सामग्री पर जाएँ
सर्वकोश
रसरत्नाकर: रसायन खण्ड (सिद्ध नित्यनाथ - पारद भस्म एवं रसायन कल्प सटीक)

रसरत्नाकर: रसायन खण्ड (सिद्ध नित्यनाथ - पारद भस्म एवं रसायन कल्प सटीक)

Rasaratnakara Rasayana Khanda of Siddha Nityanatha with Commentary

सिद्ध नित्यनाथ (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा

DevanagariHindipublished94 पृष्ठ

पृष्ठ 18, कुल 94 में से

संदर्भ में पढ़ें
पृष्ठ 18

२.] रसरत्नाकरस्य रसायनखण्डः। ११
परमेश्वररसः ।
रसं वज्रं स्वर्णकान्ते मुण्डं च मारितं समम् ।
माक्षिकं गन्धकं शुद्धं सर्वं जम्बीरजैर्द्रवैः ॥ ४६ ॥
सप्ताहं मर्दयेत्खल्वे तद्गोलं चान्धितं पुटेत् ।
भूधरे दिनमेकं तु ख्यातः सिद्धरसः परः ॥ ४७ ॥
मार्षकं मधुना लेह्यं वर्षान्मृत्युजरापहम् ।
दिव्यकायो नरः सिद्धो भवेद्विष्णुपराक्रमः ॥ ४८ ॥
श्वेतपौर्नर्नवं मूलं क्षीरपिष्टं सदा पिवेत् ।
भक्षयेद्वा सिता सार्धं क्रामकं पैरमे रसे ॥ ४९ ॥
गन्धामृतरसः ।
मृतसूतस्य द्विगुणं शुद्धं गन्धं विमिश्रयेत् ।
दिनैकं कन्यकाद्रावैर्मर्दयित्वा निरोधयेत् ॥ ५० ॥
दिनैकं मधुना पच्यान्निष्कैंकं मधुना लिहेत् ।
गन्धामृतो रसो नाम वत्सरान्मृत्युजिद्भवेत् ॥ ५१ ॥
समूलं भृङ्गराजं तु छायाशुष्कं विचूर्णयेत् ।
तत्समं त्रिफलाचूर्णं सर्वतुल्या सिता भवेत् ॥ ५२ ॥
एकीकृत्य पलैकैकं भक्षयेदनुपानकम् ।
कालकण्टकरसः ।
पारदाभ्रं मृतं तुल्यं द्वाभ्यां तुल्यं तु गन्धकम् ॥ ५३॥
तत्सर्वं भृङ्गजैर्द्रवैर्मर्दयेद्दिनसप्तकम् ।
षड्वारं चोङ्गुलीतैलैर्भावयित्वाऽथ भक्षयेत् ॥ ५४ ॥
माषमात्रं तु वर्षेकं रसोऽयं कालकण्टकः ।
पिष्ट्वा करञ्जपत्राणि गवां क्षीरैः पिबेदनु ॥ ५५ ॥
जरामृत्युविनिर्मुक्तो जीवेद्ब्रह्मदिनं नरः ।
अमृतेशरसः ।
मृतसूताभ्रकं कान्तं विषं ताप्यं शिलाजतु ॥ ५६ ॥
१ 'परमेश्वरे' ख. । २ 'बाकुचीतैलै-' ख. ।