रसरत्नाकर: रसायन खण्ड (सिद्ध नित्यनाथ - पारद भस्म एवं रसायन कल्प सटीक)
Rasaratnakara Rasayana Khanda of Siddha Nityanatha with Commentary
सिद्ध नित्यनाथ (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 36, कुल 94 में से
संदर्भ में पढ़ें३.] रसरत्नाकरस्य रसायनखण्डः । २९
वेष्टयेद्भूर्जपत्रेण वस्त्रे बद्ध्वा पचेत्र्यहम् ।
दोलायन्त्रे सारनाले जातं गोलं समुद्धरेत् ॥ ११५ ॥
गान्धारी जीवनी चैव लाङ्गली चेन्द्रवारुणी ।
एतासां पिण्डकल्केन वेष्टयेत्पूर्वगोलकम् ॥ ११६ ॥
अन्धयित्वा दिनं पच्याद्भूधरे तं समुद्धरेत् ।
पुनर्लेप्यं पुनः पाच्यं चतुर्दशदिनावधि ॥ ११७ ॥
गुटिका जायते दिव्या नाम्ना रत्नेश्वरी तथा ।
वक्रस्था वर्षमात्रं तु नन्दितुल्यो भवेन्नरः ॥ ११८ ॥
जीवेद्वर्षसहस्राणि दिव्यतेजा महाबलः ।
वर्षद्वादशपर्यन्तं यस्य वक्रे स्थिता तु सा ॥ ११९ ॥
तस्य प्रस्वेदसंपर्कादष्टलोहानि काञ्चनम् ।
जायन्ते नात्र संदेहः सत्यमीश्वरभाषितम् ॥ १२० ॥
पञ्चाङ्गचूर्णं मध्वाज्यै रुदन्त्युत्थं लिहेदनु ।
दिव्यखेचरीवटिका ।
स्वर्णं कृष्णाभ्रसत्त्वं च तारं ताम्रं सुचूर्णितम् ॥ १२१ ॥
समांशं द्वन्द्वलिप्तायां मूषायां चान्धितं धमेत् ।
तत्खोटं भागचत्वारि भागैकं मृतवज्रकम् ॥ १२२ ॥
माक्षिकं तीक्ष्णकान्तं च भागैकैकं सुचूर्णितम् ।
समस्तं द्वन्द्वलिप्तायां मूषायां चान्धितं धमेत् ॥ १२३ ॥
तत्खोटं सूक्ष्मचूर्णं तु चूर्णांशं द्रुतसूतकम् ।
त्रिदिनं तप्तखल्वे तु मर्द्यं दिव्यौषधिद्रवैः ॥ १२४ ॥
रुद्ध्वाऽथ भूधरे पच्यादहोरात्रात्समुद्धरेत् ।
द्रुतसूतं पुनस्तुल्यं दत्त्वा मर्द्य पुटेत्तथा ॥ १२५ ॥
इत्येवं सप्तवारांस्तु द्रुतं सूतं समं समम् ।
दत्त्वा मर्द्य पुटे पच्याज्जायते भस्मसूतकः ॥ १२६ ॥
भस्मसूतसमं गन्धं दत्त्वा रुद्ध्वा धमेद्दृढम् ।
जायते गुटिका दिव्या विख्याता दिव्यखेचरी ॥ १२७ ॥