षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 15, कुल 408 में से
संदर्भ में पढ़ेंश्रीकृष्णाय नमः ।
श्रीगोपीजनवल्लभाय नमः ।
श्रीमदाचार्यचरणकमलेभ्यो नमः ।
श्रीमद्ग...दूनावतारश्रीमद्वल्लभाचार्यचरणप्रणीतं
श्रीयमुनाष्टकम् ।
श्रीमत्प्रभुचरणविनिर्मितया विवृत्या,
श्रीहरिरायचरणप्रणीतेन टिप्पणेन, श्रीपुरुषोत्तमचरणप्रणीतया
श्रीप्रभुचरणविवृतिविवृत्या च समनुगतम् ।
मूलम्—नमामि यमुनामहं सकलसिद्धिहेतुं मुदा
श्रीमत्प्रभुचरणविनिर्मिता विवृत्तिः ।
विश्वोद्धारार्थमेवाऽऽविर्भूतवृन्दावनप्रिया ।
कृपयन्तु सदा तातचरणा मयि विठ्ठले ।॥
श्रीहरिरायप्रणीतं श्रीप्रभुचरणविवृतिटिप्पणम् ।
श्रीकृष्णाय नमः । अथ श्रीमत्प्रभुचरणाः श्रीयमुनाष्टकविवृतिं विरचयन्तः
प्रथमाचार्यवर्यस्वरूपमेतत्सजातीयधर्मवत्त्वेन निरूपयन्तः स्वास्मिंस्तत्कृतिकृतिशक्ति-
सिद्धये तत्कृपां प्रार्थयन्ति विश्वोद्धारार्थमिति । प्राक्तव्यप्रयोजनकम् । अत्र
विश्वपदं सर्ववाचकम् । तदपि सङ्कुचितवृत्ति । "सर्वे ब्राह्मणा भोजयितव्याः" इतिवत् ।
श्रीपुरुषोत्तमप्रणीता श्रीप्रभुचरणविवृतिविवृतिः ।
श्रीमद्वल्लभनन्दन दासेऽस्मिन् कृपय साधनैः शून्ये ।
श्रीयमुनाष्टकविवृतिं विवरीतुं काङ्क्षते यतः करुणां ॥ १ ॥
अथ श्रीमत्प्रभुचरणाः श्रीमदाचार्याणां स्वस्य चाऽवतारप्रयोजनं तत्र श्रीयमुनाया
निर्वाहकत्वादष्टककरणं चाऽनुसन्धाय श्रीयमुनाष्टकविवृतिं विरचयिषव-
स्तत्साफल्याय श्रीमदाचार्यान् प्रार्थयन्ति विश्वोद्धारार्थमिति । विश्वोद्धारार्थं