रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
by महाकवि कालिदास
Source: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (origin)
Page 221 of 735
Read in context| १६२ | रघुवंशमहाकाव्ये |
|---|
**अन्वयः—**मतिमतां वर ! रात्रिः गता, शय्यां मुञ्च, धात्रा जगतः धूः द्विधा एव विभक्ता ननु, ताम् एकतः तव गुरुः विनिद्रः सन् बिभर्ति, तस्याः भवान् अपरधुर्यपदावलम्बी ( भव ) ।
रात्रिरिति । हे मतिमतां वर ! निर्धारणे षष्ठी । रात्रिर्गता । शय्यां मुञ्च । विनिद्रो भवेत्यर्थः । धात्रा ब्रह्मणा जगतो धूर्भारः । द्विधैव द्वयोरेवेत्यर्थः । विभक्ता ननु विभज्य स्थापिता खलु । तां धुरमेकत एककोटौ तव गुरुः पिता विनिद्रः सन्बिभर्ति तस्या धुरो भवान् । धुरं वहतीति धुर्यो भारवाही । तस्य पदं वहन-स्थानम् । अपरं यद् धुर्यपदं तदवलम्बी । ततो विनिद्रो भवेत्यर्थः ।
**भाषार्थ—**हे बुद्धिमानों में श्रेष्ठ अज ! रात बीत गई। अतः आप शय्या को छोड़ें, क्योंकि ब्रह्माजी से पृथ्वी पालन का भार दो भागों में विभक्त है। उसमें एक भाग आपके पिता नींद छोड़कर वहन कर रहे हैं, दूसरे भाग को आप संभालें ॥ ६६ ॥
निद्रावशेन भवताऽप्यनवेक्ष्यमाणा पर्युत्सुकत्वमबला निशि खण्डितेव ।
लक्ष्मीर्विनोदयति येन दिगन्तलम्बी सोऽपि त्वदाननरूचिं विजहाति चन्द्रः ॥
**अन्वयः—**निद्रावशेन भवता पर्युत्सुकत्वम् अपि निशि खण्डिता अबला इव अनवेक्ष्यमाणा सती लक्ष्मीः येन पर्युत्सुकत्वम् विनोदयति सः चन्द्रः अपि दिगन्त-लम्बी सन् त्वदाननरूचिं विजहाति ।
निद्रेति । निद्रावशेन निद्राऽधीनेन । भवता पर्युत्सुकत्वमपि । त्वय्यनुरक्तत्व-मपीत्यर्थः । निशि खण्डिता भर्तुरन्यासङ्गज्ञानकलुषिताबलेव नायिकेव । अनपेक्ष्य-माणाऽविचार्यमाणा सती । उपेक्ष्यमाणेत्यर्थः । ‘ह्यनवेक्ष्यमाणा’ इति पाठे निद्रा-वशेन भवताऽनवेक्ष्यमाणाऽनिरीक्ष्यमाणा । लक्ष्मीः प्रयोजककर्त्री येन प्रयोज्येन चन्द्रेण पर्युत्सुकत्वं त्वद्विरहवेदनाम् । विनोदयति निराशायतीति योजना । शेषं पूर्ववत् । लक्ष्मीर्येन चन्द्रेण सह । त्वदाननसदृशत्वादिति भावः । विनोदयति वि-नोदं करोति । स चन्द्रोऽपि दिगन्तलम्बी पश्चिमाशां गतः सन् । अस्तं गच्छन्नि-त्यर्थः । अत एव त्वदाननरूचिं विजहाति । त्वन्मुखसादृश्यं त्यजतीत्यर्थः ।
**भाषार्थ—**निद्रारूपिणी रमणी के अधीन हुए के द्वारा अनुरक्त होती हुई भी उपेक्षणीय आपकी सौन्दर्यलक्ष्मी रात्रि में खण्डिता नायिका के समान खिन्न होकर जिस चन्द्रमा के साथ अपने मन को बहलाती थी, वह चन्द्रमा भी इस समय पश्चिम दिशा में अस्त हुंता हुआ आपकी मुख कान्ति के समान कान्ति को छोड़ रहा है। इसलिए नींद को छोड़ कर आप उस निराश्रित सौन्दर्य लक्ष्मी को ग्रहण करें ॥ ६७ ॥