सामग्री पर जाएँ
सर्वकोश
प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

Prabodhachandrodaya of Krishnamishra with Commentary

कृष्णमिश्र यति द्वारा

कॉपीराइट समस्या बताएँ

DevanagariHindipublished274 पृष्ठ

पृष्ठ 27, कुल 274 में से

संदर्भ में पढ़ें
पृष्ठ 27
पृष्ठ 27 स्कैन

प्रथमोऽङ्कः ६
तेन च शान्तपथप्रस्थितेनात्मनो विनोदार्थं प्रबोधचन्द्रोदयाभिधानं
नाटकमभिनेतुमादिष्टोऽस्मि । तदादिश्यन्तां भरता वर्णिकापरिग्रहाय ।
नटी—( सविस्मयम् ) आर्यपुत्र, आश्चर्यमाश्चर्यम् । येन तथाविधनिज-
भुजबलविक्रमैकनिर्भर्त्सितसकलराजमण्डलेन आकर्णाकृष्टकठिनकोदण्ड-
दण्डबहुलवर्षच्छरनिकरजर्जरीयतुरङ्गतरङ्गमालम् , निरन्तरनिपतत्तीक्ष्ण-
विशिखनिचित्तमहास्त्रपर्यस्तोत्तुङ्गमातङ्गमहामहीधरसहस्रम् , भ्रमद्भुज-
दण्डमन्दराभिघातघूर्णमानसकलपत्तिसलिलसंघातम्, कर्णसेनासागरं
गोपाल इत्याशयः । अतिशयोक्तिरलङ्कारः । पूर्वोक्ताविपरीतं वृत्तम् ॥ ५ ॥
तेन गोपालभूपेन । शान्तपथप्रस्थितेन शममार्गप्रचलितेन । आत्मनः स्वस्य ।
अभिनेतुम्-प्रयोक्तुम् । आदिष्टः-आज्ञापितः । आदिश्यन्ताम्-आज्ञाप्यन्ताम् ।
भरताः अभिनेतारो नटाः । वर्णिकापरिग्रहाय-यथोचितवेषग्रहणाय । यस्य भूमिका
येन नटेनालम्बनीया तेन नटेन स्वानुकार्यस्य वेषः सम्पाद्यतामित्याशयः ।
सविस्मयम्—साश्चर्यम् , विस्मयश्च गोपालभूपालस्य युद्धरसिकस्य शमपथ-
प्रस्थानश्रवणजन्मा बोध्यः ।
तथाविधोऽतिविख्यातपराक्रमो यो निजभुजबलविक्रमः स्वबाहुपराक्रमस्तेनै-
केन केवलेन तेन ( परकीयसाहाय्यनिरपेक्षम् ) निर्भर्त्सितम् परास्तम् सकलराज-
मण्डलं समस्तनृपचक्रं येन तादृशेन । इदं तृतीयान्तं राज्ञो विशेषणम् । आकर्णाकृष्टः
कर्णपर्यन्तं नमितः यः कठिनकोदण्डदण्डः कठोरधनुर्दण्डः ततः कोदण्डदण्डाद्
बहुलम् प्रचुरम् वर्षतः निर्गच्छतः शरनिकरेण बाणसमूहेन जर्जरीताः क्षत-
विक्षताः तुरङ्गाः अश्वा एव तरङ्गमाला यस्य तादृशम् इदमग्रेतनं च द्वितीयान्तकुलं
समुद्रत्वेन रूप्यमाणस्य राजनिवहस्य विशेषणम् । निरन्तरं सततं निपतन्ति परा-
पतनशीलानि तीक्ष्णानि शिताग्राणि विशिखानि बाणाः निचितानि प्रहृतानि महा-
स्त्राणि आग्नेयादीनि तैः पर्यस्ता इतस्ततः क्षिप्ता उत्तुङ्गमातङ्गा दीर्घा दन्तिन एव
महामहीधरसहस्रम् महोच्चपर्वतकुलम् यस्येति विग्रहः, कर्णसेनासागरगतं हस्तिकुल-
अब वह शान्ति के उपासक हो रहे हैं, उन्होंने आत्मविनोदार्थ प्रबोधचन्द्रोदयके
अभिनय करने की आज्ञा दी है । इसलिये नटोंको तैयार होने की आज्ञा दो ।
नटी—( विस्मयके साथ ) आर्यपुत्र, आश्चर्य है, आश्चर्य ! जिसने अपने उद्दाम बाहु
पराक्रमसे समस्त राजमण्डलको नीचा दिखाया, शत्रु सागरमें कान तक आकृष्ट बाणसे
शरवृष्टि करके तरङ्गोपम तुरङ्गोंको जर्जरित किया, निरन्तर गिरनेवाले बाणों तथा अन्य
महास्त्रोंसे शैलतुल्य गजराजोंको उलट-पुलट दिया, भुजदण्डरूप मन्दर पर्वत घुमाकर
सकल पदातिसेनारूप जलराशिको नचा दिया, इस प्रकार कर्णसेना सागरको मथकर