सामग्री पर जाएँ
सर्वकोश
रसरत्नाकर: रसायन खण्ड (सिद्ध नित्यनाथ - पारद भस्म एवं रसायन कल्प सटीक)

रसरत्नाकर: रसायन खण्ड (सिद्ध नित्यनाथ - पारद भस्म एवं रसायन कल्प सटीक)

Rasaratnakara Rasayana Khanda of Siddha Nityanatha with Commentary

सिद्ध नित्यनाथ (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा

DevanagariHindipublished94 पृष्ठ

पृष्ठ 16, कुल 94 में से

संदर्भ में पढ़ें
पृष्ठ 16

२.] रसरत्नाकरस्य रसायनखण्डः । ९
यामैकं मर्दयेत्सर्वं मधुसर्पिर्युतं लिहेत् ।
निष्कैकैकं वर्षमात्रं शिलावीरो महारसः ॥ २२ ॥
जराकालं निहन्त्याशु जीवेद्वर्षशतत्रयम् ।
पलार्धं मुशलीचूर्णं भृङ्गराजरसैः पिबेत् ॥ २३ ॥
धात्रीफलरसैर्वाऽथ क्रामकं ह्यनुपानकम् ।
अमृतार्णवरसः ।
मेघनादद्रवैर्मर्द्यं शुद्धसूतं दिनत्रयम् ॥ २४ ॥
विडङ्गं द्विनिशं व्योषं समं चूर्णं प्रकल्पयेत् ।
आरग्वधस्य मूलं तु चूर्णस्य द्विगुणं भवेत् ॥ २५ ॥
चूर्णस्य द्विगुणं चाज्यं क्षौद्रं चैव चतुर्गुणम् ।
सर्वं पूर्वरसे क्षिप्त्वा मृद्वग्नौ चालयन् पचेत् ॥ २६ ॥
तत्पिण्डं कर्षमेकैकं भक्षयेदमृतार्णवः ।
वर्षमात्राज्जरां हन्ति जीवेद्वर्षशतत्रयम् ॥ २७ ॥
बाकुचीचूर्णकर्षैकं धात्रीफलरसैः पिबेत् ।
उदयादित्यरसः ।
पारदाद्द्विगुणं गन्धं शुद्धं सर्वं विमर्द्येत् ॥ २८ ॥
मुण्ड्यार्द्रकरसैः खल्वे त्रिसप्ताहं पुनः पुनः ।
एतत्तुल्यं शुद्धताम्रं संपुटे तन्निरोधयेत् ॥ २९ ॥
वेष्टयेद्वस्त्रखण्डेन वज्रमृत्तिकया बहिः ।
लिप्त्वा विशोषयेत्तं वै सम्यग्गजपुटे पचेत् ॥ ३० ॥
उद्धृत्य संपुटं चूर्ण्यं देवदाल्या द्रवैस्त्र्यहम् ।
भङ्गीपुनर्नवाद्रवैः पृथग्भाव्यं त्र्यहं त्र्यहम् ॥ ३१ ॥
तत्तुल्यं नागराच्चूर्णं क्षिप्त्वा मध्वाज्यसंयुक्तम् ।
लिहेन्माषद्वयं नित्यं यावत्संवत्सरावधि ॥ ३२ ॥
रसोऽयमुदयादित्यो जरामृत्युहरः परः ।
पुनर्नवादेवदालीभृङ्गचूर्णं समं समम् ॥ ३३ ॥