सामग्री पर जाएँ
सर्वकोश
रसरत्नाकर: रसायन खण्ड (सिद्ध नित्यनाथ - पारद भस्म एवं रसायन कल्प सटीक)

रसरत्नाकर: रसायन खण्ड (सिद्ध नित्यनाथ - पारद भस्म एवं रसायन कल्प सटीक)

Rasaratnakara Rasayana Khanda of Siddha Nityanatha with Commentary

सिद्ध नित्यनाथ (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा

DevanagariHindipublished94 पृष्ठ

पृष्ठ 43, कुल 94 में से

संदर्भ में पढ़ें
पृष्ठ 43

३६ आयुर्वेदियग्रन्थमाला । [उपदेशः
काकिनीपुत्रसर्वाङ्गं पृथिवीतत्त्वमुच्यते ॥ २०० ॥
रससेवकदेहोत्थवीर्य जीवस्तु कथ्यते ।
तत्प्रत्येकं कोटिवेधं कर्षैकं रससंयुतम् ॥ २०१ ॥
कृत्वा संरक्षयेद्बिम्बं सुपिष्टं गोलकीकृतम् ।
उन्नतं पौरुषं यावद्विस्तारेण तदर्धकम् ॥ २०२ ॥
कुर्यात्ताम्रकटाहं तु स्थूलं यावत् षडङ्गुलम् ।
चतुर्मुखस्य कोष्ठस्य पृष्ठे धार्यं दृढं यथा ॥ २०३ ॥
गोघृतं नरतैलं च समभागेन मेलयेत् ।
तेनापूर्य कटाहं तं सिद्धचक्रं ततोऽर्चयेत् ॥ २०४ ॥
कुमारीगुरुदेवाग्नीन् भैरवं भैरवीयुतम् ।
तर्पयेद्बलिमांसेन क्षेत्रपालं च पूजयेत् ॥ २०५ ॥
धमनं तत्र कुर्वीत चतुर्दिक्षु शनैः शनैः ।
चतुर्भिर्वङ्कनालैश्च खदिराङ्गारयोगतः ॥ २०६ ॥
सुतप्तं फेननिर्मुक्तं निर्धूमं च यदा भवेत् ।
चन्द्रार्कग्रहनक्षत्रदेवताभुवनानि च ॥ २०७ ॥
नमस्कृत्य गुरुं देवं