सामग्री पर जाएँ
सर्वकोश
रसरत्नाकर: रसायन खण्ड (सिद्ध नित्यनाथ - पारद भस्म एवं रसायन कल्प सटीक)

रसरत्नाकर: रसायन खण्ड (सिद्ध नित्यनाथ - पारद भस्म एवं रसायन कल्प सटीक)

Rasaratnakara Rasayana Khanda of Siddha Nityanatha with Commentary

सिद्ध नित्यनाथ (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा

DevanagariHindipublished94 पृष्ठ

पृष्ठ 53, कुल 94 में से

संदर्भ में पढ़ें
पृष्ठ 53

४६ आयुर्वेदग्रन्थमाला । [उपदेशः
रुद्ध्वा क्षिपेद्धान्यराशौ मासादुद्धृत्य भक्षयेत् ।
द्विपलं वर्षपर्यन्तं जीवेच्चन्द्रार्कतारकम् ॥ ८७ ॥
तच्चूर्णार्धपलं चाज्यैर्लिहेत्स्यात्पूर्ववत्फलम् ।
तच्चूर्णं त्रिफला मुण्डी भृङ्गी निम्बो गुडूचिका ॥ ८८ ॥
वचा चैषां समं चूर्णं मध्वाज्याभ्यां लिहेत्पलम् ।
वर्षान्मृत्युं जरां हन्ति जीवेद्ब्रह्मदिनत्रयम् ॥ ८९ ॥
निर्गुण्डीपत्रजं द्रावं भाण्डे मृद्वग्निना पचेत् ।
गुडवत्पाकमापन्नं पीतं वान्तिविरेककृत् ॥ ९० ॥
निर्यान्ति कृमयस्तस्य मुखनासाक्षिकर्णतः ।
राजयक्ष्मादिरोगांश्च सप्ताहेन विनाशयेत् ।
मासत्रयाज्जरां हन्ति जीवेद्वर्षशतत्रयम् ॥ ९१ ॥
'ॐ नमो माय गणपतये भूपतये कुबेराय स्वाहा'. इति
भक्षणमन्त्रः ॥
रसायनाः कतिपययोगाः ।
भल्लातकोऽभया वीरा काकतुण्ड्याः फलं वचा ।
लाङ्गली निम्बपत्राणि सहदेवी समं समम् ॥ ९२ ॥
एषां पातालयन्त्रेण तैलं ग्राह्यं प्रयत्नतः ।
तत्तैलं नीलिकामूलयुक्तमर्धपलं पिबेत् ॥ ९३ ॥
वत्सरात्पलितं हन्ति आयुः स्याद्ब्रह्मणो दिनम् ।
तैलार्धनिष्के तन्नस्ये कृते स्यात्पूर्ववत्फलम् ॥ ९४ ॥
कृष्णजीरकप्रस्थैकं तत्तुल्यं भृङ्गजद्रवम् ।
यष्टी नीलोत्पलं चैव प्रति प्रस्थार्धमाहरेत् ॥ ९५ ॥
पादप्रस्थं तिलात्तैलं सर्वमेकत्र पाचयेत् ।
ग्राह्यं तैलावशेषं तन्नस्यं तेनैव कारयेत् ॥ ९६ ॥
नस्यं चाङ्कोल्लतैलेन कुर्यान्मृत्युजरापहम् ।
निष्कार्धंनिष्कं वर्षैकं जीवेद्वर्षशतत्रयम् ॥ ९७ ॥