भूव उत्प-
त्त्यर्थस्य प्रसिद्धत्वात् । यद्वा । सुखं यथा स्यात्तथा मम मनो भावय प्रापयेत्यर्थः ।
१ स च निरुपधिभावेनैवेति क. घ. अ. सर्वाननूपमभावेनेवेत्यादि ङ.